विभीषणवचः
श्रुत्वा
रावणिः
क्रोधमूर्च्छितः ।
अब्रवीत्
परुषं
वाक्यं
वेगेनाभ्युत्पपात
ह ॥ १ ॥
उद्यतायुधनिस्त्रिंशो
रथे
सुसमलङ्कृते ।
कालाश्वयुक्ते
महति
स्थितः
कालान्तकोपमः ॥ २ ॥
महाप्रमाणमुद्यम्य
विपुलं
वेगवद्दृढम् ।
धनुर्भीमं
परामृश्य
शरांश्चामित्रशातनान् ॥ ३ ॥
अलङ्कृतममित्रघ्नं
राघवस्यानुजं
बली ।
हनुमत्पृष्ठमासीनमुदयस्थरविप्रभम् ॥ ४ ॥
उवाचैनं
समारब्धः
सौमित्रिं
सविभीषणम् ।
तांश्च
वानरशार्दूलान्
पश्यध्वं
मे
पराक्रमम् ॥ ५ ॥
अद्य
मत्कार्मुकोत्सृष्टं
शरवर्षं
दुरासदम् ।
मुक्तं
वर्षमिवाकाशे
वारयिष्यथ
संयुगे ॥ ६ ॥
अद्य
वो
मामका
बाणा
महाकार्मुकनिस्सृताः ।
विधमिष्यन्ति
गात्राणि
तूलराशिमिवानलः ॥ ७ ॥
तीक्ष्णसायकनिर्भिन्नान्
शूलशक्त्यष्टितोमरैः ।
अद्य
वो
गमयिष्यामि
सर्वानेव
यमक्षयम् ॥ ८ ॥
क्षिपतः
शरवर्षाणि
क्षिप्रहस्तस्य
मे
युधि ।
जीमूतस्येव
नदतः
कः
स्थास्यति
ममाग्रतः ॥ ९ ॥
रात्रियुद्धे
मया
पूर्वं
वज्राशनिसमैः
शरैः ।
शायितौ
स्थो
मया
भूमौ
विसञ्ज्ञौ
सपुरस्सरौ ॥ १० ॥
स्मृतिर्न
तेऽस्ति
वा
मन्ये
व्यक्तं
वा
यमसादनम् ।
आशीविषमिव
क्रुद्धं
यन्मां
योद्धुं
व्यवस्थितः ॥ ११ ॥
तच्छुत्वा
राक्षसेन्द्रस्य
गर्जितं
लक्ष्णस्तदा ।
अभीतवदनः
क्रुद्धो
रावणिं
वाक्यमब्रवीत् ॥ १२ ॥
उक्तश्च
दुर्गमः
पारः
कार्याणां
राक्षस
त्वया ।
कार्याणां
कर्मणा
पारं
यो
गच्छति
स
बुद्धिमान् ॥ १३ ॥
स
त्वमर्थस्य
हीनार्थो
दुरवापस्य
केनचित् ।
वचो
व्याहृत्य
जानीषे
कृतार्थोऽस्मीति
दुर्मते ॥ १४ ॥
अन्तर्धानगतेनाजौ
यस्त्वयाऽऽचरितस्तदा ।
तस्कराचरितो
मार्गो
नैष
वीरनिषेवितः ॥ १५ ॥
यथा
बाणपथं
प्राप्य
स्थितोऽहं
तव
राक्षस ।
दर्शयस्वाद्य
तत्तेजो
वाचा
त्वं
किं
विकत्थसे ॥ १६ ॥
एवमुक्तो
धनुर्भीमं
परामृश्य
महाबलः ।
ससर्ज
निशितान्
बाणानिन्द्रजित्
समितिञ्जयः ॥ १७ ॥
ते
निसृष्टा
महावेगाः
शराः
सर्पविषोपमाः ।
सम्प्राप्य
लक्ष्मणं
पेतुः
श्वसन्त
इव
पन्नगाः ॥ १८ ॥
शरैरतिमहावेगैर्वेगवान्
रावणात्मजः ।
सौमित्रिमिन्द्रजिद्युद्धे
विव्याध
शुभलक्षणम् ॥ १९ ॥
स
शरैरतिविद्धाङ्गो
रुधिरेण
समुक्षितः ।
शुशुभे
लक्ष्मणः
