आर्तानां
राक्षसीनां
तु
लङ्कायां
वै
कुले
कुले ।
रावणः
करुणं
शब्दं
शुश्राव
परिदेवितम् ॥ १ ॥
स
तु
दीर्घं
विनिश्वस्य
मुहूर्तं
ध्यानमास्थितः ।
बभूव
परमक्रुद्धो
रावणो
भीमदर्शनः ॥ २ ॥
सन्दश्य
दशनैरोष्ठं
क्रोधसंरक्तलोचनः ।
राक्षसैरपि
दुर्दर्शः
कालाग्निरिव
मूर्च्छितः ॥ ३ ॥
उवाच
च
समीपस्थान्
राक्षसान्
राक्षसेश्वरः ।
भयाव्यक्तकथस्तत्र
निर्दहन्निव
चक्षुषा ॥ ४ ॥
महोदरमाहपार्श्वौ
विरूपाक्षं
च
राक्षसम् ।
शीघ्रं
वदत
सैन्यानि
निर्यातेति
ममाज्ञया ॥ ५ ॥
तस्य
तद्वचनं
श्रुत्वा
राक्षसास्ते
भयार्दिताः ।
चोदयामासुरव्यग्रान्
राक्षसांस्तान्
नृपाज्ञया ॥ ६ ॥
ते
तु
सर्वे
तथेत्युक्त्वा
राक्षसा
घोरदर्शनाः ।
कृतस्वस्त्ययनाः
सर्वे
रणायाभिमुखा
ययुः ॥ ७ ॥
प्रतिपूज्य
यथान्यायं
रावणं
ते
निशाचराः ।
तस्थुः
प्राञ्जलयः
सर्वे
भर्तुर्विजयकाङ्क्षिणः ॥ ८ ॥
अथोवाच
प्रहस्यैतान्
रावणः
क्रोधमूर्च्छितः ।
महोदरमहापार्श्वौ
विरूपाक्षं
च
राक्षसम् ॥ ९ ॥
अद्य
बाणैर्धनुर्मुक्तैर्युगान्तादित्यसन्निभैः ।
राघवं
लक्ष्मणं
चैव
नेष्यामि
यमसादनम् ॥ १० ॥
खरस्य
कुम्भकर्णस्य
प्रहस्तेन्द्रजितोस्तथा ।
करिष्यामि
प्रतीकारमद्य
शत्रुवधादहम् ॥ ११ ॥
नैवान्तरिक्षं
न
दिशो
न
नद्यो
नापि
सागराः ।
प्रकाशत्वं
गमिष्यन्ति
मद्बाणजलदावृताः ॥ १२ ॥
अद्य
वानरमुख्यानां
तानि
यूथानि
भागशः ।
धनुषा
शरजालेन
विधमिष्यामि
पत्रिणा ॥ १३ ॥
अद्य
वानरसैन्यानि
रथेन
पवनौजसा ।
धनुःसमुद्रादुद्भूतैर्मथिष्यामि
शरोर्मिभिः ॥ १४ ॥
आकोशपद्मवक्त्राणि
पद्मकेसरवर्चसाम् ।
अद्य
यूथतटाकानि
गजवत्
प्रमथाम्यहम् ॥ १५ ॥
सशरैरद्य
वदनैः
सङ्ख्ये
वानरयूथपाः ।
मण्डयिष्यन्ति
वसुधां
सनालैरिव
पङ्कजैः ॥ १६ ॥
अद्य
युद्धप्रचण्डानां
हरीणां
द्रुमयोधिनाम् ।
मुक्तेनैकेषुणा
युद्धे
भेत्स्यामि
च
शतं
शतम् ॥ १७ ॥
हतो
भर्ता
हतो
भ्राता
यासां
च
तनया
हताः ।
वधेनाद्य
रिपोस्तासां
करोम्यस्रप्रमार्जनम् ॥ १८ ॥
अद्य
मद्बाणनिर्भिन्नैः
प्रकीर्णैर्गतचेतनैः ।
करोमि
वानरैर्युद्धे
यत्नावेक्ष्यतलां
महीम् ॥ १९ ॥
अद्य
गोमायवो
गृध्रा
ये
च
मांसाशिनोऽपरे ।
सर्वांस्तांस्तर्पयिष्यामि
शत्रुमांसैः
शरार्पितैः ॥ २० ॥
कल्प्यतां
मे
रथः
शीघ्रं
क्षिप्रमानीयतां
धनुः ।
अनुप्रयान्तु
मां
सर्वे
येऽवशिष्टा
निशाचराः ॥ २१ ॥
तस्य
तद्वचनं
श्रुत्वा
महापार्श्वोऽब्रवीद्वचः ।
बलाध्यक्षान्
स्थितांस्तत्र
बलं
सन्त्वर्यतामिति ॥ २२ ॥
बलाध्यक्षास्तु
