श्रुत्वा
तु
भीमनिर्ह्रादं
शक्राशनिसमस्वनम् ।
वीक्षमाणा
दिशः
सर्वा
दुद्रुवुर्वानरर्षभाः ॥ १ ॥
तानुवाच
ततःसर्वान्
हनुमान्
मारुतात्मजः ।
विषण्णवदनान्
दीनांस्त्रस्तान्
विद्रवतः
पृथक् ॥ २ ॥
कस्माद्विषण्णवदना
विद्रवध्वे
प्लवङ्गमाः ।
त्यक्तयुद्धसमुत्साहाः
शूरत्वं
क्वनु
वो
गतम् ॥ ३ ॥
पृष्ठतोऽनुव्रजध्वं
मामग्रतो
यान्तमाहवे ।
शूरैरभिजनोपेतैरयुक्तं
हि
निवर्तितुम् ॥ ४ ॥
एवमुक्ताः
सुसंहृष्टा
वायुपुत्रेण
वानराः ।
शैलशृङ्गाण्यगांश्चैव
जगृहुर्हृष्टमानसाः ॥ ५ ॥
अभिपेतुश्च
गर्जन्तो
राक्षसान्
वानरर्षभाः ।
परिवार्य
हनूमन्तमन्वयुश्च
महाहवे ॥ ६ ॥
स
तैर्वानरमुख्यैश्च
हनुमान्
सर्वतो
वृतः ।
हुताशन
इवार्चिष्मानदहच्छत्रुवाहिनीम् ॥ ७ ॥
स
राक्षसानां
कदनं
चकार
सुमहाकपिः ।
वृतो
वानरसैन्येन
कालान्तकयमोपमः ॥ ८ ॥
स
तु
कोपेन
चाविष्टः
शोकेन
च
महाकपिः ।
हनुमान्
रावणिरथेऽपातयन्महतीं
शिलाम् ॥ ९ ॥
तामापतन्तीं
दृष्ट्वैव
रथः
सारथिना
तदा ।
विधेयाश्वसमायुक्तः
सुदूरमपवाहितः ॥ १० ॥
तमिन्द्रजितमप्राप्य
रथस्थं
सहसारथिम् ।
विवेशधरणीं
भित्त्वा
सा
शिला
व्यर्थमुद्यता ॥ ११ ॥
पातितायां
शिलायां
तु
रक्षसां
व्यथिता
चमूः ।
निपतन्त्या
च
शिलया
राक्षसा
मथिता
भृशम् ॥ १२ ॥
तमभ्यधावञ्छतशो
नदन्तः
काननौकसः ।
ते
द्रुमांश्च
महावीर्या
गिरिशृङ्गाणि
चोद्यताः ॥ १३ ॥
क्षिपन्तीन्द्रजितः
सङ्ख्ये
वानरा
भीमविक्रमाः ।
वृक्षशैलमहावर्षं
विसृजन्तः
प्लवङ्गमाः ॥ १४ ॥
शत्रूणां
कदनं
चक्रुर्नेदुश्च
विविधैः
स्वरैः ।
वानरैस्तैर्महावीर्यैर्घोररूपा
निशाचराः ॥ १५ ॥
वीर्यादभिहता
वृक्षैर्व्यवेष्टन्त
रणाजिरे ।
स्वसैन्यमभिवीक्ष्याथ
वानरार्दितमिन्द्रजित् ॥ १६ ॥
प्रगृहीतायुधः
क्रुद्धः
परानभिमुखो
ययौ ।
स
शरौघानवसृजन्
स्वसैन्येनाभिसंवृतः ॥ १७ ॥
जघान
कपिशार्दूलान्
स
बहून्
दृष्टविक्रमः ।
शूलैरशनिभिः
खड्गैः
पट्टिशैः
कूटमुद्गरैः ॥ १८ ॥
ते
चाप्यनुचरास्तस्य
वानरान्
जघ्नुरोजसा ।
सस्कन्धविटपैः
सालैः
शिलाभिश्च
महाबलः ॥ १९ ॥
हनुमान्
कदनं
चक्रे
रक्षसां
भीमकर्मणाम् ।
स
निवार्य
परानीकमब्रवीत्तान्
वनौकसः ॥ २० ॥
हनुमान्
सन्निवर्तध्वं
न
नः
साध्यमिदं
बलम् ।
त्यक्त्वा
प्राणान्
विवेष्टन्तो
रामिप्रियचिकीर्षवः ॥ २१ ॥
यन्निमित्तं
हि
युद्ध्यामो
हता
सा
जनकात्मजा ।
इममर्थं
हि
विज्ञाप्य
रामं
सुग्रीवमेव
च ॥ २२ ॥
तौ
यत्
प्रतिविधास्येते
तत्
करिष्यामहे
वयम् ।
इत्युक्त्वा
वानरश्रेष्ठो
वारयन्
सर्ववानरान् ॥ २३ ॥
शनैः
शनैरसन्त्रस्तः
सबलः
सन्न्यवर्तत ।
ततः
प्रेक्ष्य
हनूमन्तं
व्रजन्तं
यत्र
राघवः ॥ २४ ॥
स
होतुकामो
दुष्टात्मा
गतश्चैत्यनिकुम्भिलाम् ।
निकुम्भिलामधिष्ठाय
पावकं
जुहवेन्द्रजित् ॥ २५ ॥
यज्ञभूम्यां
तु
विधिवत्
पावकस्तेन
रक्षसा ।
हूयमानः
प्रजज्वाल
मांसशोणितभुक्
तदा ॥ २६ ॥
सोऽर्चिःपिनद्धो
ददृशे
होमशोणिततर्पितः ।
सन्ध्यागत
इवादित्यः
सुतीव्रोऽग्निः
समुत्थितः ॥ २७ ॥
अथेन्द्रजिद्राक्षसभूतये
तु
जुहाव
हव्यं
विधिना
विधानवित् ।
दृष्ट्वा
व्यतिष्ठन्त
च
राक्षसास्ते
महासमूहेषु
नयानयज्ञाः ॥ २८ ॥