तानि
तानि
सहस्राणि
सारोहाणां
च
वाजिनाम् ।
रथानां
त्वग्निवर्णानां
सध्वजानां
सहस्रशः ॥ १ ॥
राक्षसानां
सहस्राणि
गदापरिघयोधिनाम् ।
काञ्चनध्वजचित्राणां
शूराणां
कामरूपिणाम् ॥ २ ॥
निहतानि
शरैस्तीक्ष्णैस्तप्तकाञ्चनभूषणैः ।
रावणेन
प्रयुक्तानि
रामेणाक्लिष्टकर्मणा ॥ ३ ॥
दृष्ट्वा
श्रुत्वा
च
सम्भ्रान्ता
हतशेषा
निशाचराः ।
राक्षसीश्च
समागम्य
दीनाश्चिन्तापरिप्लुताः ॥ ४ ॥
विधवा
हतपुत्राश्च
क्रोशन्त्यो
हतबान्धवाः ।
राक्षस्यः
सह
सङ्गम्य
दुःखार्ताः
पर्यदेवयन् ॥ ५ ॥
आससाद
वने
रामं
कन्दर्पमिव
रूपिणम् ।
सुकुमारं
महासत्त्वं
सर्वभूतहिते
रतम् ॥ ६ ॥
तं
दृष्ट्वा
लोकनिन्द्या
सा
हीनरूपा
प्रकामिता ।
कथं
सर्वगुणैर्हीना
गुणवन्तं
महौजसम् ॥ ७ ॥
सुमुखं
दुर्मुखी
रामं
कामयामास
राक्षसी ।
जनस्यास्याल्पभाग्यत्वाद्वलिनी
श्वेतमूर्धजा ॥ ८ ॥
अकार्यमपहास्यं
च
सर्वलोकविगर्हितम् ।
राक्षसानां
विनाशाय
दूषणस्य
खरस्य
च ॥ ९ ॥
चकाराप्रतिरूपा
सा
राघवस्य
प्रधर्षणम् ।
तन्निमित्तमिदं
वैरं
रावणेन
कृतं
महत् ॥ १० ॥
वधाय
सीता
साऽऽनीता
दशग्रीवेण
रक्षसा ।
न
च
सीतां
दशग्रीवः
प्राप्नोति
जनकात्मजाम् ॥ ११ ॥
बद्धं
बलवता
वैरमक्षयं
राघवेण
च ।
वैदेहीं
प्रार्थयानं
तं
विराधं
प्रेक्ष्य
राक्षसम् ॥ १२ ॥
हतमेकेन
रामेण
पर्याप्तं
तन्निदर्शनम् ।
चतुर्दश
सहस्राणि
रक्षसां
भीमकर्मणाम् ॥ १३ ॥
निहतानि
जनस्थाने
शरैरग्निशिखोपमैः ।
खरश्च
निहतः
सङ्ख्ये
दूषणस्त्रिशिरास्तथा ॥ १४ ॥
शरैरादित्यसङ्काशैः
पर्याप्तं
तन्निदर्शनम् ।
हतो
योजनबाहुश्च
कबन्धो
रुधिराशनः ॥ १५ ॥
क्रोधान्नादं
नदन्
सोऽथ
पर्याप्तं
तन्निदर्शनम् ।
जघान
बलिनं
रामः
सहस्रनयनात्मजम् ॥ १६ ॥
वालिनं
मेरुसङ्काशं
पर्याप्तं
तन्निदर्शनम् ।
ऋष्यमूके
वसन्
शैले
दीनो
भग्नमनोरथः ॥ १७ ॥
सुग्रीवः
स्थापितो
राज्ये
पर्याप्तं
तन्निदर्शनम् ।
धर्मार्थसहितं
वाक्यं
सर्वेषां
रक्षसां
हितम् ॥ १८ ॥
युक्तं
विभीषणेनोक्तं
मोहात्तस्य
न
रोचते ।
विभीषणवचः
कुर्याद्यदि
स्म
धनदानुजः ॥ १९ ॥
श्मशानभूता
दुःखार्ता
नेयं
लङ्का
पुरी
भवेत् ।
अतिकायं
च
दुर्धर्षं
लक्ष्मणेन
हतं
पुनः ॥ २० ॥
प्रियं
चेन्द्रजितं
पुत्रं
