राममाश्वासयाने
तु
लक्ष्मणे
भ्रातृवत्सले ।
निक्षिप्य
गुल्मान्
स्वस्थाने
तत्रागच्छद्विभीषणः ॥ १ ॥
नानाप्रहरणैर्वीरैश्चतुर्भिः
सचिवैर्वृतः ।
नीलाञ्जनचयाकारैर्मातङ्गैरिव
यूथपः ॥ २ ॥
सोऽभिगम्य
महात्मानं
राघवं
शोकलालसम् ।
वानरांश्चैव
ददृशे
बाष्पपर्याकुलेक्षणान् ॥ ३ ॥
राघवं
च
महात्मानमिक्ष्वाकुकुलनन्दनम् ।
ददर्श
मोहमापन्नं
लक्ष्मणस्याङ्कमाश्रितम् ॥ ४ ॥
व्रीडितं
शोकसन्तप्तं
दृष्ट्वा
रामं
विभीषणः ।
अन्तर्दुःखेन
दीनात्मा
किमेतदिति
सोऽब्रवीत् ॥ ५ ॥
विभीषणमुखं
दृष्ट्वा
सुग्रीवं
तांश्च
वानरान् ।
लक्ष्मणोवाच
मन्दार्थमिदं
बाष्पपरिप्लुतः ॥ ६ ॥
हतामिन्द्रजिता
सीतामिह
श्रुत्वैव
राघवः ।
हनुमद्वचनात्
सौम्य
ततो
मोहमुपागतः ॥ ७ ॥
कथयन्तं
तु
सौमित्रिं
सन्निवार्य
विभीषणः ।
मनुजेन्द्रार्तरूपेण
यदुक्तं
च
हनूमता ॥ ८ ॥
तदयुक्तमहं
मन्ये
सागरस्येव
शोषणम् ।
अभिप्रायं
तु
जानामि
रावणस्य
दुरात्मनः ॥ ९ ॥
सीतां
प्रति
महाबाहो
न
च
घातं
करिष्यति ।
याच्यमानस्तु
बहुशो
मया
हितचिकीर्षुणा ॥ १० ॥
वैदेहीमुत्सृजस्वेति
न
च
तत्
कृतवान्
वचः ।
नैव
साम्ना
न
दानेन
न
भेदेन
कुतो
युधा ॥ ११ ॥
सा
द्रुष्टुमपि
शक्येत
नैव
चान्येन
केनचित् ।
वानरान्
मोहयित्वा
तु
प्रतियातः
स
राक्षसः ॥ १२ ॥
चैत्यं
निकुम्भिलां
नाम
यत्र
होमं
करिष्यति ।
हुतवानुपयातो
हि
देवैरपि
सवासवैः ॥ १३ ॥
दुराधर्षो
भवत्येव
सङ्ग्रामे
रावणात्मजः ।
तेन
मोहयता
नूनमेषा
माया
प्रयोजिता ॥ १४ ॥
विघ्नमन्विच्छता
तत्र
वानराणां
पराक्रमे ।
त्यजेमं
नरशार्दूल
मिथ्यासन्तापमागतम् ॥ १५ ॥
सीदते
हि
बलं
सर्वं
दृष्ट्वा
त्वां
शोककर्शितम् ।
इह
त्वं
स्वस्थहृदयस्तिष्ठ
सत्त्वसमुच्छ्रितः ॥ १६ ॥
लक्ष्मणं
प्रेषयास्माभिः
सह
सैन्यानुकर्षिभिः ।
एष
तं
नरशार्दूलो
रावणिं
निशितैः
शरैः ॥ १७ ॥
त्याजयिष्यति
तत्
कर्म
ततो
वध्यो
भविष्यति ।
तस्यैते
निशितास्तीक्ष्णाः
पत्रिपत्राङ्गवाजिनः ॥ १८ ॥
पतत्रिण
इवासौम्याः
शराः
पास्यन्ति
शोणितम् ।
तं
सन्दिश
महावाहो
लक्ष्मणं
शुभलक्षणम् ॥ १९ ॥
राक्षसस्य
विनाशाय
वज्रं
वज्रधरो
यथा ।
मनुजवर
न
कालविप्रकर्षो
रिपुनिधनं
प्रति
यत्
क्षमोऽद्य
कर्तुम् ॥ २० ॥
त्वमति
सृज
रिपोर्वधाय
वाणीममररिपोर्मथने
यथा
महेन्द्रः ।
समाप्तकर्मा
हि
स
राक्षसाधिपो
भवत्यदृस्यः
समरे
सुरासुरैः ॥ २१ ॥
युयुत्सता
तेन
समाप्तकर्मणा
भवेत्
सुराणामपि
संशयो
महान् ॥ २२ ॥