शक्त्या
विनिहतं
दृष्ट्वा
रावणेन
बलीयसा ।
लक्ष्मणं
समरे
शूरं
रुधिरौघपरिप्लुतम् ॥ १ ॥
स
दत्त्वा
तुमुलं
युद्धं
रावणस्य
दुरात्मनः ।
विसृजन्नेव
बाणौघान्
सुषेणं
वाक्यमब्रवीत् ॥ २ ॥
एष
रावणवीर्येण
लक्ष्मणः
पतितः
क्षितौ ।
सर्पवद्वेष्टते
वीरो
मम
शोकमुदीरयन् ॥ ३ ॥
शोणितार्द्रमिमं
वीरं
प्राणैरिष्टतमं
मम ।
पश्यतो
मम
का
शक्तिर्योद्धुं
पर्याकुलात्मनः ॥ ४ ॥
अयं
स
समरश्लाघी
भ्राता
मे
शुभलक्षणः ।
यदि
पञ्चत्वमापन्नः
प्राणैर्मे
किं
सुखेन
च ॥ ५ ॥
सायका
व्यवसीदन्ति
दृष्टिर्बाष्पवशं
गता ।
अवसीदन्ति
गात्राणि
स्वप्नयाने
नृणामिव ॥ ६ ॥
चिन्ता
मे
वर्धते
तीव्रा
मुमूर्षा
चोपजायते ।
भ्रातरं
निहतं
दृष्ट्वा
रावणेन
दुरात्मना ॥ ७ ॥
राघवो
भ्रातरं
दृष्ट्वा
प्रियं
प्राणं
बहिश्चरम् ।
दुःखेन
महताऽऽविष्टो
ध्यानशोकपरायणः ॥ ८ ॥
परं
विषादमापन्नो
विललापाकुलेन्द्रियः ।
न
हि
युद्धेन
मे
कार्यं
नैव
प्राणैर्न
सीतया ॥ ९ ॥
भ्रातरं
निहतं
दृष्ट्वा
लक्ष्मणं
रणपांसुषु ।
किं
मे
राज्येन
किं
प्राणैर्युद्धे
कार्यं
न
विद्यते ॥ १० ॥
यत्रायं
निहतः
शेते
रणमूर्धनि
लक्ष्मणः ।
देशे
देशे
कलत्राणि
देशे
देशे
च
बान्धवाः ॥ ११ ॥
तं
तु
देशं
न
पश्यामि
यत्र
भ्राता
सहोदरः ।
विवेष्टमानं
करुणमुच्छ्वसन्तं
पुनःपुनः ॥ १२ ॥
राममाश्वासयन्
वीरः
सुषेणो
वाक्यमब्रवीत् ।
न
मृतोऽयं
महाबाहो
लक्ष्मणो
लक्ष्मिवर्धनः ॥ १३ ॥
न
चास्य
विकृतं
वक्त्रं
नापि
श्यावं
न
निष्प्रभम् ।
सुप्रभं
च
प्रसन्नं
च
मुखमस्याभिलक्ष्यते ॥ १४ ॥
पद्मरक्ततलौ
हस्तौ
सुप्रसन्ने
च
लोचने ।
एवं
न
विद्यते
रूपं
गतासूनां
विशाम्पते ॥ १५ ॥
दीर्घायुषस्तु
ये
मर्त्यास्तेषां
तु
मुखमीद्दशम् ।
नायं
प्रेतत्वमापन्नो
लक्ष्मणो
लक्ष्मिवर्धनः ॥ १६ ॥
मा
विषादं
कृथा
वीर
सप्राणोऽयमरिन्दमः ।
आख्यास्यते
प्रसुप्तस्य
स्रस्तगात्रस्य
भूतले ॥ १७ ॥
सोच्छ्वासं
हृदयं
वीर
कम्पमानं
मुहुर्मुहुः ।
एवमुक्त्वा
तु
वाक्यज्ञः
सुषेणो
राघवं
वचः ॥ १८ ॥
हनुमन्तमुवाचेदं
हनुमन्तमभित्वरन् ।
सौम्य
शीघ्रमितो
गत्वा
शैलमोषधिपर्वतम् ॥ १९ ॥
पूर्वं
ते
कथितो
योऽसौ
वीर
जाम्बवता
शुभः ।
दक्षिणे
शिखरे
तस्य
जातमोषधिमानय ॥ २० ॥
विशल्यकरणीं
नाम
विशल्यकरणीं
शुभाम् ।
सवर्णकरणीं
चापि
तथा
सञ्जीवनीमपि ॥ २१ ॥
सन्धानकरणीं
चापि
गत्वा
शीघ्रमिहानय ।
इत्येवमुक्तो
हनुमान्
गत्वा
चौषधिपर्वतम् ॥ २२ ॥
चिन्तामभ्यगमच्छ्रीमानजानंस्तां
महौषधिम् ।
अस्मिन्
