ततः
पौलस्त्यसचिवाः
श्रुत्वा
चेन्द्रजितं
हतम् ।
आचचक्षुरभिज्ञाय
दशग्रीवाय
सव्यथाः ॥ १ ॥
युद्धे
हतो
महाराज
लक्ष्मणेन
तवात्मजः ।
विभीषणसहायेन
मिषतां
नो
महाद्युतिः ॥ २ ॥
लक्ष्मणेन
हतः
शूरः
पुत्रस्तु
विबुधेन्द्रजित् ।
गतः
स
परमान्
लोकान्
शरैः
सन्ताप्य
लक्ष्मणम् ॥ ३ ॥
स
तं
प्रतिभयं
श्रुत्वा
वधं
पुत्रस्य
दारुणम् ।
घोरमिन्द्रजितः
सङ्ख्ये
कश्मलं
चाविशन्महत् ॥ ४ ॥
उपलभ्य
चिरात्
सञ्ज्ञां
राजा
राक्षसपुङ्गवः ।
पुत्रशोकार्दितो
दीनो
विललापाकुलेन्द्रियः ॥ ५ ॥
हा
राक्षसचमूमुख्य
मम
वत्स
महारथ ।
जित्वेन्द्रं
कथमद्य
त्वं
लक्ष्मणस्य
वशं
गतः ॥ ६ ॥
ननु
त्वमिषुभिः
क्रुद्धो
भिन्द्याः
कालान्तकावपि ।
मन्दरस्यापि
शृङ्गाणि
किं
पुनर्लक्ष्मणं
युधि ॥ ७ ॥
अद्य
वैवस्वतो
राजा
भूयो
बहुमतो
मम ।
येनाद्य
त्वं
महाबाहो
संयुक्तः
कालधर्मणा ॥ ८ ॥
एष
पन्थाः
सुयोधानां
सर्वामरगणेष्वपि ।
अद्य
देवगणाः
सर्वे
लोकपालास्तथर्षयः ॥ ९ ॥
हतमिन्द्रजितं
श्रुत्वा
सुखं
स्वप्स्यन्ति
निर्भयाः ।
अद्य
लोकास्त्रयः
कृत्स्ना
पृथिवी
च
सकानना ॥ १० ॥
एकेनेन्द्रजिता
हीना
शून्येव
प्रतिभाति
मे ।
अद्य
नैर्ऋतकन्यानां
श्रोष्याम्यन्तःपुरे
रवम् ॥ ११ ॥
करेणुसङ्घस्य
यथा
निनादं
गिरिगह्वरे ।
यौवराज्यं
च
लङ्कां
च
रक्षांसि
च
परन्तप ॥ १२ ॥
मातरं
मां
च
भार्यां
च
क्व
गतोऽसि
विहाय
नः ।
मम
नाम
त्वया
वीर
गतस्य
यमसादनम् ॥ १३ ॥
प्रेतकार्याणि
कार्याणि
विपरीते
हि
वर्तसे ।
स
त्वं
जीवति
सुग्रीवे
लक्ष्मणे
च
सराघवे ॥ १४ ॥
मम
शल्यमनुद्धृत्य
क्व
गतोऽसि
विहाय
नः ।
एवमादिविलापार्तं
रावणं
राक्षसाधिपम् ॥ १५ ॥
आविवेश
महान्
कोपः
पुत्रव्यसनसम्भवः ।
प्रकृत्या
कोपनं
ह्येनं
पुत्रस्य
पुनराधयः ॥ १६ ॥
दीप्तं
सन्दीपयामासुर्घर्मेऽर्कमिव
रश्मयः ।
ललाटे
भ्रुकुटीभिश्च
सङ्गताभिर्व्यारोचत ॥ १७ ॥
युगान्ते
सह
नक्रैस्तु
महोर्मिभिरिवोदधिः ।
कोपाद्विजृम्भमाणस्य
वक्त्राद्
व्यक्तमभिज्वलन् ॥ १८ ॥
उत्पपात
स
भूयोऽग्निर्वृत्रस्य
वदनादिव ।
स
पुत्रवधसन्तप्तः
शूरः
क्रोधवशं
गतः ॥ १९ ॥
समीक्ष्य
रावणो
बुद्ध्या
वैदेह्या
रोचयद्वधम् ।
तस्य
प्रकृत्या
रक्ते
च
रक्ते
क्रोधाग्निनाऽपि
च ॥ २० ॥
रावणस्य
महाघोरे
दीप्ते
नेत्रे
बभूवतुः ।
घोरं
प्रकृत्या
रूपं
तत्तस्य
क्रोधाग्निमूर्च्छितम् ॥ २१ ॥
बभूव
रूपं
क्रुद्धस्य
रुद्धस्येव
दुरासदम् ।
तस्य
क्रुद्धस्य
नेत्राभ्यां
