निर्गतं
मकाराक्षं
ते
दृष्ट्वा
वानरयूथपाः ।
आप्लुत्य
सहसा
सर्वे
योद्धुकामा
व्यवस्थिताः ॥ १ ॥
ततः
प्रवृत्तं
सुमहत्
तद्युद्धं
रोमहर्षणम् ।
निशाचरैः
प्लवङ्गानां
देवानां
दानवैरिव ॥ २ ॥
वृक्षशूलनिपातैश्च
शिलापरिघपातनैः ।
अन्योन्यं
मर्दयन्ति
स्म
तदा
कपिनिशाचराः ॥ ३ ॥
शक्तिखड्गगदाकुन्तैस्तोमरैश्च
निशाचराः ।
पट्टिशैर्भिन्दिपालैश्च
निर्घातैश्च
समन्ततः ॥ ४ ॥
पाशमुद्गरदण्डैश्च
निखातैश्चापरे
तदा ।
कदनं
कपिवीराणां
चक्रुस्ते
रजनीचराः ॥ ५ ॥
बाणौघैरर्दिताश्चापि
खरपुत्रेण
वानराः ।
सम्भ्रान्तमनसः
सर्वे
दुद्रुवुर्भयपीडिताः ॥ ६ ॥
तान्
दृष्ट्वा
राक्षसाः
सर्वे
द्रवमाणान्
वलीमुखान् ।
नेदुस्ते
सिंहवद्धृष्टा
राक्षसा
जितकाशिनः ॥ ७ ॥
विद्रवत्सु
तदा
तेषु
वानरेषु
समन्ततः ।
रामस्तान्
वारयामास
शरवर्षेण
राक्षसान् ॥ ८ ॥
वारितान्
राक्षसान्
दृष्ट्वा
मकराक्षो
निशाचरः ।
क्रोधानलसमाविष्टो
वचनं
चेदमब्रवीत् ॥ ९ ॥
तिष्ठ
राम
मया
सार्धं
द्वन्द्वयुद्धं
ददामि
ते ।
त्याजयिष्यामि
ते
प्राणान्
धनुर्मुक्तैः
शितैः
शरैः ॥ १० ॥
यत्तदा
दण्डकारण्ये
पितरं
हतवान्
मम ।
मदग्रतः
स्वकर्मस्थं
दृष्ट्वा
रोषोऽभिवर्धते ॥ ११ ॥
दह्यन्ते
भृशमङ्गानि
दुरात्मन्
मम
राघव ।
यन्मयाऽसि
न
दृष्टस्त्वं
तस्मिन्
काले
महावने ॥ १२ ॥
दिष्ट्याऽसि
दर्शनं
राम
मम
त्वं
प्राप्तवानिह ।
काङ्क्षितोऽसि
क्षुधार्तस्य
सिंहस्येवेतरो
मृगः ॥ १३ ॥
अद्य
मद्बाणवेगेन
प्रेतराङ्विषयं
गतः ।
ये
त्वया
निहता
वीराः
सह
तैश्च
समेष्यसि ॥ १४ ॥
बहुनाऽत्र
किमुक्तेन
शृणु
राम
वचो
मम ।
पश्यन्तु
सकला
लोकास्त्वां
मां
चैव
रणाजिरे ॥ १५ ॥
अस्त्रैर्वा
गदया
वापि
बाहुभ्यां
वा
महाहवे ।
अभ्यस्तं
येन
वा
राम
तेनैव
युधि
वर्तताम् ॥ १६ ॥
मकराक्षवचः
क्षुत्वा
रामो
दशरथात्मजः ।
अब्रवीत्
प्रहसन्
वाक्यमुत्तरोत्तरवादिनम् ॥ १७ ॥
कत्थसे
किं
वृथा
रक्षो
बहून्यसदृशानि
तु ।
न
रणे
शक्यते
जेतुं
विना
युद्धेन
वाग्बलात् ॥ १८ ॥
चतुर्दशसहस्राणि
रक्षसां
त्वत्पिता
च
यः ।
त्रिशिरा
दूषणश्चैव
दण्डके
निहता
मया ॥ १९ ॥
स्वाशितास्तव
मांसेन
गृध्रगोमायुवायसाः ।
भविष्यन्त्यद्य
वै
पाप
तीक्ष्णतुण्डनखाङ्कुराः ॥ २० ॥
राघवेणैवमुक्तस्तु