संरब्धा
राक्षसांस्तान्
गृहाद्गृहात् ।
चोदयन्तः
परिययुर्लङ्कायां
तु
महाबलाः ॥ २३ ॥
ततो
मुहूर्तान्निष्पेतू
राक्षसा
भीमदर्शनाः ।
नर्दन्तो
भीमवदना
नानाप्रहरणैर्भुजैः ॥ २४ ॥
असिभिः
पट्टिशैः
शूलैर्गदाभिर्मुसलैर्हुलैः ।
शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः
कूटमुद्गरैः ॥ २५ ॥
यष्टिभिर्विमलैश्चक्रैर्निशितैश्च
परश्वधैः ।
भिण्डिपालैः
शतघ्नीभिरन्यैश्चापि
वरायुधैः ॥ २६ ॥
अथानयद्बलाध्यक्षः
सत्वरो
रावणाज्ञया ।
द्रुतं
सूतसमायुक्तं
युक्ताष्टतुरगं
रथम् ॥ २७ ॥
आरुरोह
रथं
भीमो
दीप्यमानं
स्वतेजसा ।
ततः
प्रयातः
सहसा
राक्षसैर्बहुभिर्वृतः ॥ २८ ॥
रावणः
सत्त्वगाम्भीर्याद्दारयन्निव
मेदिनीम् ।
रावणेनाभ्यनुज्ञातौ
महापार्श्वमहोदरौ ॥ २९ ॥
विरूपाक्षश्च
दुर्धर्षो
रथानारुरुहुस्तदा ।
ते
तु
हृष्टा
विनर्दन्तो
भिन्दन्त
इव
मेदिनीम् ॥ ३० ॥
नादं
घोरं
विमुञ्जन्तो
निर्ययुर्जयकाङ्क्षिणः ।
ततो
युद्धाय
तेजस्वी
रक्षोगणबलैर्वृतः ॥ ३१ ॥
निर्ययावुद्यतधनुः
कालान्तकयमोपमः ।
ततः
प्रजवनाश्वेन
रथेन
स
महारथः ॥ ३२ ॥
द्वारेण
निर्ययौ
तेन
यत्र
तौ
रामलक्ष्मणौ ।
ततो
नष्टप्रभः
सूर्यो
दिशश्च
तिमिरावृताः ॥ ३३ ॥
द्विजाश्च
नेदुर्घोराश्च
सञ्चचालेव
मेदिनी ।
ववर्ष
रुधिरं
देवश्चस्खलुस्तुरगाः
पथि ॥ ३४ ॥
ध्वजाग्रे
न्यपतद्गृध्रो
विनेदुश्चाशिवं
शिवाः ।
नयनं
चास्फुरद्वामं
सव्यो
बाहुरकम्पत ॥ ३५ ॥
विवर्णं
वदनं
चासीत्
किञ्चिदभ्रश्यत
स्वरः ।
ततो
निष्पततो
युद्धे
दशग्रीवस्य
रक्षसः ॥ ३६ ॥
रणे
निधनशंसीनि
रूपाण्येतानि
जज्ञिरे ।
अन्तरिक्षात्
पपातोल्का
निर्घातसमनिस्वना ॥ ३७ ॥
विनेदुरशिवा
गृध्रा
वायसैरनुनादिताः ।
एतानचिन्तयन्
घोरानुत्पातान्
समुपस्थितान् ॥ ३८ ॥
निर्ययौ
रावणो
मोहाद्वधार्थी
कालचोदितः ।
तेषां
तु
रथघोषेण
राक्षसानां
महात्मनाम् ॥ ३९ ॥
वानराणामपि
चमूर्युद्धायैवाभ्यवर्तत ।
तेषां
तु
तुमुलं
युद्धं
बभूव
कपिरक्षसाम् ॥ ४० ॥
अन्योन्यमाह्वयानानां
क्रुद्धानां
जयमिच्छताम् ।
ततः
क्रुद्धो
दशग्रीवः
शरैः
काञ्चनभूषणैः ॥ ४१ ॥
वानराणामनीकेषु
चकार
कदनं
महत् ।
केचिद्विच्छिन्न
हृदयाः
केचिच्छ्रोत्रविवर्जिताः ॥ ४२ ॥
निरुच्छ्वासा
हताः
केचित्
केचित्
पार्श्वेषु
दारिताः ।
केचिद्विभिन्नशिरसः
केचिच्चक्षुर्विवर्जिताः ॥ ४३ ॥
दशाननः
क्रोधविवृत्तनेत्रो
यतो
यतोऽभ्येति
रथेन
सङ्ख्ये ।
ततस्ततस्तस्य
शरप्रवेगं
सोढुं
न
शेकुर्हरिपुङ्गवास्ते ॥ ४४ ॥