हि
शिखरे
जातामोषधीं
तां
सुखावहाम् ॥ २३ ॥
प्रतर्केणावगच्छामि
सुषेणोऽप्येवमब्रवीत् ।
अगृह्य
यदि
गच्छामि
विशल्यकरणीमहम् ॥ २४ ॥
कालात्ययेन
दोषः
स्याद्वैक्लव्यं
च
महद्भवेत् ।
इति
सञ्चिन्त्य
हनुमान्
गत्वा
क्षिप्रं
महाबलः ॥ २५ ॥
आसाद्य
पर्वतश्रेष्ठं
त्रिः
प्रकम्प्य
गिरेः
शिरः ।
फुल्लनानातरुगणं
समुत्पाट्य
महाबलः ॥ २६ ॥
गृहीत्वा
हरिशार्दूलो
हस्ताभ्यां
समतोलयत् ।
स
नीलमिव
जीमूतं
तोयपूर्णं
नभस्थलात् ॥ २७ ॥
आपपात
गृहीत्वा
तु
हनुमान्
शिखरं
गिरेः ।
समागम्य
महावेगः
सन्न्यस्य
शिखरं
गिरेः ॥ २८ ॥
विश्रम्य
किञ्चिद्धनुमान्
सुषेणमिदमब्रवीत् ।
ओषधिं
नावगच्छामि
तामहं
हरिपुङ्गव ॥ २९ ॥
तदिदं
शिखरं
कृत्स्नं
गिरेस्तस्याहृतं
मया ।
एवं
कथयमानं
तं
प्रशस्य
पवनात्मजम् ॥ ३० ॥
सुषेणो
वानरश्रेष्ठो
जग्राहोत्पाट्य
चौषधीम् ।
विस्मितास्तु
बभूवुस्ते
रणे
वानरराक्षसाः ॥ ३१ ॥
दृष्ट्वा
हनुमतः
कर्म
सुरैरपि
सुदुष्करम् ।
ततः
सङ्क्षोदयित्वा
तामोषधीं
वानरोत्तमः ॥ ३२ ॥
लक्ष्मणस्य
ददौ
नस्तः
सुषेणः
सुमहाद्युतेः ।
सशल्यस्तां
समाघ्राय
लक्ष्मणः
परवीरहा ॥ ३३ ॥
विशल्यो
विरुजः
शीघ्रमुदतिष्ठन्महीतलात् ।
तमुत्थितं
ते
हरयो
भूतलात्
प्रेक्ष्य
लक्ष्मणम् ॥ ३४ ॥
साधु
साध्विति
सुप्रीताः
सुषेणं
प्रत्यपूजयन् ।
एह्येहीत्यब्रवीद्रामो
लक्ष्मणं
परवीरहा ॥ ३५ ॥
सस्वजे
स्नेहगाढं
च
बाष्पपार्याकुलेक्षणः ।
अब्रवीच्च
परिष्वज्य
सौमित्रिं
राघवस्तदा ॥ ३६ ॥
दिष्ट्या
त्वां
वीर
पश्यामि
मरणात्
पुनरागतम् ।
न
हि
मे
जीवितेनार्थः
सीतया
चापि
लक्ष्मण ॥ ३७ ॥
को
हि
मे
विजयेनार्थस्त्वयि
पञ्चत्वमागते ।
इत्येवं
वदतस्तस्य
राघवस्य
महात्मनः ॥ ३८ ॥
खिन्नः
शिथिलया
वाचा
लक्ष्मणो
वाक्यमब्रवीत् ।
तां
प्रतिज्ञां
प्रतिज्ञाय
पुरा
सत्यपराक्रम ॥ ३९ ॥
लघुः
कश्चिदिवासत्त्वो
नैवं
वक्तुमिहार्हसि ।
न
हि
प्रतिज्ञां
कुर्वन्ति
वितथां
साधवोऽनघ ॥ ४० ॥
लक्षणं
हि
महत्त्वस्य
प्रतिज्ञापरिपालनम् ।
नैराश्यमुपगन्तुं
ते
तदलं
मत्कृतेऽनघ ॥ ४१ ॥
वधेन
रावणस्याद्य
प्रतिज्ञामनुपालय ।
न
जीवन्
यास्यते
शत्रुस्तव
बाणपथं
गतः ॥ ४२ ॥
नर्दतस्तीक्ष्णदंष्ट्रस्य
सिंहस्येव
महागजः ।
अहं
तु
वधमिच्छामि
शीघ्रमस्य
दुरात्मनः ॥ ४३ ॥
यावदस्तं
न
यात्येष
कृतकर्मा
दिवाकरः ।
यदि
वधमिच्छसि
रावणस्य
सङ्ख्ये
यदि
च
कृतां
त्वमिहेच्छसि
प्रतिज्ञाम् ॥ ४४ ॥
यदि
तव
राजवरात्मजाभिलाषः
कुरु
च
वचो
मम
शीघ्रमद्यवीर ॥ ४५ ॥