तथा
तैः
कृत्तगात्रैस्तु
दशग्रीवेण
मार्गणैः ।
बभूव
वसुधा
तत्र
प्रकीर्णा
हरिभिस्तदा ॥ १ ॥
रावणस्याप्रसह्यं
तं
शरसम्पातमेकतः ।
न
शेकुः
सहितुं
दीप्तं
पतङ्गा
ज्वलनं
यथा ॥ २ ॥
तेऽर्दिता
निशितैर्बाणैः
क्रोशन्तो
विप्रदुद्रुवुः ।
पावकार्चिस्समाविष्टा
दह्यमाना
यथा
गजाः ॥ ३ ॥
प्लवङ्गानामनीकानि
महाभ्राणीव
मारुतः ।
स
ययौ
समरे
तस्मिन्
विधमन्
रावणः
शरैः ॥ ४ ॥
कदनं
तरसा
कृत्वा
राक्षसेन्द्रो
वनौकसाम् ।
आससाद
ततो
युद्धे
राघवं
त्वरितस्तदा ॥ ५ ॥
सुग्रीवस्तान्
कपीन्
दृष्ट्वा
भग्नान्
विद्रवतो
रणे ।
गुल्मे
सुषेणं
निक्षिप्य
चक्रे
युद्धेऽद्भुतं
मनः ॥ ६ ॥
आत्मनः
सदृशं
वीरः
स
तं
निक्षिप्य
वानरम् ।
सुग्रीवोऽभिमुखः
शत्रुं
प्रतस्थे
पादपायुधः ॥ ७ ॥
पार्श्वतः
पृष्टतश्चास्य
सर्वे
यूथपाधिपाः
स्वयम् ।
अनुजह्रुर्महाशैलान्
विविधांश्च
महाद्रुमान् ॥ ८ ॥
स
नर्दन्
युधि
सुग्रीवः
स्वरेण
महता
महान् ।
पातयन्
विविधांश्चान्यान्
जगामोत्तमराक्षसान् ॥ ९ ॥
ममन्थ
च
महाकायो
राक्षसान्
वानरेश्वरः ।
युगान्तसमये
वायुः
प्रवृद्धानगमानिव ॥ १० ॥
राक्षसानामनीकेषु
शैलवर्षं
ववर्ष
ह ।
अश्मवर्षं
यथा
मेघः
पक्षिसङ्घेषु
कानने ॥ ११ ॥
कपिराजविमुक्तैस्तैः
शैलवर्षैस्तु
राक्षसाः ।
विकीर्णशिरसः
पेतुर्निकृत्ता
इव
पर्वताः ॥ १२ ॥
अथ
सङ्क्षीयमाणेषु
राक्षसेषु
समन्ततः ।
सुग्रीवेण
प्रभग्नेषु
पतत्सु
निनदत्सु
च ॥ १३ ॥
विरूपाक्षः
स्वकं
नाम
धन्वी
विश्राव्य
राक्षसः ।
रथादाप्लुत्य
दुर्धर्षो
गजस्कन्धमुपारुहत् ॥ १४ ॥
स
तं
द्विरदमारुह्य
विरूपाक्षो
महारथः ।
विनदन्
भीमनिर्ह्रादं
वानरानभ्यधावत ॥ १५ ॥
सुग्रीवे
स
शरान्
घोरान्
विससर्ज
चमूमुखे ।
स्थापयामास
चोद्विग्नान्
राक्षसान्
सम्प्रहर्षयन् ॥ १६ ॥
स
तु
विद्धः
शितैर्बाणैः
कपीन्द्रस्तेन
रक्षसा ।
चक्रोध
स
महाक्रोधो
वधे
चास्य
मनो
दधे ॥ १७ ॥
ततः
पादपमुद्धृत्य
शूरः
सम्प्रधनो
हरिः ।
अभिपत्य
