तस्मिन्
प्रतिहतेऽस्त्रे
तु
रावणो
राक्षसाधिपः ।
क्रोधं
च
द्विगुणं
चक्रे
क्रोधाच्चास्त्रमनन्तरम् ॥ १ ॥
मयेन
विहितं
रौद्रमन्यदस्त्रं
महाद्युतिः ।
उत्स्रष्टुं
रावणो
घोरं
राघवाय
प्रचक्रमे ॥ २ ॥
ततः
शूलानि
निश्चेरुर्गदाश्च
मुसलानि
च ।
कार्मुकाद्दीप्यमानानि
वज्रसाराणि
सर्वशः ॥ ३ ॥
मुद्गराः
कूटपाशाश्च
दीप्ताश्चाशनयस्तथा ।
निष्पेतुर्विविधास्तीक्ष्णा
वाता
इव
युगक्षये ॥ ४ ॥
तदस्त्रं
राघवः
श्रीमानुत्तमास्त्रविदां
वरः ।
जघान
परमास्त्रेण
गान्धर्वेण
महाद्युतिः ॥ ५ ॥
तस्मिन्
प्रतिहतेऽस्त्रे
तु
राघवेण
महात्मना ।
रावणः
क्रोधताम्राक्षः
सौरमस्त्रमुदैरयत् ॥ ६ ॥
ततश्चक्राणि
निष्पेतुर्भास्वराणि
महान्ति
च ।
कार्मुकाद्भीमवेगस्य
दशग्रीवस्य
धीमतः ॥ ७ ॥
तैरासीद्गगनं
दीप्तं
सम्पतद्भिरितस्ततः ।
पतद्भिश्च
दिशो
दीप्ताश्चन्द्रसूर्यग्रहैरिव ॥ ८ ॥
तानि
चिच्छेद
बाणौघैश्चक्राणि
स
तु
राघवः ।
आयुधानि
च
चित्राणि
रावणस्य
चमूमुखे ॥ ९ ॥
तदस्त्रं
तु
हतं
दृष्ट्वा
रावणो
राक्षसाधिपः ।
विव्याध
दशभिर्बाणै
रामं
सर्वेषु
मर्मसु ॥ १० ॥
स
विद्धो
दशभिर्बाणैर्महाकार्मुकनिस्सृतैः ।
रावणेन
महातेजा
न
प्राकम्पत
राघवः ॥ ११ ॥
ततो
विव्याध
गात्रेषु
सर्वेषु
समितिञ्जयः ।
राघवस्तु
सुसङ्क्रुद्धो
रावणं
बहुभिः
शरैः ॥ १२ ॥
एतस्मिन्नन्तरे
क्रुद्धो
राघवस्यानुजो
बली ।
लक्ष्मणः
सायकान्
सप्त
जग्राह
परवीरहा ॥ १३ ॥
तैः
सायकैर्महावेगै
रावणस्य
महाद्युतिः ।
ध्वजं
मनुष्यशीर्षं
तु
तस्य
चिच्छेद
नैकधा ॥ १४ ॥
सारथेश्चापि
बाणेन
शिरो
ज्वलितकुण्डलम् ।
जहार
लक्ष्मणः
श्रीमान्
नैर्ऋतस्य
महाबलः ॥ १५ ॥
तस्य
बाणैश्च
चिच्छेद
धनुर्गजकरोपमम् ।
लक्ष्मणो
राक्षसेन्द्रस्य
पञ्चभिर्निशितैः
शरैः ॥ १६ ॥
नीलमेघनिभांश्चास्य
सदश्वान्
पर्वतोपमान् ।
जघानाप्लुत्य
गदया
रावणस्य
विभीषणः ॥ १७ ॥
हताश्वाद्वेगवान्
वेगादवप्लुत्य
महारथात् ।
क्रोधमाहारयत्तीव्रं
भ्रातरं
प्रति
रावणः ॥ १८ ॥
ततः
शक्तिं
महाशक्तिर्दीप्तां
दींप्ताशनीमिव ।
विभीषणाय
चिक्षेप
राक्षसेन्द्रः
प्रतापवान् ॥ १९ ॥
अप्राप्तामेव
तां
बाणैस्त्रिभिश्चिच्छेद
लक्ष्मणः ।
अथोदतिष्ठत्
सन्नादो
वानराणां
तदा
रणे ॥ २० ॥
सा
पपात
त्रिधा
च्छिन्ना