रावणो
नावबुध्यते ।
मम
पुत्रो
मम
भ्राता
मम
भर्ता
रणे
हतः ॥ २१ ॥
इत्येवं
श्रूयते
शब्दो
राक्षसानां
कुले
कुले ।
रथाश्चाश्वाश्च
नागाश्च
हताः
शतसहस्रशः ॥ २२ ॥
रणे
रामेण
शूरेण
राक्षसाश्च
पदातयः ।
रुद्रो
वा
यदि
वा
विष्णुर्महेन्द्रो
वा
शतक्रतुः ॥ २३ ॥
हन्ति
नो
रामरूपेण
यदि
वा
स्वयमन्तकः ।
हतप्रवीरा
रामेण
निराशा
जीविते
वयम् ॥ २४ ॥
अपश्यन्तो
भयस्यान्तमनाथा
विलपामहे ।
रामहस्ताद्दशग्रीवः
शूरो
दत्तमहावरः ॥ २५ ॥
इदं
भयं
महाघोरमुत्पन्नं
नावबुध्यते ।
न
देवा
न
च
गन्धर्वा
न
पिशाचा
न
राक्षसाः ॥ २६ ॥
उपसृष्टं
परित्रातुं
शक्ता
रामेण
संयुगे ।
उत्पाताश्चापि
दृश्यन्ते
रावणस्य
रणे
रणे ॥ २७ ॥
कथयिष्यन्ति
रामेण
रावणस्य
निबर्हणम् ।
पितामहेन
प्रीतेन
देवदानवराक्षसैः ॥ २८ ॥
रावणस्याभयं
दत्तं
मानुषेभ्यो
न
याचितम् ।
तदिदं
मानुषं
मन्ये
प्राप्तं
निस्संशयं
भयम् ॥ २९ ॥
जीवितान्तकरं
घोरं
रक्षसां
रावणस्य
च ।
पीड्यमानास्तु
बलिना
वरदानेन
रक्षसा ॥ ३० ॥
दीप्तैस्तपोभिर्विबुधाः
पितामहमपूजयन् ।
देवतानां
हितार्थाय
महात्मा
वै
पितामहः ॥ ३१ ॥
उवाच
देवताः
सर्वा
इदं
तुष्टो
महद्वचः ।
अद्यप्रभृति
लोकांस्त्रीन्
सर्वे
दानवराक्षसाः ॥ ३२ ॥
भयेन
प्रावृता
नित्यं
विचरिष्यन्ति
शाश्वतम् ।
दैवतैस्तु
समागम्य
सर्वैश्चेन्द्रपुरोगमैः ॥ ३३ ॥
वृषध्वजस्त्रिपुरहा
महादेवः
प्रसादितः ।
प्रसन्नस्तु
महादेवो
देवानेतद्वचोऽब्रवीत् ॥ ३४ ॥
उत्पत्स्यति
हितार्थं
वो
नारी
रक्षःक्षयावहा ।
एषा
देवैः
प्रयुक्ता
तु
क्षुद्यथा
दानवान्
पुरा ॥ ३५ ॥
भक्षयिष्यति
नः
सीता
राक्षसघ्नी
सरावणान् ।
रावणस्यापनीतेन
दुर्विनीतस्य
दुर्मतेः ॥ ३६ ॥
अयं
निष्ठानको
घोरः
शोकेन
समभिप्लुतः ।
तं
न
पश्यामहे
लोके
यो
नः
शरणदो
भवेत् ॥ ३७ ॥
राघवेणोपसृष्टानां
कालेनेव
युगक्षये ।
नास्ति
नः
शरणं
कश्चिद्भये
महति
तिष्ठताम् ॥ ३८ ॥
दवाग्निवेष्टितानां
हि
करेणूनां
यथा
वने ।
प्राप्तकालं
कृतं
तेन
पौलस्त्येन
महात्मना ॥ ३९ ॥
यत
एव
भयं
दृष्टं
तमेव
शरणं
गतः ।
इतीव
सर्वा
रजनीचरस्त्रियः
परस्परं
सम्परिरभ्य
बाहुभिः ॥ ४० ॥
विषेदुरार्ता
भयभारपीडिता
विनेदुरुच्चैश्च
तदा
सुदारुणम् ॥ ४१ ॥