निकुम्भो
भ्रातरं
दृष्ट्वा
सुग्रीवेण
निपातितम् ।
प्रदहन्निव
कोपेन
वानरेन्द्रमवैक्षत ॥ १ ॥
ततः
स्रग्दामसन्नद्धं
दत्तपञ्चाङ्गुलं
शुभम् ।
आददे
परिघं
वीरो
नगेन्द्रशिखरोपमम् ॥ २ ॥
हेमपट्टपरिक्षिप्तं
वज्रविद्रुमभूषितम् ।
यमदण्डोपमं
भीमं
रक्षसां
भयनाशनम् ॥ ३ ॥
तमाविध्य
महातेजाः
शक्रध्वजसमं
तदा ।
विननाद
विवृत्तास्यो
निकुम्भो
भीम
विक्रमः ॥ ४ ॥
उरोगतेन
निष्केण
भुजस्थैरङ्गदैरपि ।
कुण्डलाभ्यां
च
चित्राभ्यां
मालया
च
विचित्रया ॥ ५ ॥
निकुम्भो
भूषणैर्भाति
तेन
स्म
परिघेण
च ।
यथेन्द्रधनुषा
मेघः
सविद्युत्
स्तनयित्नुमान् ॥ ६ ॥
परिघाग्रेण
पुस्फोट
वातग्रन्थिर्महात्मनः ।
प्रजज्वाल
सघोषश्च
विधूम
इव
पावकः ॥ ७ ॥
नगर्या
विटपावत्या
गन्धर्वभवनोत्तमैः ।
सह
चैवामरावत्या
सर्वैश्च
भवनैः
सह ॥ ८ ॥
सतारग्रहनक्षत्रं
सचन्द्रं
समहाग्रहम् ।
निकुम्भपरिघाघूर्णं
भ्रमतीव
नभस्स्थलम् ॥ ९ ॥
दुरासदश्च
सञ्जज्ञे
परिघाभरणप्रभः ।
कपीनां
स
निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः ॥ १० ॥
राक्षसा
वानराश्चापि
न
शेकुः
स्पन्दितुं
भयात् ।
हनुमांस्तु
विवृत्योरस्तस्थौ
प्रमुखतो
बली ॥ ११ ॥
परिघोपमबाहुस्तु
परिघं
भास्करप्रभम् ।
बली
बलवतस्तस्य
पातयामास
वक्षसि ॥ १२ ॥
स्थिरे
तस्योरसि
व्यूढे
परिघः
शतधा
कृतः ।
विशीर्यमाणः
सहसा
उल्काशतमिवाम्बरे ॥ १३ ॥
स
तु
तेन
प्रहारेण
विचचाल
महाकपिः ।
परिघेण
समाधूतो
यथाभूमिचलेऽचलः ॥ १४ ॥
स
तदाऽभिहतस्तेन
हनुमान्
प्लवगोत्तमः ।
मुष्टिं
संवर्तयामास
बलेनातिमहाबलः ॥ १५ ॥
तमुद्यम्य
महातेजा
निकुम्भोरसि
वीर्यवान् ।
अभिचिक्षेप
वेगेन
वेगवान्
वायुविक्रमः ॥ १६ ॥
ततः
पुस्फोट
चर्मास्य
प्रसुस्राव
च
शोणितम् ।
मुष्टिना
तेन
सञ्जज्ञे
ज्वाला
विद्युदिवोत्थिता ॥ १७ ॥
स
तु
तेन
प्रहारेण
निकुम्भो
विचचाल
ह ।
स्वस्थश्चापि
निजग्राह
हनुमन्तं
महाबलम् ॥ १८ ॥
विचुक्रुशुस्तदा
सङ्ख्ये
भीमं
लङ्कानिवासिनः ।
निकुम्भेनोद्यतं
दृष्ट्वा
हनुमन्तं
महाबलम् ॥ १९ ॥
स
तदा
ह्रियमाणोऽपि
कुम्भकर्णात्मजेन
ह ।
आजघानानिलसुतो
वज्रकल्पेन
मुष्टिना ॥ २० ॥
आत्मानं
मोचयित्वाऽथ
क्षितावभ्यवपद्यत ।
हनुमानुन्ममाथाशु
निकुम्भं
मारुतात्मजः ॥ २१ ॥
निक्षिप्य
परमायत्तो
निकुम्भं
निष्पिपेष
ह ।
उत्पत्य
चास्य
वेगेन
पपातोरसि
वीर्यवान् ॥ २२ ॥
परिगृह्य
च
बाहुभ्यां
परिवृत्य
शिरोधराम् ।
उत्पाटयामास
शिरो
भैरवं
नदतो
महत् ॥ २३ ॥
अथ
विनदति
सादिते
निकुम्भे
पवनसुतेन
रणे
बभूव
युद्धम् ।
दशरथसुतराक्षसेन्द्रसून्वोर्भृशतरमागतरोषयोः
सुभीमम् ॥ २४ ॥
व्यपेते
तु
जीवे
निकुम्भस्य
हृष्टा
विनेदुः
प्लवङ्गा
दिशः
सस्वनुश्च ।
चचालेव
चोर्वी
पफालेव
च
द्यौर्भयं
राक्षसानां
बलं
चाविवेश ॥ २५ ॥