सुग्रीवेण
समीक्ष्याथ
क्रोधात्
संरक्तलोचनः ।
अङ्गदस्य
चमूं
भीमां
क्षोभयामास
सायकैः ॥ १ ॥
स
वानराणां
मुख्यानामुत्तमाङ्गानि
सर्वशः ।
पातयामास
कायेभ्यः
फलं
वृन्तादिवानिलः ॥ २ ॥
केषाञ्चिदिषुभिर्बाहून्
स्कन्धांश्चिच्छेद
राक्षसः ।
वानराणां
सुसङ्क्रुद्धः
पार्श्वं
केषां
व्यदारयत् ॥ ३ ॥
तेऽर्दिता
बाणवर्षेण
महापार्श्वेन
वानराः ।
विषादविमुखाः
सर्वे
बभूवुर्गतचेतसः ॥ ४ ॥
निरीक्ष्य
बलमुद्विग्नमङ्गदो
राक्षसार्दितम् ।
वेगं
चक्रे
महाबाहुः
समुद्र
इव
पर्वणि ॥ ५ ॥
आयसं
परिघं
गृह्य
सूर्यरश्मिसमप्रभम् ।
समरे
वानरश्रेष्ठो
महापार्श्वे
न्यपातयत् ॥ ६ ॥
स
तु
तेन
प्रहारेण
महापार्श्वो
विचेतनः ।
ससूतः
स्यन्दनात्तस्माद्विसञ्ज्ञः
प्रापतद्भुवि ॥ ७ ॥
सर्क्षराजस्तु
तेजस्वी
नीलाञ्जनचयोपमः ।
निष्पत्य
सुमहावीर्यः
स्वाद्व्यूहान्मेघसन्निभात् ॥ ८ ॥
प्रगृह्य
गिरिशृङ्गाभां
क्रुद्धः
सुविपुलां
शिलाम् ।
अश्वान्
जघान
तरसा
स्यन्दनं
च
बभञ्ज
तम् ॥ ९ ॥
मुहूर्ताल्लब्धसञ्ज्ञस्तु
महापार्श्वो
महाबलः ।
अङ्गदं
बहुभिर्बाणैर्भूयस्तं
प्रत्यविध्यत ॥ १० ॥
जाम्बवन्तं
त्रिभिर्बाणैराजघान
स्तनान्तरे ।
ऋक्षराजं
गवाक्षं
च
जघान
बहुभिः
शरैः ॥ ११ ॥
जाम्बवन्तं
गवाक्षं
च
स
दृष्ट्वा
शरपीडितौ ।
जग्राह
परिघं
घोरमङ्गदः
क्रोधमूर्च्छितः ॥ १२ ॥
तस्याङ्गदः
प्रकुपितो
राक्षसस्य
तमायसम् ।
दूरस्थितस्य
परिघं
रविरश्मिसमप्रभम् ॥ १३ ॥
द्वाभ्यां
भुजाभ्यां
सङ्गृह्य
भ्रामयित्वा
च
वेगवान् ।
महापार्श्वस्य
चिक्षेप
वधार्थं
वालिनः
सुतः ॥ १४ ॥
स
तु
क्षिप्तो
बलवता
परिघस्तस्य
रक्षसः ।
धनुश्च
सशरं
हस्ताच्छिरस्त्रं
चाप्यपातयत् ॥ १५ ॥
तं
समासाद्य
वेगेन
वालिपुत्रः
प्रतापवान् ।
तलेनाभ्यहनत्
क्रुद्धः
कर्णमूले
सकुण्डले ॥ १६ ॥
स
तु
क्रुद्धो
महावेगो
महापार्श्वो
महाद्युतिः ।
करेणैकेन
जग्राह
सुमहान्तं
परश्वधम् ॥ १७ ॥
तं
तैलधौतं
विमलं
शैलसारमयं
दृढम् ।
राक्षसः
परमक्रुद्धो
वालिपुत्रे
न्यपातयत् ॥ १८ ॥
तेन
वामांसफलके
भृशं
प्रत्यवपादितम् ।
अङ्गदो
मोक्षयामास
सरोषः
स
परश्वधम् ॥ १९ ॥
स
वीरो
वज्रसङ्काशमङ्गदो
मुष्टिमात्मनः ।
संवर्तयत्
सुसङ्क्रुद्धः
पितुस्तुल्यपराक्रमः ॥ २० ॥
राक्षसस्य
स्तनाभ्याशे
मर्मज्ञो
हृदयं
प्रति ।
इन्द्राशनिसमस्पर्शं
स
मुष्टिं
विन्यपातयत् ॥ २१ ॥
तेन
तस्य
निपातेन
राक्षसस्य
महामृधे ।
पफाल
हृदयं
चाशु
स
पपात
हतो
भुवि ॥ २२ ॥
तस्मिन्निपतिते
भूमौ
तत्
सैन्यं
सम्प्रचुक्षुभे ।
अभवच्च
महान्
क्रोधः
समरे
रावणस्य
तु ॥ २३ ॥
वानराणां
च
हृष्टानां
सिंहनादश्च
पुष्कलः ।
स्फोटयन्निव
शब्देन
लङ्कां
साट्टालगोपुराम् ॥ २४ ॥
महेन्द्रेणेव
देवानां
नादः
समभवन्महान् ।
अथेन्द्रशत्रुस्त्रिदिवालयानां
वनौकसां
चैव
महाप्रणादम् ॥ २५ ॥
श्रुत्वा
सरोषं
युधि
राक्षसेन्द्रः
पुनश्च
युद्धाभिमुखोऽवतस्थे ॥ २६ ॥