निकुम्भं
च
हतं
श्रुत्वा
कुम्भं
च
विनिपातितम् ।
रावणः
परमामर्षी
प्रजज्वालानलो
यथा ॥ १ ॥
नैर्ऋतः
क्रोधशोकाभ्यां
द्वाभ्यां
तु
परिमूर्च्छितः ।
खरपुत्रं
विशालाक्षं
मकराक्षमचोदयत् ॥ २ ॥
गच्छ
पुत्र
मयाऽऽज्ञप्तो
बलेनाभिसमन्वितः ।
राघवं
लक्ष्मणं
चैव
जहि
तांश्च
वनौकसः ॥ ३ ॥
रावणस्य
वचः
श्रुत्वा
शूरमानी
खरात्मजः ।
बाढमित्यब्रवीद्धृष्टो
मकाराक्षो
निशाचरः ॥ ४ ॥
सोऽबिवाद्य
दशग्रीवं
कृत्वा
चापि
प्रदक्षिणम् ।
निर्जगाम
गृहाच्छुभ्राद्रावणस्याज्ञया
बली ॥ ५ ॥
समीपस्थं
बलाध्यक्षं
खरपुत्रोऽब्रवीदिदम् ।
रथश्चानीयतां
शीघ्रं
सैन्यं
चाहूयतां
त्वरात् ॥ ६ ॥
तस्य
तद्वचनं
श्रुत्वा
बलाध्यक्षो
निशाचरः ।
स्यन्दनं
च
बलं
चैव
समीपं
प्रत्यपादयत् ॥ ७ ॥
प्रदक्षिणं
रथं
कृत्वा
आरुरोह
निशाचरः ।
सूतं
सञ्चोदयामास
शीघ्रं
मे
रथमावह ॥ ८ ॥
अथ
तान्
राक्षसान्
सर्वान्
मकराक्षोऽब्रवीदिदम् ।
यूयं
सर्वे
प्रयुद्ध्यध्वं
पुरस्तान्मम
राक्षसाः ॥ ९ ॥
अहं
राक्षसराजेन
रावणेन
महात्मना ।
आज्ञप्तः
समरे
हन्तुं
तावुभौ
रामलक्ष्मणौ ॥ १० ॥
अद्य
रामं
वधिष्यामि
लक्ष्मणं
च
निशाचराः ।
शाखामृगं
च
सुग्रीवं
वानरांश्च
शरोत्तमैः ॥ ११ ॥
अद्य
शूलनिपातैश्च
वानराणां
महाचमूम् ।
प्रदहिष्यामि
सम्प्राप्तः
शुष्केन्धनमिवानलः ॥ १२ ॥
मकराक्षस्य
तच्छ्रुत्वा
वचनं
ते
निशाचराः ।
सर्वे
नानायुधोपेता
बलवन्तः
समागताः ॥ १३ ॥
ते
कामरूपिणः
सर्वे
दंष्ट्रिणः
पिङ्गलेक्षणाः ।
मातङ्गा
इव
नर्दन्तो
ध्वस्तकेशा
भयानकाः ॥ १४ ॥
परिवार्य
महाकाया
महाकायं
खरात्मजम् ।
अभिजग्मुस्ततो
हृष्टाश्चालयन्तो
वसुन्धराम् ॥ १५ ॥
शङ्खभेरीसहस्राणामाहतानां
समन्ततः ।
क्ष्वेलितास्फोटितानां
च
ततः
शब्दो
महानभूत् ॥ १६ ॥
प्रभ्रष्टोऽथ
करात्तस्य
प्रतोदः
सारथेस्तदा ।
पपात
सहसा
चैव
ध्वजस्तस्य
च
रक्षसः ॥ १७ ॥
तस्य
ते
रथयुक्ताश्च
हया
विक्रमवर्जिताः ।
चरणैराकुलैर्गत्वा
दीनाः
सास्रमुखा
ययुः ॥ १८ ॥
प्रवाति
पवनस्तस्मिन्
सपांसुः
खरदारुणः ।
निर्याणे
तस्य
रौद्रस्य
मकराक्षस्य
दुर्मतेः ॥ १९ ॥
तानि
दृष्ट्वा
निमित्तानि
राक्षसा
वीर्यवत्तमाः ।
अचिन्त्य
निर्गताः
सर्वे
यत्र
तौ
रामलक्ष्मणौ ॥ २० ॥
घनगजमहिषाङ्गतुल्यवर्णाः
समरमुखेष्वसकृद्गदासिभिन्नाः ।
अहमहमिति
युद्धकौशलास्ते
रजनिचराः
परितः
समुन्नदन्तः ॥ २१ ॥