स
तेन
तु
तथा
क्रोधात्
काकुत्स्थेनार्दितो
रणे ।
रावणः
समरश्लाघी
महाक्रोधमुपागमत् ॥ १ ॥
स
दीप्तनयनो
रोषाच्चापमायम्य
वीर्यवान् ।
अभ्यर्दयत्
सुसङ्क्रुद्धो
राघवं
परमाहवे ॥ २ ॥
बाणधारासहस्रैस्तैः
स
तोयद
इवाम्बरात् ।
राघवं
रावणो
बाणैस्तटाकमिव
पूरयत् ॥ ३ ॥
पूरितः
शरजालेन
धनुर्मुक्तेन
संयुगे ।
महागिरिरिवाकम्प्यः
काकुत्स्थो
न
प्रकम्पते ॥ ४ ॥
स
शरैः
शरजालानि
वारयन्
समरे
स्थितः ।
गभस्तीनिव
सूर्यस्य
प्रतिजग्राह
वीर्यवान् ॥ ५ ॥
ततः
शरसहस्राणि
क्षिप्रहस्तो
निशाचरः ।
निजघानोरसि
क्रुद्धो
राघवस्य
महात्मनः ॥ ६ ॥
स
शोणित
समादिग्धः
समरे
लक्ष्मणाग्रजः ।
दृष्टः
फुल्ल
इवारण्ये
सुमहान्
किंशुकद्रुमः ॥ ७ ॥
शराभिघातसंरब्धः
सोऽपि
जग्राह
सायकान् ।
काकुत्स्थः
सुमहातेजा
युगान्तादित्यतेजसः ॥ ८ ॥
ततोऽयोन्यं
सुसंरब्धावुभौ
तौ
रामरावणौ ।
शरान्धकारे
समरे
नोपालक्षयतां
तदा ॥ ९ ॥
ततः
क्रोधसमाविष्टो
रामो
दशरथात्मजः ।
उवाच
रावणं
वीरः
प्रहस्य
परुषं
वचः ॥ १० ॥
मम
भार्या
जनस्थानादज्ञानाद्राक्षसाधम ।
हृता
ते
विवशा
यस्मात्तस्मात्त्वं
नासि
वीर्यवान् ॥ ११ ॥
मया
विरहितां
दीनां
वर्तमानां
महावने ।
वैदेहीं
प्रसभं
हृत्वा
शूरोऽहमिति
मन्यसे ॥ १२ ॥
स्त्रीषु
शूर
विनाथासु
परदाराभिमर्शक ।
कृत्वा
कापुरुषं
कर्म
शूरोऽहमिति
मन्यसे ॥ १३ ॥
भिन्नमर्याद
निर्लज्ज
चारित्रेष्वनवस्थित ।
दर्पान्मृत्युमुपादाय
शूरोऽहमिति
मन्यसे ॥ १४ ॥
शूरेण
धनदभ्रात्रा
बलैः
समुदितेन
च ।
श्लाघनीयं
यशस्यं
च
कृतं
कर्म
महत्त्वया ॥ १५ ॥
उत्सेकेनाभिपन्नस्य
गर्हितस्याहितस्य
च ।
कर्मणः
प्राप्नुहीदानीं
तस्याद्य
सुमहत्
फलम् ॥ १६ ॥
शूरोऽहमिति
चात्मानमवगच्छसि
दुर्मते ।
नैव
लज्जाऽस्ति
ते
सीतां
चोरवद्
व्यपकर्षतः ॥ १७ ॥
यदि
मत्सन्निधौ
सीता
धर्षिता
स्यात्त्वया
बलात् ।
भ्रातरं
तु
खरं
पश्येस्तदा
मत्सायकैर्हतः ॥ १८ ॥
दिष्ट्याऽसि
मम
दुष्टात्मंश्चक्षुर्विषयमागतः ।
अद्य
त्वां
सायकैस्तीक्ष्णैर्नयामि
यमसादनम् ॥ १९ ॥
अद्य
ते
मच्छरैश्छिन्नं
शिरो
ज्वलितकुण्डलम् ।
क्रव्यादा
व्यपकर्षन्तु
विकीर्णं
रणपांसुषु ॥ २० ॥
निपत्योरसि
गृध्रास्ते
क्षितौ
क्षिप्तस्य
रावण ।
पिबन्तु
रुधिरं
तर्षाच्छरशल्यान्तरोत्थितम् ॥ २१ ॥
अद्य
मद्बाणभिन्नस्य
गतासोः
पतितस्य
ते ।
कर्षन्त्वन्त्राणि
पतगा
गरुत्मन्त
इवोरगान् ॥ २२ ॥
इत्येवं
संवदन्
वीरो
रामः
शत्रुनिबर्हणः ।
राक्षसेन्द्रं
समीपस्थं
शरवर्षैरवाकिरत् ॥ २३ ॥
बभूव
द्विगुणं
वीर्यं
बलं
हर्षश्च
संयुगे ।
रामस्यास्त्रबलं
चैव
शत्रोर्निधनकाङ्क्षिणः ॥ २४ ॥
प्रादुर्बभूवुरस्त्राणि
सर्वाणि
विदितात्मनः ।
प्रहर्षाच्च
महातेजाः
शीघ्रहस्ततरोऽभवत् ॥ २५ ॥
शुभान्येतानि
चिह्नानि
विज्ञायात्मगतानि
सः ।
भूय
एवार्दयद्रामो
रावणं
राक्षसान्तकृत् ॥ २६ ॥
हरीणां
चाश्मनिकरैः
शरवर्षैश्च
राघवात् ।
हन्यमानो
दशग्रीवो
विघूर्णहृदयोऽभवत् ॥ २७ ॥
यदा
च
शस्त्रं
नारेभे
न
व्यकर्षच्छरासनम् ।
नास्य
प्रत्यकरोद्वीर्यं
विक्लेवेनान्तरात्मना ॥ २८ ॥
क्षिप्ताश्चापि
शरास्तेन
शस्त्राणि
विविधानि
च ।
न
रणार्थाय
वर्तन्ते
मृत्युकालेऽभिवर्ततः ॥ २९ ॥
सूतस्तु
रथनेताऽस्य
तदवस्थं
समीक्ष्य
तम् ।
शनैर्युद्धादसम्भ्रान्तो
रथं
तस्यापवाहयत् ॥ ३० ॥