राघवश्चापि
विपुलं
तं
राक्षसवनौकसाम् ।
श्रुत्वा
सङ्ग्रामनिर्घोषं
जाम्बवन्तमुवाच
ह ॥ १ ॥
सौम्य
नूनं
हनुमता
क्रियते
कर्म
दुष्करम् ।
श्रूयते
हि
यथा
भीमः
सुमहानायुधस्वनः ॥ २ ॥
तद्गच्छ
कुरु
साहाय्यं
स्वबलेनाभिसंवृतः ।
क्षिप्रमृक्षपते
तस्य
कपिश्रेष्ठस्य
युध्यतः ॥ ३ ॥
ऋक्षाराजस्तथोक्तस्तु
स्वेनानीकेन
संवृतः ।
आगच्छत्
पश्चिमं
द्वारं
हनुमान्
यत्र
वानरः ॥ ४ ॥
अथायान्तं
हनूमन्तं
ददर्शर्क्षपतिः
पथि ।
वानरैः
कृतसङ्ग्रामैः
श्वसद्भिरभिसंवृतम् ॥ ५ ॥
दृष्ट्वा
पथि
हनूमांश्च
तदृक्षबलमुद्यतम् ।
नीलमेघनिभं
भीमं
सन्निवार्य
न्यवर्तत ॥ ६ ॥
स
तेन
हरिसैन्येन
सन्निकर्षं
महायशाः ।
शीघ्रमागम्य
रामाय
दुःखितो
वाक्यमब्रवीत् ॥ ७ ॥
समरे
युद्ध्यमानानामस्माकं
प्रेक्षतां
पुरः ।
जघान
रुदतीं
सीतामिन्द्रिजिद्रावणात्मजः ॥ ८ ॥
उद्भ्रान्तचित्तस्तां
दृष्ट्वा
विषण्णोऽहमरिन्दम ।
तदहं
भवतो
वृत्तं
विज्ञापयितुमागतः ॥ ९ ॥
तस्य
तद्वचनं
श्रुत्वा
राघवः
शोकमूर्च्छितः ।
निपपात
तदा
भूमौ
छिन्नमूल
इव
द्रुमः ॥ १० ॥
तं
भूमौ
देवसङ्काशं
पतितं
प्रेक्ष्य
राघवम् ।
अभिपेतुः
समुत्पत्य
सर्वतः
कपिसत्तमाः ॥ ११ ॥
असिञ्चन्
सलिलैश्चैनं
पद्मोत्पलसुगन्धिभिः ।
प्रदहन्तमनासाद्यं
सहसाऽग्निमिवोच्छिखम् ॥ १२ ॥
तं
लक्ष्मणोऽथ
बाहुभ्यां
परिष्वज्य
सुदुःखितः ।
उवाच
राममस्वस्थं
वाक्यं
हेत्वर्थसंयुतम् ॥ १३ ॥
शुभे
वर्त्मनि
तिष्ठन्तं
त्वामार्य
विजितेन्द्रियम् ।
अनर्थेभ्यो
न
शक्नोति
त्रातुं
धर्मो
निरर्थकः ॥ १४ ॥
भूतानां
स्थावराणां
च
जङ्गमानां
च
दर्शनम् ।
यथाऽस्ति
न
तथा
धर्मस्तेन
नास्तीति
मे
मतिः ॥ १५ ॥
यथैव
स्थावरं
व्यक्तं
जङ्गमं
च
तथाविधम् ।
नायमर्थस्तथा
युक्तस्त्वद्विधो
न
विपद्यते ॥ १६ ॥
यद्यधर्मो
भवेद्भूतो
रावणो
नरकं
व्रजेत् ।
भवांश्च
धर्मयुक्तो
वै
नैवं
व्यसनमाप्नुयात् ॥ १७ ॥
तस्य
च
व्यसनाभावाद्
व्यसनं
च
गते
त्वयि ।
धर्मो
भवत्यधर्मश्च
परस्परविरोधिनौ ॥ १८ ॥
धर्मेणोपलभेद्धर्ममधर्मं
चाप्यधर्मतः ।
यद्यधर्मेण
युज्येयुर्येष्वधर्मः
प्रतिष्ठितः ॥ १९ ॥
यदि
धर्मेण
युज्येरन्नाधर्मरुचयो
जनाः ।
धर्मेण
चरतां
धर्मस्तथा
चैषां
फलं
भवेत् ॥ २० ॥
यस्मादर्था
विवर्धन्ते
येष्वधर्मः
पतिष्ठितः ।
क्लिश्यन्ते
धर्मशीलाश्च
तस्मादेतौ
निरर्थकौ ॥ २१ ॥
वध्यन्ते
पापकर्माणो
यद्यधर्मेण
राघव ।
वधकर्म
हतोऽधर्मः
स
हतः
कं
वधिष्यति ॥ २२ ॥
अथवा
विहितेनायं
हन्यते
हन्ति
वा
परम् ।