जघानास्य
प्रमुखे
तु
महागजम् ॥ १८ ॥
स
तु
प्रहाराभिहतः
सुग्रीवेण
महागजः ।
अपासर्पद्धनुर्मात्रं
निषसाद
ननाद
च ॥ १९ ॥
गजात्तु
मथितात्तूर्णमपक्रम्य
स
वीर्यवान् ।
राक्षसोऽभिमुखः
शत्रुं
प्रत्युद्गम्य
ततः
कपिम् ॥ २० ॥
आर्षभं
चर्म
खड्गं
च
प्रगृह्य
लघुविक्रमः ।
भर्त्सयन्निव
सुग्रीवमाससाद
व्यवस्थितम् ॥ २१ ॥
स
हि
तस्याभिसङ्क्रुद्धः
प्रगृह्य
विपुलां
शिलाम् ।
विरूपाक्षाय
चिक्षेप
सुग्रीवो
जलदोपमाम् ॥ २२ ॥
स
तां
शिलामापतन्तीं
दृष्ट्वा
राक्षसपुङ्गवः ।
अपक्रम्य
सुविक्रान्तः
खड्गेन
प्राहरत्तदा ॥ २३ ॥
तेन
खड्गप्रहारेण
रक्षसा
बलिना
हतः ।
मुहूर्तमभवद्वीरो
विसञ्ज्ञ
इव
वानरः ॥ २४ ॥
स
तदा
सहसोत्पत्य
राक्षसस्य
महाहवे ।
मुष्टिं
संवर्त्य
वेगेन
पातयामास
वक्षसि ॥ २५ ॥
तेन
खड्गेन
सङ्क्रुद्धः
सुग्रीवस्य
चमूमुखे ।
कवचं
पातयामास
पद्भ्यामभिहतोऽपतत् ॥ २६ ॥
स
समुत्थाय
पतितः
कपिस्तस्य
व्यसर्जयत् ।
तलप्रहारमशनेः
समानं
भीमनिस्वनम् ॥ २७ ॥
तलप्रहारं
तद्रक्षः
सुग्रीवेण
समुद्यतम् ।
नैपुण्यान्मोचयित्वैनं
मुष्टिनोरस्यताडयत् ॥ २८ ॥
मोक्षितं
चात्मनो
दृष्ट्वा
प्रहारं
तेन
रक्षसा ।
स
ददर्शान्तरं
तस्य
विरूपाक्षस्य
वानरः ॥ २९ ॥
ततो
न्यपातयत्
क्रोधाच्छङ्खदेशे
महत्तलम् ।
महेन्द्राशनिकल्पेन
तलेनाभिहतः
क्षितौ ॥ ३० ॥
पपात
रुधिरक्लिन्नः
शोणितं
च
समुद्वमन् ।
स्रोतोभ्यस्तु
विरूपाक्षो
जलं
प्रस्रवणादिव ॥ ३१ ॥
विवृत्तनयनं
क्रोधात्
सफेनं
रुधिराप्लुतम् ।
ददृशुस्ते
विरूपाक्षं
विरूपाक्षतरं
कृतम् ॥ ३२ ॥
स्फुरन्तं
परिवर्तन्तं
पार्श्वेन
रुधिरोक्षितम् ।
करुणं
च
विनर्दन्तं
ददृशुः
कपयो
रिपुम् ॥ ३३ ॥
तथा
तु
तौ
संयति
सम्प्रयुक्तौ
तरस्विनौ
वानरराक्षसानाम् ।
बलार्णवौ
सस्वनतुः
सुभीमं
महार्णवौ
द्वाविव
भिन्नवेलौ ॥ ३४ ॥
विनाशितं
प्रेक्ष्य
विरूपनेत्रं
महाबलं
तं
हरिपार्थिवेन ।
बलं
समस्तं
कपिराक्षसानामुन्मत्तगङ्गाप्रतिमं
बभूव ॥ ३५ ॥