स
प्रविश्य
सभां
राजा
दीनः
परमदुःखितः ।
निषसादासने
सिंहः
क्रुद्ध
इव
श्वसन् ॥ १ ॥
अब्रवीच्च
स
तान्
सर्वान्
बलमुख्यान्
महाबलः ।
रावणः
प्राञ्जलिर्वाक्यं
पुत्रव्यसनकर्शितः ॥ २ ॥
सर्वे
भवन्तः
सर्वेण
हस्त्यश्वेन
समावृताः ।
निर्यान्तु
रथसङ्घैश्च
पादातैश्चोपशोभिताः ॥ ३ ॥
एकं
रामं
परिक्षिप्य
समरे
हन्तुमर्हथ ।
वर्षन्तः
शरवर्षेण
प्रावृट्काल
इवाम्बुदाः ॥ ४ ॥
अथवाऽहं
शरैस्तीक्ष्णैर्भिन्नगात्रं
महारणे ।
भवद्भिः
श्वो
निहन्तास्मि
रामं
लोकस्य
पश्यतः ॥ ५ ॥
इत्येतद्राक्षसेन्द्रस्य
वाक्यमादाय
राक्षसाः ।
निर्ययुस्ते
रथैः
शीघ्रैर्नानानीकैः
सुसंवृताः ॥ ६ ॥
परिघान्
पट्टिशांश्चैव
शरखड्गपरश्वधान् ।
शरीरान्तकरान्
सर्वे
चिक्षिपुर्वानरान्
प्रति ॥ ७ ॥
वानराश्च
द्रुमान्
शैलान्
राक्षसान्
प्रति
चिक्षिपुः ।
स
सङ्ग्रामो
महान्
भीमः
सूर्यस्योदयनं
प्रति ॥ ८ ॥
रक्षसां
वानराणां
च
तुमुलः
समपद्यत ।
ते
गदाभिर्विचित्राभिः
प्राशैः
खड्गैः
परश्वधैः ॥ ९ ॥
अन्योन्यं
समरे
जघ्नुस्तदा
वानरराक्षसाः ।
एवं
प्रवृत्ते
सङ्ग्रामे
ह्युद्भूतं
सुमहद्रजः ॥ १० ॥
रक्षसां
वानराणां
च
शान्तं
शोणितविस्रवैः ।
मातङ्गरथकूलाश्च
वाजिमत्स्या
ध्वजद्रुमाः ॥ ११ ॥
शरीरसङ्घाटवहाः
प्रसस्रुः
शोणितापगाः ।
ध्वजवर्मरथानश्वान्नानाप्रहरणानि
च ॥ १२ ॥
आप्लुत्याप्लुत्य
समरे
राक्षसानां
बभञ्जिरे ।
केशान्
कर्णललाटांश्च
नासिकाश्च
प्लवङ्गमाः ॥ १३ ॥
रक्षसां
दशनैस्तीक्ष्णैर्नखैश्चापि
न्यकर्तयन् ।
एकैकं
राक्षसं
सङ्ख्ये
शतं
वानरपुङ्गवाः ॥ १४ ॥
अभ्यधावन्त
फलिनं
वृक्षं
शकुनयो
यथा ।
तथा
गदाभिर्गुर्वीभिः
प्रासैः
खड्गैः
परश्वधैः ॥ १५ ॥
निजघ्नुर्वानरान्
घोरान्
राक्षसाः
पर्वतोपमाः ।
राक्षसैर्युद्ध्यामानानां
वानराणां
महाचमूः ॥ १६ ॥
शरण्यं
शरणं
याता
रामं
दशरथात्मजम् ।
ततो
रामो
महातेजा
धनुरादाय
वीर्यवान् ॥ १७ ॥
प्रविश्य
राक्षसं
सैन्यं
शरवर्षं
ववर्ष
ह ।
प्रविष्टं
तु
तदा
रामं
मेघाः
सूर्यमिवाम्बरे ॥ १८ ॥
नाभिजग्मुर्महाघोरं
निर्दहन्तं
शराग्निना ।
कृतान्येव
सुघोराणि
रामेण
रजनीचराः ॥ १९ ॥
रणे
रामस्य
ददृशुः
