विज्ञाय
तु
मनस्तस्य
राघवस्य
महात्मनः ।
सन्निवृत्याहवात्तस्मात्
संविवेश
पुरं
ततः ॥ १ ॥
सोऽनुस्मृत्य
वधं
तेषां
राक्षसानां
तरस्विनाम् ।
क्रोधताम्रेक्षणः
शूरो
निर्जगाम
महाद्युतिः ॥ २ ॥
स
पश्चिमेन
द्वारेण
निर्ययौ
राक्षसैर्वृतः ।
इन्द्रजित्तु
महावीर्यः
पौलस्त्यो
देवकण्टकः ॥ ३ ॥
इन्द्रजित्तु
ततो
दृष्ट्वा
भ्रातरौ
रामलक्ष्मणौ ।
रणायाभ्युद्यतौ
वीरौ
मायां
प्रादुष्करोत्तदा ॥ ४ ॥
इन्द्रजित्तु
रथे
स्थाप्य
सीतां
मायामयीं
ततः ।
बलेन
महताऽऽवृत्य
तस्या
वधमरोचयत् ॥ ५ ॥
मोहनार्थं
तु
सर्वेषां
बुद्धिं
कृत्वा
सुदुर्मतिः ।
हन्तुं
सीतां
व्यवसितो
वानराभिमुखो
ययौ ॥ ६ ॥
तं
दृष्ट्वा
त्वभिनिर्यान्तं
नगर्याः
काननौकसः ।
उत्पेतुरभिसङ्क्रुद्धाः
शिलाहस्ता
युयुत्सवः ॥ ७ ॥
हनुमान्
पुरतस्तेषां
जगाम
कपिकुञ्जरः ।
प्रगृह्य
सुमहच्छृङ्गं
पर्वतस्य
दुरासदम् ॥ ८ ॥
स
ददर्श
हतानन्दां
सीतामिन्द्रजितो
रथे ।
एकवेणीधरां
दीनामुपवासकृशाननाम् ॥ ९ ॥
परिक्लिष्टैकवसनाममृजां
राघवप्रियाम् ।
रजोमलाभ्यामालिप्तैः
सर्वगात्रैर्वरस्त्रियम् ॥ १० ॥
तां
निरीक्ष्य
मुहूर्तं
तु
मैथिलीत्यध्यवस्य
तु ।
बभूवाचिरदृष्टा
हि
तेन
सा
जनकात्मजा ॥ ११ ॥
तां
दीनां
मलदिग्धाङ्गीं
रथस्थां
दृश्य
मैथिलीम् ।
बाष्पपर्याकुलमुखो
हनुमान्
व्यथितोऽभवत् ॥ १२ ॥
सीतां
रथस्थितां
दृष्ट्वा
राक्षसेन्द्रसुताश्रिताम् ।
किं
समर्थितमस्येति
चिन्तयन्
स
महाकपिः ॥ १३ ॥
सह
तैर्वानरश्रेष्ठैरभ्यधावत
रावणिम् ।
तद्वानरबलं
दृष्ट्वा
रावणिः
क्रोधमूर्च्छितः ॥ १४ ॥
कृत्वा
विकोशं
निस्त्रिंशं
मूर्ध्नि
सीतां
परामृशत् ।
तां
स्त्रियं
पश्यतां
तेषां
ताडयामास
रावणिः ॥ १५ ॥
क्रोशन्तीं
राम
रामेति
मायया
योजितां
रथे ।
गृहीतमूर्धजां
दृष्ट्वा
हनुमान्
दैन्यमागतः ॥ १६ ॥
शोकजं
वारि
नैत्राभ्यामसृजन्मारुतात्मजः ।
तां
दृष्ट्वा
चारुसर्वाङ्गीं
रामस्य
महिषीं
प्रियाम् ॥ १७ ॥
अब्रवीत्
परुषं
वाक्यं
क्रोधाद्रक्षोधिपात्मजम् ।