विधिरालिप्यते
तेन
न
स
पापेन
कर्मणा ॥ २३ ॥
अदृष्टप्रतिकारेण
त्वव्यक्तेनासता
सता ।
कथं
शक्यं
परं
प्राप्तुं
धर्मेणारिविकर्शन ॥ २४ ॥
यदि
सत्
स्यात्
सतां
मुख्य
नासत्
स्यात्तव
किञ्चन ।
त्वया
यदीदृशं
प्राप्तं
तस्मात्
सन्नोपपद्यते ॥ २५ ॥
अथवा
दुर्बलः
क्लीबो
बलं
धर्मोऽनुवर्तते ।
दुर्बलो
हृतमर्यादो
न
सेव्य
इति
मे
मतिः ॥ २६ ॥
बलस्य
यदि
चेद्धर्मो
गुणभूतः
पराक्रमे ।
धर्ममुत्सृज्य
वर्तस्व
यथा
धर्मे
तथा
बले ॥ २७ ॥
अथ
चेत्
सत्यवचनं
धर्मः
किल
परन्तप ।
अनृतस्त्वय्यकरुणः
किं
न
बद्धस्त्वया
पिता ॥ २८ ॥
यदि
धर्मो
भवेद्भूतो
अधर्मो
वा
परन्तप ।
न
स्म
हत्वा
मुनिं
वज्री
कुर्यादिज्यां
शतक्रतुः ॥ २९ ॥
अधर्मसंश्रितो
धर्मो
विनाशयति
राघव ।
सर्वमेतद्यथाकामं
काकुत्स्थ
कुरुते
नरः ॥ ३० ॥
मम
चेदं
मतं
तात
धर्मोऽयमिति
राघव ।
धर्ममूलं
त्वया
छिन्नं
राज्यमुत्सृजता
तदा ॥ ३१ ॥
अर्थेभ्यो
हि
विवृद्धेभ्यः
संवृत्तेभ्यस्ततस्ततः ।
क्रियाः
सर्वाः
प्रवर्तन्ते
पर्वतेभ्य
इवापगाः ॥ ३२ ॥
अर्थेन
हि
वियुक्तस्य
पुरुषस्याल्पतेजसः ।
व्युच्छिद्यन्ते
क्रियाः
सर्वा
ग्रीष्मे
कुसरितो
यथा ॥ ३३ ॥
सोऽयमर्थं
परित्यज्य
सुखकामः
सुखैधितः ।
पापमारभते
कर्तुं
ततो
दोषः
प्रवर्तते ॥ ३४ ॥
यस्यार्थास्तस्य
मित्राणि
यस्यार्थास्तस्य
बान्धवाः ।
यस्यार्थाः
स
पुमान्
लोके
यस्यार्थाः
स
च
पण्डितः ॥ ३५ ॥
यस्यार्थाः
स
च
विक्रान्तो
यस्यार्थाः
स
च
बुद्धिमान् ।
यस्यार्थाः
स
महाभागो
यस्यार्थाः
स
महागुणः ॥ ३६ ॥
अर्थस्यैते
परित्यागे
दोषाः
प्रव्याहृता
मया ।
राज्यमुत्सृजता
वीर
येन
बुद्धिस्त्वया
कृता ॥ ३७ ॥
यस्यार्था
धर्मकामार्थास्तस्य
सर्वं
प्रदक्षिणम् ।
अधनेनार्थकामेन
नार्थः
शक्यो
विचिन्वता ॥ ३८ ॥
हर्षः
कामश्च
दर्पश्च
धर्मः
क्रोधः
शमो
दमः ।
अर्थादेतानि
सर्वाणि
प्रवर्तन्ते
नराधिप ॥ ३९ ॥
येषां
नश्यत्ययं
लोकश्चरतां
धर्मचारिणाम् ।
तेऽर्थास्त्वयि
न
दृश्यन्ते
दुर्दिनेषु
यथा
ग्रहाः ॥ ४० ॥
त्वयि
प्रव्रजिते
वीर
गुरोश्च
वचने
स्थिते ।
रक्षसाऽपहृता
भार्या
प्राणैः
प्रियतरा
तव ॥ ४१ ॥
तदद्य
विपुलं
वीर
दुःखमिन्द्रजिता
कृतम् ।
कर्मणा
व्यपनेष्यामि
तस्मादुत्तिष्ठ
राघव ॥ ४२ ॥
उत्तिष्ठ
नरशार्दूल
दीर्घवाहो
दृढव्रत ।
किमात्मानं
महात्मानमात्मानं
नावबुध्यसे ॥ ४३ ॥
अयमनघ
तवोदितः
प्रियार्थं
जनकसुतानिधनं
निरीक्ष्य
रुष्टः ।
सहयगजरथां
सराक्षसेन्द्रां
भृशमिषुभिर्विनिपातयामि
लङ्काम् ॥ ४४ ॥