प्राप्ततन्नस्रबिन्दवः ॥ २२ ॥
दीप्ताभ्यामिव
दीपाभ्यां
सार्चिषः
स्नेहबिन्दवः ।
दन्तान्
विदशतस्तस्य
श्रूयते
दशनस्वनः ॥ २३ ॥
यन्त्रस्यावेष्ट्यमानस्य
महतो
दानवैरिव ।
कालाग्निरिव
सङ्क्रुद्धो
यां
यां
दिशमवैक्षत ॥ २४ ॥
तस्यां
तस्यां
भयत्रस्ता
राक्षसाः
संविलिल्यिरे ।
तमन्तकमिव
क्रुद्धं
चराचरचिखादिषुम् ॥ २५ ॥
वीक्षमाणं
दिशः
सर्वा
राक्षसा
नोपचक्रमुः ।
ततः
परमसङ्क्रुद्धो
रावणो
राक्षसाधिपः ॥ २६ ॥
अब्रवीद्रक्षसां
मध्ये
संस्तम्भयिषुराहवे ।
मया
वर्षसहस्राणि
चरित्वा
दुश्चरं
तपः ॥ २७ ॥
तेषु
तेष्ववकाशेषु
स्वयम्भूः
परितोषितः ।
तस्यैव
तपसो
व्युष्ट्या
प्रसादाच्च
स्वयम्भुवः ॥ २८ ॥
नासुरेभ्यो
न
देवेभ्यो
भयं
मम
कदाचन ।
कवचं
ब्रह्मदत्तं
मे
यदादित्यसमप्रभम् ॥ २९ ॥
देवासुरविमर्देषु
न
भिन्नं
वज्रशक्तिभिः ।
तेन
मामद्य
संयुक्तं
रथस्थमिह
संयुगे ॥ ३० ॥
प्रतीयात्
कोऽद्य
मामाजौ
साक्षादपि
पुरन्दरः ।
यत्तदाऽभिप्रसन्नेन
सशरं
कार्मुकं
महत् ॥ ३१ ॥
देवासुरविमर्देषु
मम
दत्तं
स्वयम्भुवा ।
अद्य
तूर्यशतैर्भीमं
धनुरुत्थाप्यतां
मम ॥ ३२ ॥
रामलक्ष्मणयोरेव
वधाय
परमाहवे ।
स
पुत्रवधसन्तप्तः
शूरः
क्रोधवशं
गतः ॥ ३३ ॥
समीक्ष्य
रावणो
बुद्ध्या
सीतां
हन्तुं
व्यवस्यत ।
प्रत्यवेक्ष्य
तु
ताम्राक्षः
सुघोरो
घोरदर्शनः ॥ ३४ ॥
दीनो
दीनस्वरान्
सर्वांस्तानुवाच
निशाचरान् ।
मायया
मम
वत्सेन
वञ्चनार्थं
वनौकसाम् ॥ ३५ ॥
किञ्चिदेव
हतं
तत्र
सीतेयमिति
दर्शितम् ।
तदिदं
तथ्यमेवाहं
करिष्ये
प्रियमात्मनः ॥ ३६ ॥
वैदेहीं
नाशयिष्यामि
क्षत्रबन्धुमनुव्रताम् ।
इत्येवमुक्त्वा
सचिवान्
खड्गमाशु
परामृशत् ॥ ३७ ॥
उद्धृत्य
गुणसम्पन्नं
विमलाम्बरवर्चसम् ।
निष्पपात
स
वेगेन
सभार्यः
सचिवैर्वृतः ॥ ३८ ॥
रावणः
पुत्रशोकेन
भृशमाकुलचेतनः ।
सङ्क्रुद्धः
खड्गमादाय
सहसा
यत्र
मैथिली ॥ ३९ ॥
व्रजन्तं
राक्षसं
प्रेक्ष्य
सिंहनादं
प्रचुक्रुशुः ।
ऊचुश्चान्योन्यमाश्लिष्य
सङ्क्रुद्धं
प्रेक्ष्य
राक्षसाः ॥ ४० ॥
अद्यैनं
तावुभौ
दृष्ट्वा
भ्रातरौ
प्रव्यथिष्यतः ।
लोकपाला
हि
चत्वारः
क्रुद्धेनानेन
निर्जिताः ॥ ४१ ॥
बहवः
शत्रवश्चापि
संयुगेषु
निपातिताः ।
त्रिषु
लोकेषु
रत्नानि
भुङ्क्ते
चाहृत्य
रावणः ॥ ४२ ॥
विक्रमे
च
बले
चैव
नास्त्यस्य
सदृशो
भुवि ।
तेषां
सञ्जल्पमानानामशोकवनिकां
गताम् ॥ ४३ ॥
अभिदुद्राव
वैदेहीं
रावणः
क्रोधमूर्च्छितः ।
वार्यमाणः
सुसङ्क्रुद्धः
