युध्यमानौ
तु
तौ
दृष्ट्वा
प्रसक्तौ
नराक्षसौ ।
प्रभिन्नाविव
मातङ्गौ
परस्परवधैषिणौ ॥ १ ॥
तौ
द्रष्टुकामः
सङ्ग्रामे
परस्परगतौ
बली ।
शूरः
स
रावणभ्राता
तस्थौ
सङ्ग्राममूर्धनि ॥ २ ॥
ततो
विस्फारयामास
महद्धनुरवस्थितः ।
उत्ससर्ज
च
तीक्ष्णाग्रान्
राक्षसेषु
महाशरान् ॥ ३ ॥
ते
शराः
शिखिसङ्काशा
निपतन्तः
समाहिताः ।
राक्षसान्
दारयामासुर्वज्राणीव
महागिरीन् ॥ ४ ॥
विभीषणस्यानुचरास्तेऽपि
शूलासिपट्टिशैः ।
चिच्छिदुः
समरे
वीरान्
राक्षसान्
राक्षसोत्तमाः ॥ ५ ॥
राक्षसैस्तैः
परिवृतः
स
तदा
तु
विभीषणः ।
बभौ
मध्ये
प्रहृष्टानां
कलभानामिव
द्विपः ॥ ६ ॥
ततः
सञ्चोदयानो
वै
हरीन्
रक्षो
रणप्रियान् ।
उवाच
वचनं
काले
कालज्ञो
रक्षसां
वरः ॥ ७ ॥
एकोऽयं
राक्षसेन्द्रस्य
परायणमिव
स्थितः ।
एतच्छेषं
बलं
तस्य
किं
तिष्ठत
हरीश्वराः ॥ ८ ॥
अस्मिन्
विनिहते
पापे
राक्षसे
रणमूर्धनि ।
रावणं
वर्जयित्वा
तु
शेषमस्य
हतं
बलम् ॥ ९ ॥
प्रहस्तो
निहतो
वीरो
निकुम्भश्च
महाबलः ।
कुम्भकर्णश्च
कुम्भश्च
धूम्राक्षश्च
निशाचरः ॥ १० ॥
जम्बुमाली
महामाली
तीक्ष्णवेगोऽशनिप्रभः ।
सुप्तघ्नो
यज्ञकोपश्च
वज्रदंष्ट्रश्च
राक्षसः ॥ ११ ॥
संह्रादी
विकटो
निघ्नस्तपनो
दम
एव
च ।
प्रघासः
प्रघसश्चैव
प्रजङ्घो
जङ्घ
एव
च ॥ १२ ॥
अग्निकेतुश्च
दुर्धर्षो
रश्मिकेतुश्च
वीर्यवान् ।
विद्युज्जिह्वो
द्विजिह्वश्च
सूर्यशत्रुश्च
राक्षसः ॥ १३ ॥
अकम्पनः
सुपार्श्वश्च
चक्रमाली
च
राक्षसः ।
कम्पनः
सत्त्ववन्तौ
तौ
देवान्तकनरान्तकौ ॥ १४ ॥
एतान्निहत्यातिबलान्
बहून्
राक्षससत्तमान् ।
बाहुभ्यां
सागरं
तीर्त्वा
लङ्घ्यतां
गोष्पदं
लघु ॥ १५ ॥
एतावदेव
शेषं
वो
जेतव्यमिह
वानराः ।
हताः
सर्वे
समागम्य
राक्षसा
बलदर्पिताः ॥ १६ ॥
अयुक्तं
निधनं
कर्तुं
पुत्रस्य
जनितुर्मम ।
घृणामपास्य
रामार्थे
निहन्यां
भ्रातुरात्मजम् ॥ १७ ॥
तमेवैष
महाबाहुर्लक्ष्मणः
शमयिष्यति ।
वानरा
घ्नत
सम्भूय
भृत्यानस्य
समीपगान् ॥ १८ ॥
इति
तेनातियशसा
राक्षसेनाभिचोदिताः ।
वानरेन्द्रा
जहृषिरे
लाङ्गूलानि
च
विव्यधुः ॥ १९ ॥
ततस्ते
कपिशार्दूलाः
क्ष्वेलन्तश्च
मुहुर्मुहुः ।
मुमुचुर्विविधान्नादान्
मेघान्
दृष्ट्वेव
बर्हिणः ॥ २० ॥
जाम्बवानपि
तैः
सर्वैः
स्वयूथैरपि
संवृतः ।
अश्मभिस्ताडयामास
नखैर्दन्तैश्च
राक्षसान् ॥ २१ ॥
निघ्नन्तमृक्षाधिपतिं
राक्षसास्ते
महाबलाः ।
परिवव्रुभयं
त्यक्त्वा
तमनेकविधायुधाः ॥ २२ ॥
शरैः
परशुभिस्तीक्ष्णैः
पट्टिशैर्यष्टितोमरैः ।
जाम्बवन्तं
मृधे
जघ्नुर्निघ्नन्तं
राक्षसीं
चमूम् ॥ २३ ॥
स
सम्प्रहारस्तुमुलः
सञ्जज्ञे
कपिरक्षसाम् ।
देवासुराणां
क्रुद्धानां
यथा
भीमो
महास्वनः ॥ २४ ॥
स
दत्त्वा
तुमुलं
युद्धं
पितृव्यस्येन्द्रजिद्युधि ।
लक्ष्मणं
परवीरघ्नं
पुनरेवाभ्यधावत ॥ २५ ॥
तौ
प्रयुद्धौ
तदा
वीरौ
मृधे
लक्ष्मणराक्षसौ ।
