तस्य
तद्वचनं
श्रुत्वा
राघवः
शोककर्शितः ।
नोपधारयते
व्यक्तं
यदुक्तं
तेन
रक्षसा ॥ १ ॥
ततो
धैर्यमवष्टभ्य
रामः
परपुरञ्जयः ।
विभीषणमुपासीनमुवाच
कपिसन्निधौ ॥ २ ॥
नैर्ऋताधिपते
वाक्यं
यदुक्तं
ते
विभीषण ।
भूयस्तच्छ्रोतुमिच्छामि
ब्रूहि
यत्ते
विवक्षितम् ॥ ३ ॥
राघवस्य
वचः
श्रुत्वा
वाक्यं
वाक्यविशारदः ।
यत्तत्पुनरिदं
वाक्यं
बभाषे
स
विभीषणः ॥ ४ ॥
यथाज्ञप्तं
महाबाहो
त्वया
गुल्मनिवेशनम् ।
तत्तथाऽनुष्ठितं
वीर
त्वद्वाक्यसमनन्तरम् ॥ ५ ॥
तान्यनीकानि
सर्वाणि
विभक्तानि
समन्ततः ।
विन्यस्ता
यूथपाश्चैव
यथान्यायं
विभागशः ॥ ६ ॥
भूयस्तु
मम
विज्ञाप्यं
तच्छृणुष्व
महायशः ।
त्वय्यकारणसन्तप्ते
सन्तप्तहृदया
वयम् ॥ ७ ॥
त्यज
राजन्निमं
शोकं
मिथ्या
सन्तापमागतम् ।
तदियं
त्यज्यतां
चिन्ता
शत्रुहर्षविवर्धनी ॥ ८ ॥
उद्यमः
क्रियतां
वीर
हर्षः
समुपसेव्यताम् ।
प्राप्तव्या
वदि
ते
सीता
हन्तव्याश्च
निशाचराः ॥ ९ ॥
रघुनन्दन
वक्ष्यामि
श्रूयतां
मे
हितं
वचः ।
साध्वयं
यातु
सौमित्रिर्बलेन
महता
वृतः ॥ १० ॥
निकुम्भिलायां
सम्प्राप्य
हन्तुं
रावणिमाहवे ।
धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः ॥ ११ ॥
शरैर्हन्तुं
महेष्वासो
रावणिं
समितिञ्जयः ।
तेन
वीर्येण
तपसा
वरदानात्
स्वयम्भुवः ॥ १२ ॥
अस्त्रं
ब्रह्मशिरः
प्राप्तं
कामगाश्च
तुरङ्गमाः ।
स
एष
सह
सैन्येन
प्राप्तः
किल
निकुम्भिलाम् ॥ १३ ॥
यद्युत्तिष्ठेत्
कृतं
कर्म
हतान्
सर्वांश्च
विद्धि
नः ।
त्वामाततायिनं
हन्यादिन्द्रशत्रोः
स
ते
वधः ॥ १४ ॥
वरो
दत्तो
महाबाहो
सर्वलोकेश्वरेण
वै ।
वधायेन्द्रजितो
राम
सन्दिशस्व
महाबल ॥ १५ ॥
हते
तस्मिन्
हतं
विद्धि
रावणं
ससुहृज्जनम् ।
विभीषणवचः
श्रुत्वा
राघवो
वाक्यमब्रवीत् ॥ १६ ॥
स
हि
ब्रह्मास्त्रवित्
प्राज्ञो
महामायो
महाबलः ।
करोत्यसञ्ज्ञान्
सङ्ग्रामे
देवान्
सवरुणानपि ॥ १७ ॥
तस्यान्तरिक्षे
चरतो
रथस्थस्य
महायशः ।
न
गतिर्ज्ञायते
तस्य
सूर्यस्येवाभ्रसम्प्लवे ॥ १८ ॥
राघवस्तु
रिपोर्ज्ञात्वामायावीर्यं
दुरात्मनः ।
लक्ष्मणं
कीर्तिसम्पन्नमिदं
वचनमब्रवीत् ॥ १९ ॥
यद्वानरेन्द्रस्य
बलं
तेन
सर्वेण
संवृतः ।
हनुमत्प्रमुखैश्चैव
यूथपैः
सह
लक्ष्मण ॥ २० ॥
जाम्बवेनर्क्षपतिना
सहसैन्येन
संवृतः ।
जहि
तं
राक्षससुतं
मायाबलविशारदम् ॥ २१ ॥
अयं
त्वां
सचिवैः
सार्द्धं
महात्मा
रजनीचरः ।
अभिज्ञस्तस्य
देशस्य
पृष्ठतोऽनुगमिष्यति ॥ २२ ॥
राघवस्य
वचः
श्रुत्वा
लक्ष्मणः
सविभीषणः ।
जाग्राह
कार्मुकश्रेष्ठमत्यद्भुतपराक्रमः ॥ २३ ॥
सन्नद्धः
कवची
खड्गी
सशरो
हेमचापधृत् ।
रामपादावुपस्पृश्य
हृष्टः
सौमित्रिरब्रवीत् ॥ २४ ॥
अद्य
मत्कार्मुकोन्मुक्ताः
शरा
निर्भिद्य
रावणिम् ।
लङ्कामभिपतिष्यन्ति
हंसाः
पुष्करिणीमिव ॥ २५ ॥
अद्यैव
तस्य
रौद्रस्य
शरीरं
मामकाः
शराः ।
विधमिष्यन्ति
भित्त्वा
तं
महाचापगुणच्युताः ॥ २६ ॥
स
एवमुक्त्वा
द्युतिमान्
वचनं
भ्रातुरग्रतः ।
स
रावणिवधाकाङ्क्षी
लक्ष्मणस्त्वरितो
ययौ ॥ २७ ॥
सोऽभिवाद्य
गुरोः
पादौ
कृत्वा
चापि
प्रदक्षिणम् ।
निकुम्भिलामभिययौ
चैत्यं
रावणिपालितम् ॥ २८ ॥
विभीषणेन
सहितो
राजपुत्रः
प्रतापवान् ।
कृतस्वस्त्ययनो
भ्रात्रा
लक्ष्मणस्त्वरितो
ययौ ॥ २९ ॥
वानराणां
सहस्रैस्तु
हनुमान्
बहुभिर्वृतः ।
विभीषणश्च
सामात्यस्तदा
लक्ष्मणमन्वगात् ॥ ३० ॥
महता
हरिसैन्येन
सवेगमभिसंवृतः ।
ऋक्षराजबलं
चैव
ददर्श
पथि
विष्ठितम् ॥ ३१ ॥
स
गत्वा
दूरमध्वानं
सौमित्रिर्मित्रनन्दनः ।
राक्षसेन्द्रबलं
दूरादपश्यद्
व्यूहमास्थितम् ॥ ३२ ॥
स
तं
प्राप्य
धनुष्पाणिर्मायायोगमरिन्दमः ।
तस्थौ
ब्रह्मविधानेन
विजेतुं
रघुनन्दनः ॥ ३३ ॥
विभीषणेन
सहितो
राजपुत्रः
प्रतापवान् ।
अङ्गदेन
च
वीरेण
तथाऽनिलसुतेन
च ॥ ३४ ॥
विविधममलशस्त्रभास्वरं
तद्
ध्वजगहनं
विपुलं
महारथैश्च ।
प्रतिभयतममप्रमेयवेगं
तिमिरमिव
द्विषतां
बलं
विवेश ॥ ३५ ॥