तां
तु
पार्श्वस्थितां
प्रह्वां
रामः
सम्प्रेक्ष्य
मैथिलीम् ।
हृदयान्तर्गतक्रोधो
व्याहर्तुमुपचक्रमे ॥ १ ॥
एषाऽसि
निर्जिता
भद्रे
शत्रुं
जित्वा
मया
रणे ।
पौरुषाद्यदनुष्ठेयं
तदेतदुपपादितम् ॥ २ ॥
गतोऽस्म्यन्तममर्षस्य
धर्षणा
सम्प्रमार्जिता ।
अवमानश्च
शत्रुश्च
मया
युगपदुद्धृतौ ॥ ३ ॥
अद्य
मे
पौरुषं
दृष्टमद्य
मे
सफलः
श्रमः ।
अद्य
तीर्णप्रतिज्ञत्वात्
प्रभवामीह
चात्मनः ॥ ४ ॥
या
त्वं
विरहिता
नीता
चलचित्तेन
रक्षसा ।
दैवसम्पादितो
दोषो
मानुषेण
मया
जितः ॥ ५ ॥
सम्प्राप्तमवमानं
यस्तेजसा
न
प्रमार्जति ।
कस्तस्य
पुरुषार्थोऽस्ति
पुरुषस्याल्पतेजसः ॥ ६ ॥
लङ्घनं
च
समुद्रस्य
लङ्कायाश्चावमर्दनम् ।
सफलं
तस्य
तच्छ्लाध्यं
महत्
कर्म
हनूमतः ॥ ७ ॥
युद्धे
विक्रमतश्चैव
हितं
मन्त्रयतश्च
मे ।
सुग्रीवस्य
ससैन्यस्य
सफलोऽद्य
परिश्रमः ॥ ८ ॥
निर्गुणं
भ्रातरं
त्यक्त्वा
यो
मां
स्वयमुपस्थितः ।
विभीषणस्य
भक्तस्य
सफलोऽद्य
परिश्रमः ॥ ९ ॥
इत्येवं
ब्रुवतस्तस्य
सीता
रामस्य
तद्वचः ।
मृगीवोत्फुल्लनयना
बभूवाश्रुपरिप्लुता ॥ १० ॥
पश्यतस्तां
तु
रामस्य
भूयः
क्रोधो
व्यवर्धत ।
प्रभूताज्यावसिक्त्स्य
पावकस्येव
दीप्यतः ॥ ११ ॥
स
बद्ध्वा
भ्रुकुटीं
वक्त्रे
तिर्यक्प्रेक्षितलोचनः ।
अब्रवीत्
परुषं
सीतां
मध्ये
वानररक्षसाम् ॥ १२ ॥
यत्
कर्तव्यं
मनुष्येण
धर्षणां
परिमार्जता ।
तत्
कृतं
सकलं
सीते
शत्रुहस्तादमर्षणात् ॥ १३ ॥
निर्जिता
जीवलोकस्य
तपसा
भावितात्मना ।
अगस्त्येन
दुराधर्षा
मुनिना
दक्षिणेव
दिक् ॥ १४ ॥
विदितश्चास्तु
ते
भद्रे
योऽयं
रणपरिश्रमः ।
स
तीर्णः
सुहृदां
वीर्यान्न
त्वदर्थं
मया
कृतः ॥ १५ ॥
रक्षता
तु
मया
वृत्तमपावदं
च
सर्वशः ।
प्रख्यातस्यात्मवंशस्य
न्यङ्गं
च
परिरक्षता ॥ १६ ॥
प्राप्तचारित्रसन्देहा
मम
प्रतिमुखे
स्थिता ।
दीपो
नेत्रातुरस्येव
प्रतिकूलाऽसि
मे
दृढम् ॥ १७ ॥
तद्गच्छ
ह्यभ्यनुज्ञाता
यथेष्टं
जनकात्मजे ।
एता
दश
दिशो
भद्रे
कार्यमस्ति
न
मे
त्वया ॥ १८ ॥
कः
पुमान्
हि
कुले
जातः
स्त्रियं
परगृहोषिताम् ।
तेजस्वी
पुनरादद्यात्
सुहृल्लेख्येन
चेतसा ॥ १९ ॥
रावणाङ्कपरिभ्रष्टां
दृष्टां
दुष्टेन
चक्षुषा ।
कथं
त्वां
पुनरादद्यां
कुलं
व्यपदिशन्
महत् ॥ २० ॥
तदर्थं
निर्जिता
मे
त्वं
यशः
प्रत्याहृतं
मया ।
नास्ति
मे
त्वय्यभिष्वङ्गो
यथेष्टं
गम्यतामितः ॥ २१ ॥
इति
प्रव्याहृतं
भद्रे
मयैतत्
कृतबुद्धिना ।
लक्ष्मणे
भरते
वा
त्वं
कुरु
बुद्धिं
यथासुखम् ॥ २२ ॥
सुग्रीवे
वानरेन्द्रे
वा
राक्षसेन्द्रे
विभीषणे ।
निवेशय
मनः
सीते
यथा
वा
सुखमात्मनः ॥ २३ ॥
न
हि
त्वां
रावणो
दृष्ट्वा
दिव्यरूपां
मनोरमाम् ।
मर्षयेत
चिरं
सीते
स्वगृहे
परिवर्तिनीम् ॥ २४ ॥
ततः
प्रियार्हश्रवणा
तदप्रियं
प्रियादुपश्रुत्य
चिरस्य
मैथिली ।
मुमोच
बाष्पं
सुभृशं
प्रवेपिता
गजेन्द्रहस्ताभिहतेव
सल्लकी ॥ २५ ॥