इति
प्रतिसमादिष्टो
हनुमान्
मारुतात्मजः ।
प्रविवेश
पुरीं
लङ्कां
पूज्यमानो
निशाचरैः ॥ १ ॥
ददर्श
मृजया
हीनां
सातङ्कामिव
रोहिणीम् ।
वृक्षमूले
निरानन्दां
राक्षसीभिः
समावृताम् ॥ २ ॥
निभृतः
प्रणतः
प्रह्वः
सोऽभिगम्याभिवाद्य
च ।
दृष्ट्वा
तमागतं
देवी
हनुमन्तं
महाबलम् ॥ ३ ॥
तूष्णीमास्त
तदा
दृष्ट्वा
स्मृत्वा
प्रमुदिताऽभवत् ।
सौम्यं
दृष्ट्वा
मुखं
तस्या
हनुमान्
प्लवगोत्तमः ॥ ४ ॥
रामस्य
वचनं
सर्वमाख्यातुमुपचक्रमे ।
वैदेहि
कुशली
रामः
सहसुग्रीवलक्ष्मणः ॥ ५ ॥
विभीषणसहायश्च
हरीणां
सहितो
बलैः ।
कुशलं
चाहु
सिद्धार्थो
हतशत्रुररिन्दमः ॥ ६ ॥
विभीषणसहायेन
रामेण
हरिभिः
सह ।
निहतो
रावणो
देवि
लक्ष्मणस्य
नयेन
च ॥ ७ ॥
पृष्ट्वा
तु
कुशलं
रामो
वीरस्त्वां
रघुनन्दनः ।
अब्रवीत्
परमप्रीतः
कृतार्थेनान्तरात्मना ॥ ८ ॥
प्रियमाख्यामि
ते
देवि
त्वां
तु
भूयः
सभाजये ।
दिष्ट्या
जीवसि
धर्मज्ञे
जयेन
मम
संयुगे ॥ ९ ॥
लब्धो
नो
विजयः
सीते
स्वस्था
भव
गतव्यथा ।
रावणश्च
हतः
शत्रुर्लङ्का
चेयं
वशे
स्थिता ॥ १० ॥
मया
ह्यलब्धनिद्रेण
दृढेन
तव
निर्जये ।
प्रतिज्ञैषा
विनिस्तीर्णा
बद्ध्वा
सेतुं
महोदधौ ॥ ११ ॥
सम्भ्रमश्च
न
गन्तव्यो
वर्तन्त्या
रावणालये ।
विभीषणविधेयं
हि
लङ्कैश्वर्यमिदं
कृतम् ॥ १२ ॥
तदाश्वसिहि
विश्वस्ता
स्वगृहे
परिवर्तसे ।
अयं
चाभ्येति
संहृष्टस्त्वद्दर्शनसमुत्सुकः ॥ १३ ॥
एवमुक्ता
समुत्पत्य
सीता
शशिनिभानना ।
प्रहर्षेणावरुद्धा
सा
व्याजहार
न
किञ्चन ॥ १४ ॥
अब्रवीच्च
हरिश्रेष्ठः
सीतामप्रतिजल्पतीम् ।
किं
नु
चिन्तयसे
देवि
किं
नु
मां
नाभिभाषसे ॥ १५ ॥
एवमुक्ता
हनुमता
सीता
धर्मे
व्यवस्थिता ।
अब्रवीत्
परमप्रीता
हर्षगद्गदया
गिरा ॥ १६ ॥
प्रियमेतदुपश्रुत्य
भर्तुर्विजयसंश्रितम् ।
प्रहर्षवशमापन्ना
निर्वाक्याऽस्मि
क्षणान्तरम् ॥ १७ ॥
न
हि
पश्यामि
सदृशं
चिन्तयन्ती
प्लवङ्गम ।
मत्प्रियाख्यानाकस्येह
तव
प्रत्यभिनन्दनम् ॥ १८ ॥
न
हि
पश्यामि
तत्
सौम्य
पृथिव्यामपि
वानर ।
सदृशं
मत्प्रियाख्याने
तव
दातुं
भवेत्
समम् ॥ १९ ॥
हिरण्यं
वा
सुवर्णं
वा
रत्नानि
विविधानि
च ।
राज्यं
वा
त्रिषु
लोकेषु
नैतदर्हति
भाषितुम् ॥ २० ॥
एवमुक्तस्तु
वैदेह्या
प्रत्युवाच
प्लवङ्गमः ।
गृहीतप्राञ्जलिर्वाक्यं
सीतायाः
प्रमुखे
स्थितः ॥ २१ ॥
भर्तुः
प्रियहिते
युक्ते
भर्तुर्विजयकाङ्क्षिणि ।
स्निग्धमेवंविधं
वाक्यं
त्वमेवार्हसि
भाषितुम् ॥ २२ ॥
तवैतद्वचनं
सौम्ये
सारवत्
स्निग्धमेव
च ।
रत्नौघाद्विविधाच्चापि
देवराज्याद्विशिष्यते ॥ २३ ॥
अर्थतश्च
मया
प्राप्ता
देवराज्यादयो
गुणाः ।
हतशत्रुं
विजयिनं
रामं
पश्यामि
सुस्थितम् ॥ २४ ॥
तस्य
तद्वचनं
श्रुत्वा
मैथिली
जनकात्मजा ।
ततः
शुभतरं
वाक्यमुवाच
पवनात्मजम् ॥ २५ ॥
अतिलक्षणसम्पन्नं
माधुर्यगुणभूषितम् ।