खरपुत्रो
निशाचरः ।
बाणौघानमुचत्तस्मै
राघवाय
रणाजिरे ॥ २१ ॥
तान्
शरान्
शरवर्षेण
रामश्चिच्छेद
नैकधा ।
निपेतुर्भुवि
ते
च्छिन्ना
रुक्मपुङ्खाः
सहस्रशः ॥ २२ ॥
तद्युद्धमभवत्तत्र
समेत्यान्योन्यमोजसा ।
रक्षसः
खरपुत्रस्य
सूनोर्दशरथस्य
च ॥ २३ ॥
जीमूतयोरिवाकाशे
शब्दो
ज्यातलयोस्तदा ।
धनुर्मुक्तः
स्वनोत्कृष्टः
श्रूयते
च
रणाजिरे ॥ २४ ॥
देवदानवगन्धर्वाः
किन्नराश्च
महोरगाः ।
अन्तरिक्षगताः
सर्वे
द्रष्टुकामास्तदद्भुतम् ॥ २५ ॥
विद्धमन्योन्यगात्रेषु
द्विगुणं
वर्धते
परम् ।
कृतप्रतिकृतान्योन्यं
कुरुतां
तौ
रणाजिरे ॥ २६ ॥
राममुक्तांस्तु
बाणौघान्
राक्षसस्त्वच्छिनद्रणे ।
रक्षोमुक्तांस्तु
रामो
वै
नैकधा
प्राच्छिनच्छरैः ॥ २७ ॥
बाणौघैर्वितताः
सर्वा
दिशश्च
प्रदिशस्तथा ।
सञ्छन्ना
वसुधा
चैव
समन्तान्न
प्रकाशते ॥ २८ ॥
ततः
क्रुद्धो
महाबाहुर्धनुश्चिच्छेद
रक्षसः ।
अष्टाभिरथ
नाराचैः
सूतं
विव्याध
राघवः ॥ २९ ॥
भित्त्वा
शरै
रथं
रामो
रथाश्वान्
समपातयत् ।
विरथो
वसुधां
तिष्ठन्
मकराक्षो
निशाचरः ॥ ३० ॥
तत्तिष्ठद्वसुधां
रक्षः
शूलं
जग्राह
पाणिना ।
त्रासनं
सर्वभूतानां
युगान्ताग्निसमप्रभम् ॥ ३१ ॥
विभ्राम्य
तु
महच्छूलं
प्रज्वलत्तन्निशाचरः ।
स
क्रोधात्
प्राहिणोत्तस्मै
राघवाय
महाहवे ॥ ३२ ॥
तमापतन्तं
ज्वलितं
खरपुत्रकराच्च्युतम् ।
बाणैस्तु
त्रिभिराकाशे
शूलं
चिच्छेद
राघवः ॥ ३३ ॥
स
च्छिन्नो
नैकाधा
शूलो
दिव्यहाटकमण्डितः ।
व्यशीर्यत
महोल्केव
रामबाणार्दितो
भुवि ॥ ३४ ॥
तच्छूलं
निहतं
दृष्ट्वा
रामेणाक्लिष्टकर्मणा ।
साधु
साध्विति
भूतानि
व्याहरन्ति
नभोगता ॥ ३५ ॥
तं
दृष्ट्वा
निहतं
शूलं
मकाराक्षो
निशाचरः ।
मुष्टिमुद्यम्य
काकुत्स्थं
तिष्ठ
तिष्ठेति
चाब्रवीत् ॥ ३६ ॥
स
तं
दृष्ट्वा
पतन्तं
वै
प्रहस्य
रघुनन्दनः ।
पावकास्त्रं
ततो
रामः
सन्दधे
तु
शरासने ॥ ३७ ॥
तेनास्त्रेण
हतं
रक्षः
काकुत्स्थेन
तदा
रणे ।
सञ्छिन्नहृदयं
तत्र
पपात
च
ममार
च ॥ ३८ ॥
दृष्ट्वा
ते
राक्षसाः
सर्वे
मकराक्षस्य
पातनम् ।
लङ्कामेवाभ्यधावन्त
रामबाणार्दितास्तदा ॥ ३९ ॥
दशरथनृपपुत्रबाणवेगै
रजनिचरं
निहतं
खरात्मजं
तम् ।
ददृशुरथ
सुरा
भृशं
प्रहृष्टा
गिरिमिव
वज्रहतं
यथा
विकीर्णम् ॥ ४० ॥