एवमुक्त्वा
तु
सौमित्रिं
जातहर्षो
विभीषणः ।
धनुष्पाणिनमादाय
त्वरमाणो
जगाम
ह ॥ १ ॥
अविदूरं
ततो
गत्वा
प्रविश्य
च
महद्वनम् ।
दर्शयामास
तत्कर्म
लक्ष्मणाय
विभीषणः ॥ २ ॥
नीलजीमूतसङ्काशं
न्यग्रोधं
भीमदर्शनम् ।
तेजस्वी
रावणभ्राता
लक्ष्मणाय
न्यवेदयत् ॥ ३ ॥
इहोपहारं
भूतानां
बलवान्
रावणात्मजः ।
उपहृत्य
ततः
पश्चात्
सङ्ग्राममभिवर्तते ॥ ४ ॥
अदृश्यः
सर्वभूतानां
ततो
भवति
राक्षसः ।
निहन्ति
समरे
शत्रून्
बध्नाति
च
शरोत्तमैः ॥ ५ ॥
तमप्रविष्टन्यग्रोधं
बलिनं
रावणात्मजम् ।
विध्वंसय
शरैस्तीक्ष्णैः
सरथं
साश्वसारथिम् ॥ ६ ॥
तथेत्युक्त्वा
महातेजाः
सौमित्रिर्मित्रनन्दनः ।
बभूवावस्थितस्तत्र
चित्रं
विस्फारयन्
धनुः ॥ ७ ॥
स
रथेनाग्निवर्णेन
बलवान्
रावणात्मजः ।
इन्द्रजित्
कवची
धन्वी
सध्वजः
प्रत्यदृश्यत ॥ ८ ॥
तमुवाच
महातेजाः
पौलस्त्यमपराजितम् ।
समाह्वये
त्वां
समरे
सम्यग्युद्धं
प्रयच्छ
मे ॥ ९ ॥
एवमुक्तो
महातेजा
मनस्वी
रावणात्मजः ।
अब्रवीत्
परुषं
वाक्यं
तत्र
दृष्ट्वा
विभीषणम् ॥ १० ॥
इह
त्वं
जातसंवृद्धः
साक्षाद्भ्राता
पितुर्मम ।
कथं
द्रुह्यसि
पुत्रस्य
पितृव्यो
मम
राक्षस ॥ ११ ॥
न
ज्ञातित्वं
न
सौहार्दं
न
जातिस्तव
दुर्मते ।
प्रमाणं
न
च
सौदर्यं
न
धर्मो
धर्मदूषण ॥ १२ ॥
शोच्यस्त्वमसि
दुर्बुद्धे
निन्दनीयश्च
साधुभिः ।
यस्त्वं
स्वजनमुत्सृज्य
परभृत्यत्वमागतः ॥ १३ ॥
नैतच्छिथिलया
बुद्ध्या
त्वं
वेत्सि
महदन्तरम् ।
क्वच
स्वजनसंवासः
क्वच
नीचपराश्रयः ॥ १४ ॥
गुणवान्
वा
परजनः
स्वजनो
निर्गुणोऽपि
वा ।
निर्गुणः
स्वजनः
श्रेयान्
यः
परः
पर
एव
सः ॥ १५ ॥
यः
स्वपक्षं
परित्यज्य
परपक्षं
निषेवते ।
स
स्वपक्षे
क्षयं
प्राप्ते
पश्चात्तैरेव
हन्यते ॥ १६ ॥
निरनुक्रोशता
चेयं
यादृशी
ते
निशाचर ।
स्वजनेन
त्वया
शक्यं
परुषं
रावणानुज ॥ १७ ॥
इत्युक्तो
भ्रातृपुत्रेण
प्रत्युवाच
विभीषणः ।
अजानन्निव
मच्छीलं
किं
राक्षस
विकत्थसे ॥ १८ ॥
राक्षसेन्द्रसुतासाधो
पारुष्यं
त्यज
गौरवात् ।
कुले
यद्यप्यहं
जातो
रक्षसां
क्रूरकर्मणाम् ॥ १९ ॥
गुणोऽयं
प्रथमो
नृणां
तन्मे
शीलमराक्षसम् ।
न
रमे
दारुणेनाहं
न
चाधर्मेण
वै
रमे ॥ २० ॥
भ्रात्रा
विषमशीलेन
कथं
भ्राता
निरस्यते ।
धर्मात्
प्रच्युतशीलं
हि
पुरुषं
पापनिश्चयम् ॥ २१ ॥
त्यक्त्वा
सुखमवाप्नोति
हस्तादाशीविषं
यथा ।
हिंसापरस्वहरणे
परदाराभिमर्शनम् ॥ २२ ॥
त्याज्यमाहुर्दुराचारं
वेश्म
प्रज्वलितं
यथा ।
परस्वानां
च
हरणं
परदाराभिमर्शनम् ॥ २३ ॥
सुहृदामतिशङ्का
च
त्रयो
दोषाः
क्षयाबहाः ।
महर्षिणां
वधो
घोरः
सर्वदेवैश्च
विग्रहः ॥ २४ ॥
अभिमानश्च
कोपश्च
वैरित्वं
प्रतिकूलता ।
गुणान्
प्रच्छादयामासुः
पर्वतानिव
तोयदाः ॥ २५ ॥
दोषैरेतैः
परित्यक्तो
मया
भ्राता
पिता
तव ।
नेयमस्ति
पुरी
लङ्का
न
च
त्वं
न
च
ते
पिता ॥ २६ ॥
अतिमानी
च
बालश्च
दुर्विनीतश्च
राक्षस ।
बद्धस्त्वं
कालपाशेन
ब्रूहि
मां
यद्यदिच्छसि ॥ २७ ॥
अद्य
ते
व्यसनं
प्राप्तं
किं
मां
त्वमिह
वक्ष्यसि ।
प्रवेष्टुं
न
त्वया
शक्यो
न्यग्रोधो
राक्षसाधम ॥ २८ ॥
युद्ध्यस्व
नरदेवेन
लक्ष्मणेन
रणे
सह ।
हतस्त्वं
देवताकार्यं
करिष्यसि
यमक्षये ॥ २९ ॥
निदर्शयस्वात्मबलं
समुद्यतं
कुरुष्व
सर्वायुधसायकव्ययम् ।
न
लक्ष्मणस्यैत्य
हि
बाणगोचरं
त्वमद्य
जीवन्
सबलो
गमिष्यसि ॥ ३० ॥