मकराक्षं
हतं
श्रुत्वा
रावणः
समितिञ्जयः ।
क्रोधेन
महताऽऽविष्टो
दन्तान्
कटकटापयन् ॥ १ ॥
कुपितश्च
तदा
तत्र
किं
कार्यमिति
चिन्तयन् ।
आदिदेशाथ
सङ्क्रुद्धो
रणायेन्द्रजितं
सुतम् ॥ २ ॥
जहि
वीर
महावीर्यौ
भ्रातरौ
रामलक्ष्मणौ ।
अदृश्यो
दृश्यमानो
वा
सर्वथा
त्वं
बलाधिकः ॥ ३ ॥
त्वमप्रतिमकर्माणमिन्द्रं
जयसि
संयुगे ।
किं
पुनर्मानुषौ
दृष्ट्वा
न
वधिष्यसि
संयुगे ॥ ४ ॥
तथोक्तो
राक्षसेन्द्रेण
प्रतिगृह्य
पितुर्वचः ।
यज्ञभूमौ
स
विधिवत्
पावकं
जुहवेन्द्रजित् ॥ ५ ॥
जुह्वतश्चापि
तत्राग्निं
रक्तोष्णीषधराः
स्त्रियः ।
आजग्मुस्तत्र
सम्भ्रान्ता
राक्षस्यो
यत्र
रावणिः ॥ ६ ॥
शस्त्राणि
शरपत्राणि
समिधोऽथ
विभीतकाः ।
लोहितानि
च
वासांसि
स्रुवं
कार्ष्णायसं
तथा ॥ ७ ॥
सर्वतोऽग्निं
समास्तीर्य
शरपत्रैः
सतोमरैः ।
छागस्य
कृष्णवर्णस्य
गलं
जग्राह
जीवितः ॥ ८ ॥
सकृदेव
समिद्धस्य
विधूमस्य
महार्चिषः ।
बभूवुस्तानि
लिङ्गानि
विजयं
दर्शयन्ति
च ॥ ९ ॥
प्रदक्षिणावर्तशिखस्तप्तहाटकसन्निभः ।
हविस्तत्
प्रतिजग्राह
पावकः
स्वयमुत्थितः ॥ १० ॥
हुत्वाऽग्निं
तर्पयित्वा
च
देवदानवराक्षसान् ।
आरुरोह
रथश्रेष्ठमन्तर्धानगतं
शुभम् ॥ ११ ॥
स
वाजिभिश्चतुर्भिश्च
बाणैश्च
निशितैर्युतः ।
आरोपितमहाचापः
शुशुभे
स्यन्दनोत्तमः ॥ १२ ॥
जाज्वल्यमानो
वपुषा
तपनीयपरिच्छदः ।
मृगैश्चन्द्रार्धचन्द्रैश्च
स
रथः
समलङ्कृतः ॥ १३ ॥
जाम्बूनदमहाकम्बुर्दीप्तपावकसन्निभः ।
बभूवेन्द्रजितः
केतुर्वैडूर्यसमलङ्कृतः ॥ १४ ॥
तेन
चादित्यकल्पेन
ब्रह्मास्त्रेण
च
पालितः ।
स
बभूव
दुराधर्षो
रावणिः
सुमहाबलः ॥ १५ ॥
सोऽभिनिर्याय
नगरादिन्द्रजित्
समितिञ्जयः ।
हुत्वाऽग्निं
राक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत् ॥ १६ ॥
अद्य
हत्वा
रणे
यौ
तौ
मिथ्या
प्रव्राजितौ
वने ।
जयं
पित्रे
प्रदास्यामि
रावणाय
रणार्जितम् ॥ १७ ॥
अद्य
निर्वानरामुर्वीं
हत्वा
रामं
सलक्ष्मणम् ।
करिष्ये
परमप्रीतिमित्युक्त्वाऽन्तरधीयत ॥ १८ ॥
आपपाताथ
सङ्क्रुद्धो
दशग्रीवेण
चोदितः ।
तीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू
रणे ॥ १९ ॥
स
ददर्श
महावीर्यो
नागौ
त्रिशिरसाविव ।
सृजन्ताविषुजालानि
वीरौ
वानरमध्यगौ ॥ २० ॥
इमौ
ताविति
सञ्चिन्त्य
सज्यं
कृत्वा
च
कार्मुकम् ।
सन्ततानेषुधाराभिः
पर्जन्य
इव
वृष्टिमान् ॥ २१ ॥
स
तु
वैहायसं
प्राप्य
सरथो