शक्तिः
काञ्चनमालिनी ।
सविस्फुलिङ्गा
ज्वलिता
महोल्केव
दिवश्च्युता ॥ २१ ॥
ततः
सम्भाविततरां
कालेनापि
दुरासदाम् ।
जग्राह
विपुलां
शक्तिं
दीप्यमानां
स्वतेजसा ॥ २२ ॥
सा
वेगिता
बलवता
रावणेन
दुरासदा ।
जज्वाल
सुमहाघोरा
शक्राशनिसमप्रभा ॥ २३ ॥
एतस्मिन्नन्तरे
वीरो
लक्ष्मणस्तं
विभीषणम् ।
प्राणसंशयमापन्नं
तूर्णमभ्यवपद्यत ॥ २४ ॥
तं
विमोक्षयितुं
वीरश्चापमायम्य
लक्ष्मणः ।
रावणं
शक्तिहस्तं
वै
शरवर्षैरवाकिरत् ॥ २५ ॥
कीर्यमाणः
शरौघेण
विसृष्टेन
महात्मना ।
स
प्रहर्तुं
मनश्चक्रे
विमुखीकृतविक्रमः ॥ २६ ॥
मोक्षितं
भ्रातरं
दृष्ट्वा
लक्ष्मणेन
स
रावणः ।
लक्ष्मणाभिमुखस्तिष्ठन्निदं
वचनमब्रवीत् ॥ २७ ॥
मोक्षितस्ते
बलश्लाघिन्
यस्मादेवं
विभीषणः ।
विमुच्य
राक्षसं
शक्तिस्त्वयीयं
विनिपात्यते ॥ २८ ॥
एषा
ते
हृदयं
भित्त्वा
शक्तिर्लोहितलक्षणा ।
मद्बाहुपरिघोत्सृष्टा
प्राणानादाय
यास्यति ॥ २९ ॥
इत्येवमुक्त्वा
तां
शक्तिमष्टघण्टां
महास्वनाम् ।
मयेन
मायाविहिताममोघां
शत्रुघातिनीम् ॥ ३० ॥
लक्ष्मणाय
समुद्दिश्य
ज्वलन्तीमिव
तेजसा ।
रावणः
परमक्रुद्धश्चिक्षेप
च
ननाद
च ॥ ३१ ॥
सा
क्षिप्ता
भीमवेगेन
शक्राशनिसमस्वना ।
शक्तिरभ्यपतद्वेगाल्लक्ष्मणं
रणमूर्धनि ॥ ३२ ॥
तामनुव्याहरच्छक्तिमापतन्तीं
स
राघवः ।
स्वस्त्यस्तु
लक्ष्मणायेति
मोघा
भव
हतोद्यमा ॥ ३३ ॥
रावणेन
रणे
शक्तिः
क्रुद्धेनाशीविषोपमा ।
मुक्ताऽऽशूरस्यभीतस्य
लक्ष्मणस्य
ममज्ज
सा ॥ ३४ ॥
न्यपतत्
सा
महावेगा
लक्ष्मणस्य
महोरसि ।
जिह्वेवोरगराजस्य
दीप्यमाना
महाद्युतिः ॥ ३५ ॥
ततो
रावणवेगेन
सुदूरमवगाढया ।
शक्त्या
निर्भिन्नहृदयः
पपात
भुवि
लक्ष्मणः ॥ ३६ ॥
तदवस्थं
समीपस्थो
लक्ष्मणं
प्रेक्ष्य
राघवः ।
भ्रातृस्नेहान्महातेजा
विषण्णहृदयोऽभवत् ॥ ३७ ॥
स
मुहूर्तमनुध्याय
बाष्पव्याकुललोचनः ।
बभूव
संरब्धतरो
युगान्त
इव
पावकः ॥ ३८ ॥
चक्रे
सुतुमुलं
युद्धं
रावणस्य
वधे
धृतः ।
सर्वयत्नेन
महता
लक्ष्मणं
सन्निरीक्ष्य
च ॥ ३९ ॥
स
ददर्श
ततो
रामः
शक्त्या
भिन्नं
महाहवे ।
लक्ष्मणं
रुधिरादिग्धं
सपन्नगमिवाचलम् ॥ ४० ॥
तामपि
प्रहितां
शक्तिं
रावणेन
बलीयसा ।
यत्नतस्ते
हरिश्रेष्ठा
न
शेकुरवमर्दितुम् ॥ ४१ ॥
अर्दिताश्चैव
बाणौघैः
क्षिप्रहस्तेन