बुद्ध्या
ह्यष्टाङ्गया
युक्तं
त्वमेवार्हसि
भाषितुम् ॥ २६ ॥
श्लाघनीयोऽनिलस्य
त्वं
पुत्रः
परमधार्मिकः ।
बलं
शौर्यं
श्रुतं
सत्त्वं
विक्रमो
दाक्ष्यमुत्तमम् ॥ २७ ॥
तेजः
क्षमाधृतिर्धैर्यं
विनीतत्वं
न
संशयः ।
एते
चान्ये
च
बहवो
गुणास्त्वय्येव
शोभनाः ॥ २८ ॥
अथोवाच
पुनः
सीतामसम्भ्रान्तो
विनीतवत् ।
प्रगृहीताञ्जलिर्हर्षात्
सीतायाः
प्रमुखे
स्थितः ॥ २९ ॥
इमास्तु
खलु
राक्षस्यो
यदि
त्वमनुमन्यसे ।
हन्तुमिच्छाम्यहं
सर्वा
याभिस्त्वं
तर्जिता
पुरा ॥ ३० ॥
क्लिश्यन्तीं
पतिदेवां
त्वामशोकवनिकां
गताम् ।
घोररूपसमाचाराः
क्रूराः
क्रूरतरेक्षणाः ॥ ३१ ॥
राक्षस्यो
दारुणकथा
वरमेतत्
प्रयच्छ
मे ।
मुष्टिभिः
पाणिभिः
सर्वाश्चरणैश्चैव
शोभने ॥ ३२ ॥
इच्छामि
विविधैर्घातैर्हन्तुमेताः
सुदारुणाः ।
घातैर्जानुप्रहारैश्च
दशनानां
च
पातनैः ॥ ३३ ॥
भक्षणैः
कर्णनासानां
केशानां
लुञ्चनैस्तथा ।
नखैः
शुष्कमुखीभिश्च
दारणैर्लङ्घनैर्हतैः ॥ ३४ ॥
निपात्य
हन्तुमिच्छामि
तव
विप्रियकारिणीः ।
एवंप्रकारैर्बहुभिर्विप्रकारैर्यशस्विनि ॥ ३५ ॥
हन्तुमिच्छाम्यहं
देवि
तवेमाः
कृतकिल्बिषाः ।
एवमुक्ता
हनुमता
वैदेही
जनकात्मजा ॥ ३६ ॥
उवाच
धर्मसहितं
हनुमन्तं
यशस्विनी ।
राजसंश्रयवश्यानां
कुर्वन्तीनां
पराज्ञया ॥ ३७ ॥
विधेयानां
च
दासीनां
कः
कुप्येद्वानरोत्तम ।
भाग्यवैषम्ययोगेन
पुरादुश्चरितेन
च ॥ ३८ ॥
मयैतत्
प्राप्यते
सर्वं
स्वकृतं
ह्युपभुज्यते ।
प्राप्तव्यं
तु
दशायोगान्मयैतदिति
निश्चितम् ॥ ३९ ॥
दासीनां
रावणस्याहं
मर्षयामीह
दुर्बला ।
आज्ञप्ता
रावणेनैता
राक्षस्यो
मामतर्जयन् ॥ ४० ॥
हते
तस्मिन्न
कुर्युर्हि
तर्जनं
वानरोत्तम ।
अयं
व्याघ्रसमीपे
तु
पुराणो
धर्मसंस्थितः ॥ ४१ ॥
ऋक्षेण
गीतः
श्लोको
मे
तन्निबोध
प्लवङ्गम ।
न
परः
पापमादत्ते
परेषां
पापकर्मणाम् ॥ ४२ ॥
समयो
रक्षितव्यस्तु
सन्तश्चारित्रभूषणाः ।
पापानां
वा
शुभानां
वा
वधार्हाणां
प्लवङ्गम ॥ ४३ ॥
कार्यं
करुणमार्येण
न
कश्चिन्नापराध्यति ।
लोकहिंसाविहाराणां
रक्षसां
कामरूपिणाम् ॥ ४४ ॥
कुर्वतामपि
पापानि
नैव
कार्यमशोभनम् ।
एवमुक्तस्तु
हनुमान्
सीतया
वाक्यकोविदः ॥ ४५ ॥
प्रत्युवाच
ततः
सीतां
रामपत्नीं
यशस्विनीम् ।
युक्ता
रामस्य
भवती
धर्मपत्नी
यशस्विनी ॥ ४६ ॥
प्रतिसन्दिश
मां
देवि
गमिष्ये
यत्र
राघवः ।
एवमुक्ता
हनुमता
वैदेही
जनकात्मजा ॥ ४७ ॥
अब्रवीद्द्रष्टुमिच्छामि
भर्तारं
वानरोत्तम ।
तस्यास्तद्वनं
श्रुत्वा
हनुमान्
मारुतात्मजः ॥ ४८ ॥
हर्षयन्
मैथिलीं
वाक्यमुवाचेदं
महाद्युतिः ।
पूर्णचन्द्राननं
रामं
द्रक्ष्यस्यार्ये
सलक्ष्मणम् ॥ ४९ ॥
स्थिरमित्रं
हतामित्रं
शचीव
त्रिदशेश्वरम् ।
तामेवमुक्त्वा
राजन्तीं
सीतां
साक्षादिव
श्रियम् ॥ ५० ॥
आजगाम
महावेगो
हनुमान्
यत्र
राघवः ॥ ५१ ॥