दुरात्मन्नात्मनाशाय
केशपक्षे
परामृशः ॥ १८ ॥
ब्रह्मर्षीणां
कुले
जातो
राक्षसीं
योनिमाश्रितः ।
धिक्
त्वां
पापसमाचारं
यस्य
ते
मतिरीदृशी ॥ १९ ॥
नृशंसानार्य
दुर्वृत्त
क्षुद्र
पापपराक्रम ।
अनार्यस्येदृशं
कर्म
घृणा
ते
नास्ति
निर्घृण ॥ २० ॥
च्युता
गृहाच्च
राज्याच्च
रामहस्ताच्च
मैथिली ।
किं
तवैषाऽपराद्धा
हि
यदेनां
हन्तुमिच्छसि ॥ २१ ॥
सीतां
च
हत्वा
न
चिरं
जीविष्यसि
कथञ्चन ।
वधार्ह
कर्मणाऽनेन
मम
हस्तगतो
ह्यसि ॥ २२ ॥
ये
च
स्त्रीघातिनां
लोका
लोकवध्येषु
कुत्सिताः ।
इह
जिवितमुत्सृज्य
प्रेत्य
तान्
प्रतिपत्स्यसे ॥ २३ ॥
इति
ब्रुवाणो
हनुमान्
सायुधैर्हरिभिर्वृतः ।
अभ्यधावत
सङ्क्रुद्धो
राक्षसेन्द्रसुतं
प्रति ॥ २४ ॥
आपतन्तं
महावीर्यं
तदनीकं
वनौकसाम् ।
रक्षसां
भीमवेगानामनीकं
तु
न्यवारयत् ॥ २५ ॥
स
तां
बाणसहस्रेण
विक्षोभ्य
हरिवाहिनीम् ।
हरिश्रेष्ठं
हनूमन्तमिन्द्रजित्
प्रत्युवाच
ह ॥ २६ ॥
सुग्रीवस्त्वं
च
रामश्च
यन्निमित्तमिहागताः ।
तां
हनिष्यामि
वैदेहीमद्यैव
तव
पश्यतः ॥ २७ ॥
इमां
हत्वा
ततो
रामं
लक्ष्मणं
त्वां
च
वानर ।
सुग्रीवं
च
वधिष्यामि
तं
चानार्यं
विभीषणम् ॥ २८ ॥
न
हन्तव्याः
स्त्रियश्चेति
यद्ब्रवीषि
प्लवङ्गम ।
पीडाकरममित्राणां
यत्
स्यात्
कर्तव्यमेव
तत् ॥ २९ ॥
तमेवमुक्त्वा
रुदतीं
सीतां
मायामयीं
तदा ।
शितधारेण
खड्गेन
निजघानेन्द्रजित्
स्वयम् ॥ ३० ॥
सा
पृथिव्यां
पृथुश्रोणी
पपात
प्रियदर्शना ।
तामिन्द्रजित्स्वयं
हत्वा
हनुमन्तमुवाच
ह ॥ ३१ ॥
मया
रामस्य
पश्येमां
कोपेन
च
निषूदिताम् ।
एषा
विशस्ता
वैदेही
विफलो
वः
परिश्रमः ॥ ३२ ॥
ततः
खड्गेन
महता
हत्वा
तामिन्द्रिजित्
स्वयम् ।
हृष्टः
स
रथमास्थाय
विननाद
महास्वनम् ॥ ३३ ॥
वानराः
शुश्रुवुः
शब्दमदूरे
प्रत्यवस्थिताः ।
व्यादितास्यस्य
नदतस्तहुर्गं
संश्रितस्य
च ॥ ३४ ॥
तथा
तु
सीतां
विनिहत्य
दुर्मतिः
प्रहृष्टचेताः
स
बभूव
रावणिः ।
तं
हृष्टरूपं
समुदीक्ष्य
वानरा
विषण्णरूपाः
सहसा
प्रदुद्रुवुः ॥ ३५ ॥