शरौघानभिवर्षन्तौ
जघ्नतुस्तौ
परस्परम् ॥ २६ ॥
अभीक्ष्णमन्तर्दधतुः
शरजालैर्महाबलौ ।
चन्द्रादित्याविवोष्णान्ते
यथा
मेघैस्तरस्विनौ ॥ २७ ॥
न
ह्यादानं
न
सन्धानं
धनुषो
वा
परिग्रहः ।
न
विप्रमोक्षो
बाणानां
न
विकर्षो
न
विग्रहः ॥ २८ ॥
न
मुष्टिप्रतिसन्धानं
न
लक्ष्यप्रतिपादनम् ।
अदृश्यत
तयोस्तत्र
युध्यतोः
पाणिलाघवात् ॥ २९ ॥
चापवेगविनिर्मुक्तबाणजालैः
समन्ततः ।
अन्तरिक्षे
हि
सञ्छन्ने
न
रूपाणि
चकाशिरे ॥ ३० ॥
लक्ष्मणो
रावणिं
प्राप्य
रावणिश्चापि
लक्ष्मणम् ।
अव्यवस्था
भवत्युग्रा
ताभ्यामन्योन्यविग्रहे ॥ ३१ ॥
ताभ्यामुभाभ्यां
तरसा
विसृष्टैर्विशिखैः
शितैः ।
निरन्तरमिवाकाशं
बभूव
तमसावृतम् ॥ ३२ ॥
तैः
पतद्भिश्च
बहुभिस्तयोः
शरशतैः
शितैः ।
दिशश्च
प्रदिशश्चैव
बभूवुः
शरसङ्कुलाः ॥ ३३ ॥
तमसा
संवृतं
सर्वमासीद्भीमतरं
महत् ।
अस्तं
गते
सहस्रांशौ
संवृतं
तमसेव
हि ॥ ३४ ॥
रुधिरौघमहानद्यः
प्रावर्तन्त
सहस्रशः ।
क्रव्यादा
दारुणा
वाग्भिश्चिक्षिपुर्भीमनिस्वनम् ॥ ३५ ॥
न
तदानीं
ववौ
वायुर्न
च
जज्वाल
पावकः ।
स्वस्त्यस्तु
लोकेभ्य
इति
जजल्पुश्च
महर्षयः ॥ ३६ ॥
सम्पेतुश्चात्र
सम्प्राप्ता
गन्धर्वाः
सह
चारणैः ।
अथ
राक्षससिंहस्य
कृष्णान्
कनकभूषणान् ॥ ३७ ॥
शरैश्चतुर्भिः
सौमित्रिर्विव्याध
चतुरो
हयान् ।
ततोऽपरेण
भल्लेन
शितेन
निशितेन
च ॥ ३८ ॥
सम्पूर्णायतमुक्तेन
सुपत्रेण
सुवर्चसा ।
महेन्द्राशनिकल्पेन
सुतस्य
विचरिष्यतः ॥ ३९ ॥
स
तेन
बाणाशनिना
तलशब्दानुनादिना ।
लाघवाद्राघवः
श्रीमान्
शिरः
कायादपाहरत् ॥ ४० ॥
स
यन्तरि
महातेजा
हते
मन्दोदरीसुतः ।
स्वयं
सारथ्यमकरोत्
पुनश्च
धनुरस्पृशत् ॥ ४१ ॥
तदद्भुतमभूत्तत्र
सामर्थ्यं
पश्यतां
युधि ।
हयेषु
व्यग्रहस्तं
तं
विव्याध
निशितैः
शरैः ॥ ४२ ॥
धनुष्यथ
पुनर्व्यग्रे
हयेषु
मुमुचे
शरान् ।
छिद्रेषु
तेषु
बाणेषु
सौमित्रिः
शीघ्रविक्रमः ॥ ४३ ॥
अर्दयामास
बाणौघैर्विचरन्तमभीतवत् ।
निहतं
सारथिं
दृष्ट्वा
समरे
रावणात्मजः ॥ ४४ ॥
प्रजहौ
समरोद्धर्षं
विषण्णः
स
बभूव
ह ।
विषण्णवदनं
दृष्ट्वा
राक्षसं
हरियूथपाः ॥ ४५ ॥
ततः
परमसंहृष्टा
लक्ष्मणं
चाभ्यपूजयन् ।
ततः
प्रमाथी
शरभो
रभसो
गन्धमादनः ॥ ४६ ॥
अमृष्यमाणाश्चत्वारश्चक्रुर्वेगं
हरीश्वराः ।
ते
चास्य
हयमुख्येषु
तूर्णमुत्प्लुत्य
वानराः ॥ ४७ ॥
चतुर्षु
समहावीर्या
निपेतुर्भीमविक्रमाः ।
तेषामधिष्ठितानां
तैर्वानरैः
पर्वतोपमैः ॥ ४८ ॥
मुखेभ्यो
रुधिरं
रक्तं
हयानां
समवर्तत ।
ते
हया
मथिता
भग्ना
व्यसवो
धरणीं
गताः ॥ ४९ ॥
ते
निहत्य
हयांस्तस्य
प्रमथ्य
च
महारथम् ।
स
हताश्वादवप्लुत्य
रथान्मथितसारथेः ॥ ५० ॥
शरवर्षेण
सौमित्रिमभ्यधावत
रावणिः ।
ततो
महेन्द्रप्रतिमः
स
लक्ष्मणः
पदातिनं
तं
निशितैः
शरोत्तमैः ॥ ५१ ॥
सृजन्तमाजौ
निशितान्
शरोत्तमान्
भृशं
तदा
बाणगणैर्न्यवारयत् ॥ ५२ ॥