रामलक्ष्मणौ ।
अचक्षुर्विषये
तिष्ठन्
विव्याध
निशितैः
सऱैः ॥ २२ ॥
तौ
तस्य
शरवेगेन
परीतौ
रामलक्ष्मणौ ।
धनुषी
सशरे
कृत्वा
दिव्यमस्त्रं
प्रचक्रतुः ॥ २३ ॥
प्रच्छादयन्तौ
गगनं
शरजालैर्महाबलौ ।
तमस्त्रैः
सूर्यसङ्काशैर्नैव
पस्पृशतुः
शरैः ॥ २४ ॥
स
हि
धूमान्धकारं
च
चक्रे
प्रच्छादयन्नभः ।
दिशश्चान्तर्दधे
श्रीमान्नीहारतमसावृताः ॥ २५ ॥
नैव
ज्यातलनिर्घोषो
न
च
नेमिखुरस्वनः ।
शश्रुवे
चरतस्तस्य
न
च
रूपं
प्रकाशते ॥ २६ ॥
घनान्धकारे
तिमिरे
शरवर्षमिवाद्भुतम् ।
स
ववर्ष
महाबाहुर्नाराचशरवृष्टिभिः ॥ २७ ॥
स
रामं
सूर्यसङ्काशैः
शरैर्दत्तवरो
भृशम् ।
विव्याध
समरे
क्रुद्धः
सर्वगात्रेषु
रावणिः ॥ २८ ॥
तौ
हन्यमानौ
नाराचैर्धाराभिरिव
पर्वतौ ।
हेमपुङ्खान्नरव्याघ्रौ
तिग्मान्
मुमुचतुः
शरान् ॥ २९ ॥
अन्तरिक्षे
समासाद्य
रावणिं
कङ्कपत्रिणः ।
निकृत्य
पतगा
भूमौ
पेतुस्ते
शोणितोक्षिताः ॥ ३० ॥
अतिमात्रं
शरौघेण
पीड्यमानौ
नरोत्तमौ ।
तानिषून्
पततो
भल्लेरनेकैर्निचकृन्ततुः ॥ ३१ ॥
यतो
हि
ददृशाते
तौ
शरान्निपततः
शितान् ।
ततस्तु
तौ
दाशरथी
ससृजातेऽस्त्रमुत्तमम् ॥ ३२ ॥
रावणिस्तु
दिशः
सर्वा
रथेनातिरथः
पतन् ।
विव्याध
तौ
दाशरथी
लध्वस्त्रो
निशितैः
शरैः ॥ ३३ ॥
तेनातिविद्धौ
तौ
वीरौ
रुक्मपुङ्खैः
सुसंहितैः ।
बभूवतुर्दाशरथी
पुष्पिताविव
किंशुकौ ॥ ३४ ॥
नास्य
वेद
गतिं
कश्चिन्न
च
रूपं
धनुः
शरान् ।
न
चान्यद्विदितं
किञ्चित्
सूर्यस्येवाभ्रसम्प्लवे ॥ ३५ ॥
तेन
विद्धाश्च
हरयो
निहताश्च
गतासवः ।
बभूवुः
शतशस्तत्र
पतिता
धरणीतले ॥ ३६ ॥
लक्ष्मणस्तु
सुसङ्क्रुद्धो
भ्रातरं
वाक्यमब्रवीत् ।
ब्राह्ममस्त्रं
प्रयोक्ष्यामि
वधार्थं
सर्वरक्षसाम् ॥ ३७ ॥
तमुवाच
ततो
रामो
लक्ष्मणं
शुभलक्षणम् ।
अयुध्यमानं
प्रच्छन्नं
प्राञ्जलिं
शरणागतम् ॥ ३८ ॥
पलायन्तं
प्रमत्तं
वा
न
त्वं
हन्तुमिहार्हसि ।
अस्यैव
तु
वधे
यत्नं
करिष्यावो
महाबल ॥ ३९ ॥
आदेक्ष्यावो
महावेगानस्त्रानाशीविषोपमान् ।
तमेनं
मायिनं
क्षुद्रमन्तर्हितरथं
बलात् ॥ ४० ॥
राक्षसं
निहनिष्यन्ति
दृष्ट्वा
वानरयूथपाः ।
यद्येष
भूमिं
विशते
दिवं
वा
रसातलं
वापि
नभस्स्थलं
वा ॥ ४१ ॥
एवं
निगूढोऽपि
ममास्त्रदग्धः
पतिष्यते
भूमितले
गतासुः ।
इत्येवमुक्त्वा
वचनं
महात्मा
रघुप्रवीरः
प्लवगर्षभैर्वृतः ॥ ४२ ॥
वधाय
रौद्रस्य
नृशंसकर्मणस्तदा
महात्मा
त्वरितं
निरीक्षते ॥ ४३ ॥