सुहृद्भिर्हितबुद्धिभिः ॥ ४४ ॥
अभ्यधावत
सङ्क्रुद्धः
खे
ग्रहो
रोहिणीमिव ।
मैथिली
रक्ष्यमाणा
तु
राक्षसीभिरनिन्दिता ॥ ४५ ॥
ददर्श
राक्षसं
क्रुद्धं
निस्त्रिंशवरधारिणम् ।
निवार्यमाणं
बहुशः
सुहृद्भिरनुवर्तिनम् ॥ ४६ ॥
सीता
दुःखसमाविष्टा
विलपन्तीदमब्रवीत् ।
यथाऽयं
मामभिक्रुद्धः
समभिद्रवति
स्वयम् ॥ ४७ ॥
वधिष्यति
सनाथां
मामनाथामिव
दुर्मतिः ।
बहुशश्चोदयामास
भर्तारं
मामनुव्रताम् ॥ ४८ ॥
भार्या
भव
रमस्वेति
प्रत्याख्यातो
ध्रुवं
मया ।
सोऽयं
ममानुपस्थाने
व्यक्तं
नैराश्यमागतः ॥ ४९ ॥
क्रोधमोहसमाविष्टो
निहन्तुं
मां
समुद्यतः ।
मन्निमित्तमनार्येण
समरेऽद्य
निपातितौ ॥ ५० ॥
अहो
धिङ्मन्निमित्तोऽयं
विनाशो
राजपुत्रयोः ।
अथवा
पुत्रशोकेन
अहत्वा
रामलक्ष्मणौ ॥ ५१ ॥
विधमिष्यति
मां
रौद्रो
राक्षसः
पापनिश्चयः ।
हनूमतोऽपि
यद्वाक्यं
न
कृतं
क्षुद्रया
मया ॥ ५२ ॥
यद्यहं
तस्य
पृष्ठेन
तदा
यायामनिन्दिता ।
नाद्यैवमनुशोचेयं
भर्तुरङ्कगता
सती ॥ ५३ ॥
मन्ये
तु
हृदयं
तस्याः
कौसल्यायाः
फलिष्यति ।
एकपुत्रा
यदा
पुत्रं
विनष्टं
श्रोष्यते
युधि ॥ ५४ ॥
सा
हि
जन्म
च
बाल्यं
च
यौवनं
च
महात्मनः ।
धर्मकार्यानुरूपं
च
रुदन्ती
संस्मरिष्यति ॥ ५५ ॥
निराशा
निहते
पुत्रे
दत्त्वा
श्राद्धमचेतना ।
अग्निमारोक्ष्यते
नूनमपो
वाऽपि
प्रवेक्ष्यति ॥ ५६ ॥
धिगस्तु
कुब्जामसतीं
मन्थरां
पापनिश्चयाम् ।
यन्निमित्तमिदं
दुःखं
कौसल्या
प्रतिपत्स्यते ॥ ५७ ॥
इत्येवं
मैथिलीं
दृष्ट्वा
विलपन्तीं
तपस्विनीम् ।
रोहिणीमिव
चन्द्रेण
विना
ग्रहवशं
गताम् ॥ ५८ ॥
सुपार्श्वो
नाम
मेधावी
राक्षसो
राक्षसेश्वरम् ।
निवार्यमाणं
सचिवैरिदं
वचनमब्रवीत् ॥ ५९ ॥
कथं
नाम
दशग्रीव
साक्षाद्वैश्रवणानुज ।
हन्तुमिच्छसि
वैदेहीं
क्रोधाद्धर्ममपास्य
हि ॥ ६० ॥
वेदविद्याव्रतस्नातः
स्वकर्मनिरतः
सदा ।
स्त्रियाः
कस्माद्वधं
वीर
मन्यसे
राक्षसेश्वर ॥ ६१ ॥
मैथिलीं
रूपसम्पन्नां
प्रत्यवेक्षस्व
पार्थिव ।
त्वमेव
तु
सहास्माभी
राघवे
क्रोधमुत्सृज ॥ ६२ ॥
अभ्युत्थानं
त्वमद्यैव
कृष्णपक्षचतुर्दशीम् ।
कृत्वा
निर्याह्यमावास्यां
विजयाय
बलैर्वृतः ॥ ६३ ॥
शूरो
धीमान्
रथी
खड्गी
रथप्रवरमास्थितः ।
हत्वा
दशरथिं
रामं
भवान्
प्राप्स्यति
मैथिलीम् ॥ ६४ ॥
स
तद्दुरात्मा
सुहृदा
निवेदितं
वचः
सुधर्म्यं
प्रतिगृह्य
रावणः ।
गृहं
जगामाथ
ततश्च
वीर्यवान्
पुनः
सभां
च
प्रययौ
सुहृद्वृतः ॥ ६५ ॥