हन्यमाने
बले
तूर्णमन्योन्यं
ते
महामृधे ।
सरसीव
महाघर्मे
सोपक्षीणे
बभूवतुः ॥ १ ॥
स्वबलस्य
विघातेन
विरूपाक्षवधेन
च ।
बभूव
द्विगुणं
क्रुद्धो
रावणो
राक्षसाधिपः ॥ २ ॥
बभूवास्य
व्यथा
युद्धे
प्रेक्ष्य
दैवविपर्ययम् ।
उवाच
च
समीपस्थं
महोदरमरिन्दमम् ॥ ३ ॥
अस्मिन्
काले
महाबाहो
जयाशा
त्वयि
मे
स्थिता ।
जहि
शत्रुचमूं
वीर
दर्शयाद्य
पराक्रमम् ॥ ४ ॥
भर्तृपिण्डस्य
कालोऽयं
निर्देष्टुं
साधु
युध्यताम् ।
एवमुक्तस्तथेत्युक्त्वा
राक्षसेन्द्रो
महोदरः ॥ ५ ॥
प्रविवेशारिसेनां
तां
पतङ्ग
इव
पावकम् ।
ततः
स
कदनं
चक्रे
वानराणां
महाबलः ॥ ६ ॥
भर्तृवाक्येन
तेजस्वी
स्वेन
वीर्येण
चोदितः ।
वानराश्च
महासत्त्वाः
प्रगृह्य
विपुलाः
शिलाः ॥ ७ ॥
प्रविश्यारिबलं
भीमं
जघ्नुस्ते
रजनीचरान् ।
महोदरस्तु
सङ्क्रुद्धः
शरैः
काञ्चनभूषणैः ॥ ८ ॥
चिच्छेद
पाणिपादोरून्
वानराणां
महाहवे ।
ततस्ते
वानराः
सर्वे
राक्षसैरर्दिता
भृशम् ॥ ९ ॥
दिशो
दश
द्रुताः
केचित्
केचित्
सुग्रीवमाश्रिताः ।
प्रभग्नां
समरे
दृष्ट्वा
वानराणां
महाचमूम् ॥ १० ॥
अभिदुद्राव
सुग्रीवो
महोदरमनन्तरम् ।
प्रगृह्य
विपुलां
घोरां
महीधरसमां
शिलाम् ॥ ११ ॥
चिक्षेप
च
महातेजास्तद्वधाय
हरीस्वरः ।
तामापतन्तीं
सहसा
शिलां
दृष्ट्वा
महोदरः ॥ १२ ॥
असम्भ्रान्तस्ततो
बाणैर्निर्बिभेद
दुरासदाम् ।
रक्षसा
तेन
बाणौघैर्निकृत्ता
सा
सहस्रधा ॥ १३ ॥
निपपात
शिला
भूमौ
गृध्रचक्रमिवाकुलम् ।
तां
तु
भिन्नां
शिलां
दृष्ट्वा
सुग्रीवः
क्रोधमूर्च्छितः ॥ १४ ॥
सालमुत्पाट्य
चिक्षेप
राक्षसे
रणमूर्धनि ।
शरैश्च
विददारैनं
शूरः
परपुरञ्जयः ॥ १५ ॥
स
ददर्श
ततः
क्रुद्धः
परिघं
पतितं
भुवि ।
आविध्य
तु
स
तं
दीप्तं
परिघं
तस्य
दर्शयन् ॥ १६ ॥
परिघाग्रेण
वेगेन
जघानास्य
हयोत्तमान् ।
तस्माद्धतहयाद्वीरः
सोऽवप्लुत्य
महारथात् ॥ १७ ॥
गदां
जग्राह
सङ्क्रुद्धो
राक्षसोऽथ
महोदरः ।
गदापरिघहस्तौ
तौ
युधि
वीरौ
समीयतुः ॥ १८ ॥
नर्दन्तौ
गौवृषप्रख्यौ
घनाविव
सविद्युतौ ।
ततः
क्रुद्धो
गदां