श्रीमान्
विधूम
इव
पावकः ॥ २० ॥
इन्द्रजित्त्वात्मनः
कर्म
प्रसमीक्ष्याधिगम्य
च ।
विनद्य
सुमहानादमिदं
वचनमब्रवीत् ॥ २१ ॥
पत्रिणः
शितधारास्ते
शरा
मत्कार्मुकच्युताः ।
आदास्यन्तेऽद्य
सौमित्रे
जिवितं
जिवितान्तगाः ॥ २२ ॥
अद्य
गोमायुसङ्घाश्च
श्येनसङ्घाश्च
लक्ष्मण ।
गृध्राश्च
निपतन्तु
त्वां
गतासुं
निहतं
मया ॥ २३ ॥
क्षत्रबन्धुं
सदानार्यं
रामः
परमादुर्मतिः ।
भक्तं
भ्रातरमद्यैव
त्वां
द्रक्ष्यति
मया
हतम् ॥ २४ ॥
विशस्तकवचं
भूमौ
व्यपविद्धशरासनम् ।
हृतोत्तमाङ्गं
सौमित्रे
त्वामद्य
निहतं
मया ॥ २५ ॥
इति
ब्रुवाणं
संरब्धं
परुषं
रावणात्मजम् ।
हेतुमद्वाक्यमत्यर्थं
लक्ष्मणः
प्रत्युवाच
ह ॥ २६ ॥
वाग्बलं
त्यज
दुर्बुद्धे
क्रूरकर्माऽसि
राक्षस ।
अथ
कस्माद्वदस्येतत्
सम्पादय
सुकर्मणा ॥ २७ ॥
अकृत्वा
कत्थसे
कर्म
किमर्थमिह
राक्षस ।
कुरु
तत्कर्म
येनाहं
श्रद्दध्यां
तव
कत्थनम् ॥ २८ ॥
अनुक्त्वा
परुषं
वाक्यं
किञ्चिदप्यनवाक्षिपन् ।
अविकत्थन्
वधिष्यामि
त्वां
पश्य
पुरुषाधम ॥ २९ ॥
इत्युक्त्वा
पञ्च
नाराचानाकर्णापूरितान्
शितान् ।
निजघान
महावेगान्
लक्ष्मणो
राक्षसोरसि ॥ ३० ॥
सुपत्रवाजिता
बाणा
ज्वलिता
इव
पन्नगाः ।
नैर्ऋतोरस्यभासन्त
सवितू
रश्मयो
यथा ॥ ३१ ॥
स
शरैराहतस्तेन
सरोषो
रावणात्मजः ।
सुप्रयुक्तैस्त्रिभिर्बाणैः
प्रतिविव्याध
लक्ष्मणम् ॥ ३२ ॥
स
बभूव
तदा
भीमो
नरराक्षससिंहयोः ।
विमर्दस्तुमुलो
युद्धे
परस्परजयैषिणोः ॥ ३३ ॥
उभौ
हि
बलसम्पन्नावुभौ
विक्रमशालिनौ ।
उभावपि
सुविक्रान्तौ
सर्वशस्त्रास्त्रकोविदौ ॥ ३४ ॥
उभौ
परमदुर्जेयावतुल्यबलतेजसौ ।
युयुधाते
तदा
वीरौ
ग्रहाविव
नभोगतौ ॥ ३५ ॥
बलवृत्राविवाभीतौ
युधि
तौ
दुष्प्रधर्षणौ ।
युयुधाते
महात्मानौ
तदा
केसरिणाविव ॥ ३६ ॥
बहूनवसृजन्तौ
हि
मार्गणौघानवस्थितौ ।
नरराक्षससिंहौ
तौ
प्रहृष्टावभ्ययुध्यताम् ॥ ३७ ॥
सुसम्प्रहृष्टौ
नरराक्षसोत्तमौ
जयैषिणौ
मार्गणचापधारिणौ ।
परस्परं
तौ
प्रववर्षतुर्भृशं
शरौघवर्षेण
बलाहकाविव ॥ ३८ ॥
अभिप्रवृद्धौ
युधि
युद्धकोविदौ
शरासिचण्डौ
शितशस्त्रधारिणौ ।
अभीक्ष्णमाविव्यधतुर्महाबलौ
महाहवे
शम्बरवासवाविव ॥ ३९ ॥