रक्षसा ।
सौमित्रिं
सा
विनिर्भिद्य
प्रविष्टा
धरणीतलम् ॥ ४२ ॥
तां
कराभ्यां
परामृश्य
रामः
शक्तिं
भयावहाम् ।
बभञ्ज
समरे
क्रुद्धो
बलवान्
विचकर्ष
च ॥ ४३ ॥
तस्य
निष्कर्षतः
शक्तिं
रावणेन
बलीयसा ।
शराः
सर्वेषु
गात्रेषु
पातिता
मर्मभेदिनः ॥ ४४ ॥
अचिन्तयित्वा
तान्
बाणान्
समाश्लिष्य
च
लक्ष्णमम् ।
अब्रवीच्छ
हनूमन्तं
सुग्रीवं
चैव
राघवः ॥ ४५ ॥
लक्ष्मणं
परिवार्येह
तिष्ठध्वं
वानरोत्तमाः ।
पापात्माऽयं
दशग्रीवो
वध्यतां
पापनिश्चयः ॥ ४६ ॥
काङ्क्षतः
स्तोककस्येव
घर्मान्ते
मेघदर्शनम् ।
अस्मिन्
मुहूर्ते
न
चिरात्
सत्यं
प्रतिशृणोमि
वः ॥ ४७ ॥
अरावणमरामं
वा
जगद्द्रक्ष्यथ
वानराः ।
राज्यनाशं
वने
वासं
दण्डके
परिधावनम् ॥ ४८ ॥
वैदेह्याश्च
परामर्शं
रक्षोभिश्च
समागमम् ।
प्राप्तं
दुःखं
महद्घोरं
क्लेशं
च
निरयोपमम् ॥ ४९ ॥
अद्य
सर्वमहं
त्यक्ष्ये
निहत्वा
रावणं
रणे ।
यदर्थं
वानरं
सैन्यं
समानीतमिदं
मया ॥ ५० ॥
सुग्रीवश्च
कृतो
राज्ये
निहत्वा
वालिनं
रणे ।
यदर्थं
सागरः
क्रान्तः
सेतुर्बद्धश्च
सागरे ॥ ५१ ॥
सोऽयमद्य
रणे
पापश्चक्षुर्विषयमागतः ।
चक्षुर्विषयमागम्य
नायं
जीवितुमर्हति ॥ ५२ ॥
दृष्टिं
दृष्टिविषस्येव
सर्पस्य
मम
रावणः ।
स्वस्थाः
पश्यत
दुर्धर्षा
युद्धं
वानरपुङ्गवाः ॥ ५३ ॥
आसीनाः
पर्वताग्रेषु
ममेदं
रावणस्य
च ।
अद्य
रामस्य
रामत्वं
पश्यन्तु
मम
संयुगे ॥ ५४ ॥
त्रयो
लोकाः
सगन्धर्वाः
सदेवाः
सर्षिचारणाः ।
सदेवाः
कथयिष्यन्ति
यावद्भूमिर्धरिष्यति ॥ ५५ ॥
समागम्य
सदा
लोके
यथा
युद्धं
प्रवर्तितम् ।
एवमुक्त्वा
शितैर्बाणैस्तप्तकाञ्चनभूषणैः ॥ ५६ ॥
आजघान
दशग्रीवं
रणे
रामः
समाहितः ।
अथ
प्रदीप्तैर्नाराचैर्मुसलैश्चापि
रावणः ॥ ५७ ॥
अभ्यवर्षत्तदा
रामं
धाराभिरिव
तोयदः ।
रामरावणमुक्तानामन्योन्यमभिनिघ्नताम् ॥ ५८ ॥
शराणां
च
शराणां
च
बभूव
तुमुलः
स्वनः ।
ते
भिन्नाश्च
विकीर्णाश्च
रामरावणयोः
शराः ॥ ५९ ॥
अन्तरिक्षात्
प्रदीप्ताग्रा
निपेतुर्धरणीतले ।
तयोर्ज्यातलनिर्घोषो
रामरावणयोर्महान् ॥ ६० ॥
त्रासनः
सर्वभूतानां
सम्बभूवाद्भुतोपमः ।
स
कीर्यमाणः
शरजालवृष्टिभिर्महात्मना
दीप्तधनुष्मताऽर्दितः ॥ ६१ ॥
भयात्
प्रदुद्राव
समेत्य
रावणो
यथाऽनिलेनाभिहतो
बलाहकः ॥ ६२ ॥