तस्मै
चिक्षेप
रजनीचरः ॥ १९ ॥
ज्वलन्तीं
भास्कराभासां
सुग्रीवाय
महोदरः ।
सुग्रीवो
रोषताम्राक्षः
समुद्यम्य
महाहवे ॥ २० ॥
आजघान
गदां
तस्य
परिघेण
हरीश्वरः ।
पपात
स
गदोद्भिन्नः
परिघस्तस्य
भूतले ॥ २१ ॥
ततो
जग्राह
तेजस्वी
सुग्रीवो
वसुधातलात् ।
आयसं
मुसलं
घोरं
सर्वतो
हेमभूषितम् ॥ २२ ॥
स
तमुद्यम्य
चिक्षेप
सोऽप्यन्यां
व्याक्षिपद्गदाम् ।
भिन्नावन्योन्यमासाद्य
पेततुर्धरणीतले ॥ २३ ॥
ततो
भग्नप्रहरणौ
मुष्टिभ्यां
तौ
समीयतुः ।
तेजोबलसमाविष्टौ
दीप्ताविव
हुताशनौ ॥ २४ ॥
जघ्नतुस्तौ
तदाऽन्योन्यं
नेदतुश्च
पुनःपुनः ।
तलैश्चान्योन्यमाहत्य
पेततुर्धरणीतले ॥ २५ ॥
भुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ ।
जग्मतुस्तौ
श्रमं
वीरौ
बाहुयुद्धे
परन्तपौ ॥ २६ ॥
आजहार
ततः
खड्गमदूरपरिवर्तिनम् ।
राक्षसश्चर्मणा
सार्धं
महावेगो
महोदरः ॥ २७ ॥
तथैव
च
महाखड्गं
चर्मणा
पतितं
सह ।
जग्राह
वानरश्रेष्ठः
सुग्रीवो
वेगवत्तरः ॥ २८ ॥
तौ
तु
रोषपरीताङ्गौ
नर्दन्तावभ्यधावताम् ।
उद्यतासी
रणे
हृष्टौ
युधि
शस्त्रविशारदौ ॥ २९ ॥
दक्षिणं
मण्डलं
चोभौ
सुतूर्णं
सम्परीयतुः ।
अन्योन्यमभिसङ्क्रुद्धौ
जये
प्रणिहितावुभौ ॥ ३० ॥
स
तु
शूरो
महावेगो
वीर्यश्लाघी
महोदरः ।
महाचर्मणि
तं
खड्गं
पातयामास
दुर्मतिः ॥ ३१ ॥
लग्नमुत्कर्षतः
खड्गं
खड्गेन
कपिकुञ्जरः ।
जहार
सशिरस्त्राणं
कुण्डलोपहितं
शिरः ॥ ३२ ॥
निकृत्तशिरसस्तस्य
पतितस्य
महीतले ।
तद्बलं
राक्षसेन्द्रस्य
दृष्ट्वा
तत्र
न
तिष्ठते ॥ ३३ ॥
हत्वा
तं
वानरैः
सार्धं
ननाद
मुदितो
हरिः ।
चुक्रोध
च
दशग्रीवो
बभौ
हृष्टश्च
राघवः ॥ ३४ ॥
विषण्णवदनाः
सर्वे
राक्षसा
दीनचेतसः ।
विद्रवन्ति
ततः
सर्वे
भयवित्रस्तचेतसः ॥ ३५ ॥
महोदरं
तं
विनिपात्य
भूमौ
महागिरेः
कीर्णमिवैकदेशम् ।
सूर्यात्मजस्तत्र
रराज
लक्ष्म्या
सूर्यः
स्वतेजोभिरिवाप्रधृष्यः ॥ ३६ ॥
अथ
विजयमवाप्य
वानरेन्द्रः
समरमुखे
सुरयक्षसिद्धसङ्घैः ।
अवनितलगतैश्च
भूतसङ्घैर्हरुषसमाकुलितैः
स्तुतो
महात्मा ॥ ३७ ॥