रावणं
निहतं
श्रुत्वा
राघवेण
महात्मना ।
अन्तःपुराद्विनिष्पेतू
राक्षस्यः
शोककर्शिताः ॥ १ ॥
वार्यमाणाः
सुबहुशो
वेष्टन्त्यः
क्षितिपांसुषु ।
विमुक्तकेश्यो
दुःखार्ता
गावो
वत्सहता
इव ॥ २ ॥
उत्तरेण
विनिष्क्रम्य
द्वारेण
सह
राक्षसैः ।
प्रविश्यायो
धनं
घोरं
विचिन्वन्त्यो
हतं
पतिम् ॥ ३ ॥
राजपुत्रेति
वादिन्यो
हा
नाथेति
च
सर्वशः ।
परिपेतुः
कबन्धाङ्कां
महीं
शोणितकर्दमाम् ॥ ४ ॥
ता
बाष्पपरिपूर्णाक्ष्यो
भर्तृशोकपराजिताः ।
करेण्व
इव
नर्दन्त्यो
विनेदुर्हतयूथपाः ॥ ५ ॥
ददृशुस्तं
महावीर्यं
महाकायं
महाद्युतिम् ।
रावणं
निहतं
भूमौ
नीलाञ्जनचयोपमम् ॥ ६ ॥
ताः
पतिं
सहसा
दृष्ट्वा
शयानं
रणपांसुषु ।
निपेतुस्तस्य
गात्रेषु
च्छिन्ना
वनलता
इव ॥ ७ ॥
बहुमानात्
परिष्वज्य
काचिदेनं
रुरोद
ह ।
चरणौ
काचिदालिङ्ग्य
काचित्
कण्ठेऽवलम्ब्य
च ॥ ८ ॥
उद्धृत्य
च
भुजौ
काचिद्भूमौ
स्म
परिवर्तते ।
हतस्य
वदनं
दृष्ट्वा
काचिन्मोहमुपागमत् ॥ ९ ॥
काचिदङ्के
शिरः
कृत्वा
रुरोद
मुखमीक्षती ।
स्नापयन्ती
मुखं
बाष्पैस्तुषारैरिव
पङ्कजम् ॥ १० ॥
एवमार्ताः
पतिं
दृष्ट्वा
रावणं
निहतं
भुवि ।
चुक्रुशुर्बहुधा
शोकाद्भूयस्ताः
पर्यदेवयन् ॥ ११ ॥
येन
वित्रासितः
शक्रो
येन
वित्रासितो
यमः ।
येन
वैश्रवणो
राजा
पुष्पकेण
वियोजितः ॥ १२ ॥
गन्धर्वाणामृषीणां
च
सुराणां
च
महात्मनाम् ।
भयं
येन
महद्दत्तं
सोऽयं
शेते
रणे
हतः ॥ १३ ॥
असुरेभ्यः
सुरेभ्यो
वा
पन्नगेभ्योऽपि
वा
तथा ।
न
भयं
यो
विजानाति
तस्येदं
मानुषाद्भयम् ॥ १४ ॥
अवध्यो
देवतानां
यस्तथा
दानवरक्षसाम् ।
हतः
सोऽयं
रणे
शेते
मानुषेण
पदातिना ॥ १५ ॥
यो
न
शक्यः
सुरैर्हन्तुं
न
यक्षैर्नासुरैस्तथा ।
सोऽयं
कश्चिदिवासत्त्वो
मृत्युं
मर्त्येन
लम्भितः ॥ १६ ॥
एवं
वदन्त्यो
बहुधा
रुरुदुस्तस्य
ताः
स्त्रियः ।
भूय
एव
च
दुःखार्ता
विलेपुश्च
पुनःपुनः ॥ १७ ॥
अशृण्वता
च
सुहृदां
सततं
हितवादिनाम् ।
मरणायाहृता
सीता
घातिताश्च
निशाचराः ॥ १८ ॥
ब्रुवाणोऽपि
हितं
वाक्यमिष्टो
भ्राता
विबीषणः ।
धृष्टं
परुषितो
मोहात्त्वयाऽऽत्मवधकाङ्क्षिणा ॥ १९ ॥
यदि
निर्यातिता
ते
स्यात्
सीता
रामाय
मैथिली ।
न
नः
स्याद्
व्यसनं
घोरमिदं
मूलहरं
महत् ॥ २० ॥
वृत्तकामो
भवेद्भ्राता
रामो
मित्रकुलं
भवेत् ।
वयं
चाविधवाः
सर्वाः
सकामा
न
च
शत्रवः ॥ २१ ॥
त्वया
पुनर्नृशंसेन
सीतां
संरुन्धता
बलात् ।
राक्षसा
वयमात्मा
च
त्रयं
तुल्यं
निपातितम् ॥ २२ ॥
न
कामकारः
कामं
वा
तव
राक्षसपुङ्गव ।
दैवं
चेष्टयते
सर्वं
हतं
दैवेन
हन्यते ॥ २३ ॥
वानराणां
विनाशोऽयं
रक्षसां
च
महाहवे ।
तव
चैव
महाबाहो
दैवयोगादुपागतः ॥ २४ ॥
नैवार्थेन
न
कामेन
विक्रमेण
न
चाज्ञया ।
शक्या
दैवगतिर्लोके
निवर्तयितुमुद्यता ॥ २५ ॥
विलेपुरेवं
दीनास्ता
राक्षसाधिपयोषितः ।
कुरर्य
इव
दुःखार्ता
बाष्पपर्याकुलेक्षणाः ॥ २६ ॥