अथ
तस्यामवस्थायां
लक्ष्मणं
रावणानुजः ।
परेषामहितं
वाक्यमर्थसाधकमब्रवीत् ॥ १ ॥
यदेतद्राक्षसानीकं
मेघश्यामं
विलोक्यते ।
एतदायोध्यतां
शीघ्रं
कपिभिः
पादपायुधैः ॥ २ ॥
अस्यानीकस्य
महतो
भेदने
यत
लक्ष्मण ।
राक्षसेन्द्रसुतोऽप्यत्र
भिन्ने
दृश्यो
भविष्यति ॥ ३ ॥
स
त्वमिन्द्राशनिप्रख्यैः
शरैरवकिरन्
परान् ।
अभिद्रवाशु
यावद्वै
नैतत्
कर्म
समाप्यते ॥ ४ ॥
जहि
वीर
दुरात्मानं
मायापरमधार्मिकम् ।
रावणिं
क्रूरकर्माणं
सर्वलोकभयावहम् ॥ ५ ॥
विभीषणवचः
श्रुत्वा
लक्ष्मणः
शुभलक्षणः ।
ववर्ष
शरवर्षाणि
राक्षसेन्द्रसुतं
प्रति ॥ ६ ॥
ऋक्षाः
शाखामृगाश्चापि
द्रुमाद्रिनखयोधिनः ।
अभ्यधावन्त
सहितास्तदनीकमवस्थितम् ॥ ७ ॥
राक्षसाश्च
शितैर्बाणैरसिभिः
शक्तितोमरैः ।
उद्यतैः
समवर्तन्त
कपिसैन्यजिघांसवः ॥ ८ ॥
स
सम्प्रहारस्तुमुलः
सञ्जज्ञे
कपिराक्षसाम् ।
शब्देन
महता
लङ्कां
नादयन्
वै
समन्ततः ॥ ९ ॥
शस्त्रैश्च
बहुधाकारैः
शितैर्बाणैश्च
पादपैः ।
उद्यतैर्गिरिशृङ्गैश्च
घोरैराकाशमावृतम् ॥ १० ॥
ते
राक्षसा
वानरेषु
विकृताननबाहवः ।
निवेशयन्तः
शस्त्राणि
चक्रुस्ते
सुमहद्भयम् ॥ ११ ॥
तथैव
सकलैर्वृक्षैर्गिरिशृङ्गैश्च
वानराः ।
अभिजघ्नुर्निजघ्नुश्च
समरे
राक्षसर्षभान् ॥ १२ ॥
ऋक्षवानरमुख्यैश्च
महाकायैर्महाबलैः ।
रक्षसां
वध्यमानानां
महद्भयमजायत ॥ १३ ॥
स्वमनीकं
विषण्णं
तु
श्रुत्वा
शत्रुभिरार्दितम् ।
उदतिष्ठत
दुर्धर्षस्तत्कर्मण्यननुष्ठिते ॥ १४ ॥
वृक्षान्धकारान्निर्गत्य
जातक्रोधः
स
रावणिः ।
आरुरोह
रथं
सज्जं
पूर्वयुक्तं
सराक्षसः ॥ १५ ॥
स
भीमकार्मुकधरः
कालमेघसमप्रभः ।
रक्तास्यनयनः
क्रुद्धो
बभौ
मृत्युरिवान्तकः ॥ १६ ॥
दृष्ट्वैव
तु
रथस्थं
तं
पर्यवर्तत
तद्बलम् ।
रक्षसां
भीमवेगानां
लक्ष्मणेन
युयुत्सताम् ॥ १७ ॥
तस्मिन्
काले
तु
हनुमानुद्यम्य
सुदुरासदम् ।
धरणीधरसङ्काशो
महावृक्षमरिन्दमः ॥ १८ ॥
स
राक्षसानां
तत्सैन्यं
कालाग्निरिव
निर्दहन् ।
चकार
बहुभिर्वृक्षैर्निस्सञ्ज्ञं
युधि
वानरः ॥ १९ ॥
विध्वंसयन्तं
तरसा
दृष्ट्वैव
पवनात्मजम् ।
राक्षसानां
सहस्राणि
हनुमन्तमवाकिरन् ॥ २० ॥
शितशूलधराः
शूलैरसिभिश्चासिपाणयः ।
शक्तिभिः
शक्तिहस्ताश्च
पट्टिशैः
पट्टिशायुधाः ॥ २१ ॥
परिधैश्च
गदाभिश्च
चक्रैश्च
शुभदर्शनैः ।
शतशश्च
शतघ्नीभिरायसैरपि
मुद्गरैः ॥ २२ ॥
मुष्टिभिर्वज्रकल्पैश्च
तलैरशनिसन्निभैः ।
अभिजघ्नुः
समासाद्य
समन्तात्
पर्वतोपमम् ॥ २३ ॥
तेषामपि
च
सङ्क्रुद्धश्चकार
कदनं
महत् ।
स
ददर्श
कपिश्रेष्ठमचलोपममिन्द्रजित् ॥ २४ ॥
सूदयन्तमभित्रघ्नममित्रान्
पवनात्मजम् ।
स
सारथिमुवाचेदं
याहि
यत्रैष
वानरः ॥ २५ ॥
क्षयमेष
हि
नः
कुर्याद्राक्षसानामुपेक्षितः ।
इत्युक्तः
सारथिस्तेन
ययौ
यत्र
स
मारुतिः ॥ २६ ॥
वहन्
परमदुर्धर्षं
स्थितमिन्द्रजितं
रथे ।
सोऽभ्युपेत्य
शरान्
खड्गान्
पट्टिशांश्च
परश्वधान् ॥ २७ ॥
अभ्यवर्षत
दुर्द्धर्षः
कपिमूर्ध्नि
स
राक्षसः ।
तानि
शस्त्राणि
घोराणि
प्रतिगृह्य
स
मारुतिः ॥ २८ ॥
रोषेण
महताऽऽविष्टो
वाक्यं
चेदमुवाच
ह ।
युद्ध्यस्व
यदि
शूरोऽसि
रावणात्मज
दुर्मते ॥ २९ ॥
वायुपुत्रं
समासाद्य
जीवन्न
प्रतियास्यसि ।
बाहुभ्यां
प्रतियुध्यस्व
यदि
मे
द्वन्द्वमाहवे ॥ ३० ॥
वेगं
सहस्व
दुर्बुद्धे
ततस्त्वं
रक्षसां
वरः ।
हनुमन्तं
जिघांसन्तं
समुद्यतशरासनम् ॥ ३१ ॥
रावणात्मजमाचष्टे
लक्ष्मणाय
विभीषणः ।
यः
स
वासवनिर्जेता
रावणस्यात्मसम्भवः ॥ ३२ ॥
स
एष
रथमास्थाय
हनुमन्तं
जिघांसति ।
तमप्रतिमसंस्थानैः
शरैः
शत्रुविदारणैः ॥ ३३ ॥
जीवितान्तकरैर्घोरैः
सौमित्रे
रावणिं
जहि ।
इत्येवमुक्तस्तु
तदा
महात्मा
विभीषणेनारिविभीषणेन ॥ ३४ ॥
ददर्श
तं
पर्वतसन्निकाशं
रणे
स्थितं
भीमबलं
नदन्तम् ॥ ३५ ॥