कर्माण्यसुकराणि
च ।
चालयन्तं
महानीकं
विधमन्तं
महारथान् ॥ २० ॥
ददृशुस्ते
न
वै
रामं
वातं
वनगतं
यथा ।
छिन्नं
भिन्नं
शरैर्दग्धं
प्रभग्नं
शस्त्रपीडितम् ॥ २१ ॥
बलं
रामेण
ददृशुर्न
रामं
शीघ्रकारिणम् ।
प्रहरन्तं
शरीरेषु
न
ते
पश्यन्ति
राघवम् ॥ २२ ॥
इन्द्रियार्थेषु
तिष्ठन्तं
भूतात्मानमिव
प्रजाः ।
एष
हन्ति
गजानीकमेष
हन्ति
महारथान् ॥ २३ ॥
एष
हन्ति
शरैस्तीक्ष्णैः
पदातीन्
वाजिभिः
सह ।
इति
ते
राक्षसाः
सर्वे
रामस्य
सदृशान्
रणे ॥ २४ ॥
अन्योन्यं
कुपिता
जघ्नुः
सादृश्याद्राघवस्य
ते ।
न
ते
ददृशिरे
रामं
दहन्तमरिवाहिनीम् ॥ २५ ॥
मोहिताः
परमास्त्रेण
गान्धर्वेण
महात्मना ।
ते
तु
रामसहस्राणि
रणे
पश्यन्ति
राक्षसाः ॥ २६ ॥
पुनः
पश्यन्ति
काकुत्स्थमेकमेव
महाहवे ।
भ्रमन्तीं
काञ्चनीं
कोटिं
कार्मुकस्य
महात्मनः ॥ २७ ॥
अलातचक्रप्रतिमां
ददृशुस्ते
न
राघवम् ।
शरीरनाभिसत्त्वार्चिः
शरीरं
नेमिकार्मुकम् ॥ २८ ॥
ज्याघोषतलनिर्घोषं
तेजोबुद्धिगुणप्रभम् ।
दिव्यास्त्रगुणपर्यन्तं
निघ्नन्तं
युधि
राक्षसान् ॥ २९ ॥
ददृशू
रामचक्रं
तत्
कालचक्रमिव
प्रजाः ।
अनीकं
दशसाहस्रं
रथानां
वातरंहसाम् ॥ ३० ॥
अष्टादश
सहस्राणि
कुञ्जराणां
तरस्विनाम् ।
चतुर्दश
सहस्राणि
सारोहाणां
च
वाजिनाम् ॥ ३१ ॥
पूर्णे
शतसहस्रे
द्वे
राक्षसानां
पदातिनाम् ।
दिवसस्याष्टमे
भागे
शरैरग्निशिखोपमैः ॥ ३२ ॥
हतान्येकेन
रामेण
रक्षसां
कामरूपिणाम् ।
ते
हताश्वा
हतरथाः
शान्ता
विमथितध्वजाः ॥ ३३ ॥
अभिपेतुः
पुरीं
लङ्कां
हतशेषा
निशाचराः ।
हतैर्गजपदात्यश्वैस्तद्बभूव
रणाजिरम् ॥ ३४ ॥
आक्रीडमिव
रुद्रस्य
क्रुद्धस्य
सुमहात्मनः ।
ततो
देवाः
सगन्धर्वाः
सिद्धाश्च
परमर्षयः ॥ ३५ ॥
साधु
साध्विति
रामस्य
तत्
कर्म
समपूजयन् ।
अब्रवीच्च
तदा
रामः
सुग्रीवं
प्रत्यनन्तरम् ॥ ३६ ॥
विभीषणं
च
धर्मात्मा
हनूमन्तं
च
वानरम् ।
जाम्बवन्तं
हरिश्रेष्ठं
मैन्दं
द्विविदमेव
च ॥ ३७ ॥
एतदस्त्रबलं
दिव्यं
मम
वा
त्र्यम्बकस्य
वा ।
निहत्य
तां
राक्षसवाहिनीं
तु
रामस्तदा
शक्रसमो
महात्मा ॥ ३८ ॥
अस्त्रेषु
शस्त्रेषु
जितक्लमश्च
संस्तूयते
देवगणैः
प्रहृष्टैः ॥ ३९ ॥