भ्रातरं
निहतं
दृष्ट्वा
शयानं
रामनिर्जितम् ।
शोकवेगपरीतात्मा
विललाप
विभीषणः ॥ १ ॥
वीर
विक्रान्त
विख्यात
विनीत
नयकोविद ।
महार्हशयनोपेत
किं
शेषेऽद्य
हतो
भुवि ॥ २ ॥
विक्षिप्य
दीर्घौ
निश्चेष्टौ
भुजावङ्गदभूषितौ ।
मुकुटेनापवृत्तेन
भास्कराकारवर्चसा ॥ ३ ॥
तदिदं
वीर
सम्प्राप्तं
मया
पूर्वं
समीरितम् ।
काममोहपरीतस्य
यत्ते
न
रुचितं
वचः ॥ ४ ॥
न
कुम्भकर्णोऽतिरथो
नातिकायो
नरान्तकः ।
न
स्वयं
त्वममन्येथास्तस्योदर्कोऽयमागतः ॥ ५ ॥
गतः
सेतुः
सुनीतानां
गतो
धर्मस्य
विग्रहः ।
गतः
सत्त्वस्य
सङ्क्षेपः
प्रस्तावानां
गतिर्गता ॥ ६ ॥
आदित्यः
पतितो
भूमौ
मग्नस्तमसि
चन्द्रमाः ।
चित्रभानुः
प्रशान्तार्चिर्व्यवसायो
निरुद्यमः ॥ ७ ॥
अस्मिन्निपतिते
भूमौ
वीरे
शस्त्रभृतां
वरे ।
किं
शेषमिव
लोकस्य
हतवीरस्य
साम्प्रतम् ॥ ८ ॥
रणे
राक्षसशार्दूले
प्रसुप्त
इव
पांसुषु ।
धृतिप्रवालः
प्रसहाग्र्यपुष्पस्तपोबलः
शौर्यनिबद्धमूलः ॥ ९ ॥
रणे
महान्
राक्षसराजवृक्षः
सम्मर्दितो
राघवमारुतेन ।
तेजोविषाणः
कुलवंशवंशः
कोपप्रसादापरगात्रहस्तः ॥ १० ॥
इक्ष्वाकुसिंहावगृहीतदेहः
सुप्तः
क्षितौ
रावणगन्धहस्ती ।
पराक्रमोत्साहविजृम्भितार्चिर्निश्वासधूमः
स्वबलप्रतापः ॥ ११ ॥
प्रतापवान्
संयति
राक्षसाग्निर्निर्वापितो
रामपयोधरेण ।
सिंहर्क्षलाङ्गूलककुद्विषाणः
पराभिजिद्गन्धनगन्धहस्ती ॥ १२ ॥
रक्षोवृषश्चापलकर्णचक्षुः
क्षितीश्वरव्याघ्रहतोऽवसन्नः ।
वदन्तं
हेतुमद्वाक्यं
परिमृष्टार्थनिश्चयम् ॥ १३ ॥
रामः
शोकसमाविष्टमित्युवाच
विभीषणम् ।
नायं
विनष्टो
निश्चेष्टः
समरे
चण्डविक्रमः ॥ १४ ॥
अत्युन्नतमहोत्साहः
पतितोऽयमशङ्कितः ।
नैवं
विनष्टाः
शोच्यन्ते
क्षत्रधर्ममवस्थिताः ॥ १५ ॥
वृद्धिमाशंसमाना
ये
निपतन्ति
रणाजिरे ।
येन
सेन्द्रास्त्रयो
लोकास्त्रासिता
युधि
धीमता ॥ १६ ॥
तस्मिन्
कालसमायुक्ते
न
कालः
परिशोचितुम् ।
नैकान्तविजयो
युद्धे
भूतपूर्वः
कदाचन ॥ १७ ॥
परैर्वा
हन्यते
वीरः
परान्
वा
हन्ति
संयुगे ।
इयं
हि
पूर्वैः
सन्दिष्टा
गतिः
क्षत्रियसम्मता ॥ १८ ॥
क्षत्रियो
निहतः
सङ्ख्ये
न
शोच्य
इति
निश्चय ।
तदेवं
निश्चयं
दृष्ट्वा
तत्त्वमास्थाय
विज्वरः ॥ १९ ॥
यदिहानन्तरं
कार्यं
कल्प्यं
तदनुचिन्तय ।
तमुक्तवाक्यं
विक्रान्तं
राजपुत्रं
विभीषणः ॥ २० ॥
उवाच
शोकसन्तप्तो
भ्रातुर्हितमनन्तरम् ।
योऽयं
विमर्देषु
न
भग्नपूर्वः
सुरैः
समेतैः
सह
वासवेन ॥ २१ ॥
भवन्तमासाद्य
रणे
विभग्नो
वेलामिवासाद्य
यथा
समुद्रः ।
अनेन
दत्तानि
सुपूजितानि
भुक्ताश्च
भोगा
निभृताश्च
भृत्याः ॥ २२ ॥
धनानि
मित्रेषु
समर्पितानि
वैराण्यमित्रेषु
च
यापितानि ।
एषोहिताग्निश्च
महातपाश्च
वेदान्तगः
कर्मसु
चाग्र्यवीर्यः ॥ २३ ॥
एतस्य
यत्
प्रेतगतस्य
कृत्यं
तत्
कर्तुमिच्छामि
तव
प्रसादात् ।
स
तस्य
वाक्यैः
करुणैर्महात्मा
सम्बोधितः
साधु
विभीषणेन ॥ २४ ॥
आज्ञापयामास
नरेन्द्रसूनुः
स्वर्गीयमाधानमदीनसत्त्वः ।
मरणान्तानि
वैराणि
निर्वृत्तं
नः
प्रयोजनम् ॥ २५ ॥
क्रियतामस्य
संस्कारो
ममाप्येष
यथा
तव ॥ २६ ॥