अथ
संस्मारयामास
राघवं
मातलिस्तदा ।
अजानन्निव
किं
वीर
त्वमेनमनुवर्तसे ॥ १ ॥
विसृजास्मै
वधाय
त्वमस्त्रं
पैतामहं
प्रभो ।
विनाशकालः
कथितो
यः
सुरैः
सोऽद्य
वर्तत ॥ २ ॥
ततः
संस्मारितो
रामस्तेन
वाक्येन
मातलेः ।
जग्राह
सशरं
दीप्तं
निश्वसन्तमिवोरगम् ॥ ३ ॥
यमस्मै
प्रथमं
प्रादादगस्त्यो
भगवानृषिः ।
ब्रह्मदत्तं
महाबाणममोघं
युधि
वीर्यवान् ॥ ४ ॥
ब्रह्मणा
निर्मितं
पूर्वमिन्द्रार्थममितौजसा ।
दत्तं
सुरपतेः
पूर्वं
त्रिलोकजयकाङ्क्षिणः ॥ ५ ॥
यस्य
वाजेषु
पवनः
फले
पावकभास्करौ ।
शरीरमाकाशमयं
गौरवे
मेरुमन्दरौ ॥ ६ ॥
जाज्वल्यमानं
वपुषा
सुपुङ्खं
हेमभूषितम् ।
तेजसा
सर्वभूतानां
कृतं
भास्करवर्चसम् ॥ ७ ॥
सधूममिव
कालाग्निं
दीप्तमाशीविषं
यथा ।
परनागाश्ववृन्दानां
भेदनं
क्षिप्रकारिणम् ॥ ८ ॥
द्वाराणां
परिघाणां
च
गिरीणामपि
भेदनम् ।
नानारुधिरसिक्ताङ्गं
मेदोदिग्धं
सुदारुणम् ॥ ९ ॥
वज्रसारं
महानादं
नानासमितिदारणम् ।
सर्ववित्रासनं
भीमं
श्वसन्तमिव
पन्नगम् ॥ १० ॥
कङ्कगृध्रवलानां
च
गोमायुगणरक्षसाम् ।
नित्यं
भक्ष्यप्रदं
युद्धे
यमरूपं
भयावहम् ॥ ११ ॥
नन्दनं
वानरेन्द्राणां
रक्षसामवसादनम् ।
वाजितं
विविधैर्वाजैश्चारुचित्रैर्गरुत्मतः ॥ १२ ॥
तमुत्तमेषुं
लोकानामिक्ष्वाकुभयनाशनम् ।
द्विषतां
कीर्तिहरणं
प्रहर्षकरमात्मनः ॥ १३ ॥
अभिमन्त्र्य
ततो
रामस्तं
महेषुं
महाबलः ।
वेदप्रोक्तेन
विधिना
सन्दधे
कार्मुके
बली ॥ १४ ॥
तस्मिन्
सन्धीयमाने
तु
राघवेण
शरोत्तमे ।
सर्वभूतानि
वित्रेसुश्चचाल
च
वसुन्धरा ॥ १५ ॥
स
रावणाय
सङ्क्रुद्धो
भृशमायम्य
कार्मुकम् ।
चिक्षेप
परमायत्तस्तं
शरं
मर्मघातिनम् ॥ १६ ॥
स
वज्र
इव
दुर्धर्षो
वज्रिबाहुविसर्जितः ।
कृतान्त
इव
चावार्यो
न्यपतद्रावणोरसि ॥ १७ ॥
स
विसृष्टो
महावेगः
शरीरान्तकरः
शरः ।
बिभेद
हृदयं
तस्य
रावणस्य
दुरात्मनः ॥ १८ ॥
रुधिराक्तः
स
वेगेन
जीवितान्तकरः
शरः ।
रावणस्य
हरन्
प्राणान्
विवेश
धरणीतलम् ॥ १९ ॥
स
शरो
रावणं
हत्वा
रुधिरार्दीकृतच्छविः ।
कृतकर्मा
निभृतवत्
स्वतूणीं
पुनरागमत् ॥ २० ॥
तस्य
हस्ताद्धतस्याशु
कार्मुकं
तत्
ससायकम् ।
निपपात
सह
प्राणैर्भ्रश्यमानस्य
जीवितात् ॥ २१ ॥
गतासुर्भीमवेगस्तु
नैर्ऋतेन्द्रो
महाद्युतिः ।
पपात
स्यन्दनाद्भूमौ
वृत्रो
वज्रहतो
यथा ॥ २२ ॥
तं
दृष्ट्वा
पतितं
भूमौ
हतशेषा
निशाचराः ।
हतनाथा
भयत्रस्ताः
सर्वतः
सम्प्रदुद्रुवुः ॥ २३ ॥
नर्दन्तश्चाभिपेतुस्तान्
वानरा
द्रुमयोधिनः ।
अर्दिता
वानरैर्हृष्टैर्लङ्कामभ्यपतन्
भयात् ॥ २४ ॥
गताश्रयत्वात्
करुणैर्बाष्पप्रस्रवणैर्मुखैः ।
ततो
विनेदुः
संहृष्टा
वानरा
जितकाशिनः ॥ २५ ॥
वदन्तो
राघवजयं
रावणस्य
च
तद्वधम् ।
अथान्तरिक्षे
व्यनदत्
सौम्यस्त्रिदशदुन्दुभिः ॥ २६ ॥
दिव्यगन्धवहस्तत्र
मारुतः
ससुखो
ववौ ।
निपपातान्तरिक्षाच्च
पुष्पवृष्टिस्तदा
भुवि ॥ २७ ॥
किरन्ती
राघवरथं
दुरवापा
मनोरमा ।
राघवस्तवसंयुक्ता
गगनेऽपि
च
शुश्रुवे ॥ २८ ॥
साधु
साध्विति
वागग्र्या
दैवतानां
महात्मनाम् ।
आविवेश
महाहर्षो
देवानां
चारणैः
सह ॥ २९ ॥
रावणे
निहते
रौद्रे
सर्वलोकभयङ्करे ।
ततः
सकामं
सुग्रीवमङ्गदं
च
महाबलम् ॥ ३० ॥
चकार
राघवः
प्रीतो
हत्वा
राक्षसपुङ्गवम् ।
ततः
प्रजग्मुः
प्रशमं
मरुद्गणा
दिशः
प्रसेदुर्विमलं
नभोऽबवत् ॥ ३१ ॥
मही
चकम्पे
न
हि
मारुतो
ववौ
स्थिरप्रभश्चाप्यभवद्दिवाकरः ।
ततस्तु
सुग्रीवविभीषणादयः
सुहृद्विशेषाः
सहलक्ष्मणास्तदा ॥ ३२ ॥
समेत्य
हृष्टा
विजयेन
राघवं
रणेऽभिरामं
विधिना
ह्यपूजयन् ।
स
तु
निहतरिपुः
स्थिरप्रतिज्ञः
स्वजनबलाभिवृतो
रणे
रराज ॥ ३३ ॥
रघुकुलनृपनन्दनो
महौजास्त्रिदशगणैरभिसंवृतो
यथेन्द्रः ॥ ३४ ॥