ततो
हि
दुर्मना
रामः
श्रुत्वैवं
वदतां
गिरः ।
दध्यौ
मुहूर्तं
धर्मात्मा
बाष्पव्याकुललोचनः ॥ १ ॥
ततो
वैश्रवणो
राजा
यमश्चामित्रकर्शनः ।
सहस्राक्षो
महेन्द्रश्च
वरुणश्च
परन्तपः ॥ २ ॥
षडर्धनयनः
श्रीमान्
महादेवो
वृषध्वजः ।
कर्ता
सर्वस्य
लोकस्य
ब्रह्मा
ब्रह्मविदां
वरः ॥ ३ ॥
एते
सर्वे
समागम्य
विमानैः
सूर्यसन्निभैः ।
आगम्य
नगरीं
लङ्कामभिजग्मुश्च
राघवम् ॥ ४ ॥
ततः
सहस्ताभरणान्
प्रगृह्य
विपुलान्
भुजान् ।
अब्रुवंस्त्रिदशश्रैष्ठाः
प्राञ्जलिं
राघवं
स्थितम् ॥ ५ ॥
कर्ता
सर्वस्य
लोकस्य
श्रेष्ठो
ज्ञानवतां
वरः ।
उपेक्षसे
कथं
सीतां
पतन्तीं
हव्यवाहने ॥ ६ ॥
कथं
देवगणश्रेष्ठमात्मानं
नावबुध्यसे ।
त्रयाणां
त्वं
हि
लोकानामादिकर्ता
स्वयम्प्रभुः ॥ ७ ॥
रुद्राणामष्टमो
रुद्रः
साध्यानामसि
पञ्चमः ।
अश्विनौ
चापि
ते
कर्णौ
चन्द्रसूर्यौ
च
चक्षुषी ॥ ८ ॥
अन्ते
चादौ
च
लोकानां
दृश्यसे
त्वं
परन्तप ।
उपेक्षसे
च
वैदेहीं
मानुषः
पाकृतो
यथा ॥ ९ ॥
इत्युक्तो
लोकपालैस्तैः
स्वामी
लोकस्य
राघवः ।
अब्रवीत्रिदशश्रेष्ठान्
रामो
धर्मभृतां
वरः ॥ १० ॥
आत्मानं
मानुषं
मन्ये
रामं
दशरथात्मजम् ।
योऽहं
यस्य
यतश्चाहं
भगवांस्तद्
ब्रवीतु
मे ॥ ११ ॥
इति
ब्रुवन्तं
काकुत्स्थं
ब्रह्मा
ब्रह्मविदां
वरः ।
अब्रवीच्छृणु
मे
राम
सत्यं
सत्यपराक्रम ॥ १२ ॥
भवान्नारायणो
देवः
श्रीमांश्चक्रायुधो
विभुः ।
एकशृङ्गो
वराहस्त्वं
भूतभव्यसपत्नजित् ॥ १३ ॥
अक्षरं
ब्रह्म
सत्यं
च
मध्ये
चान्ते
च
राघव ।
लोकानां
त्वं
परो
धर्मो
विष्वक्सेनश्चतुर्भुजः ॥ १४ ॥
शार्ङ्गधन्वा
हृषीकेशः
पुरुषः
पुरुषोत्तमः ।
अजितः
खड्गधृद्विष्णुः
कृष्णश्चैव
बृहद्बलः ॥ १५ ॥
सेनानीर्ग्रामणीश्च
त्वं
बुद्धिः
सत्त्वं
क्षमा
दमः ।
प्रभवश्चाप्ययश्च
त्वमुपेन्द्रो
मधुसूदनः ॥ १६ ॥
इन्द्रकर्मा
महेन्द्रस्त्वं
पद्मनाभो
रणान्तकृत् ।
शरण्यं
शरणं
च
त्वामाहुर्दिव्या
महर्षयः ॥ १७ ॥
सहस्रशृङ्गो
वेदात्मा
शतजिह्वो
महर्षभः ।
त्वं
त्रयाणां
हि
लोकानामादिकर्ता
स्वयम्प्रभुः ॥ १८ ॥
सिद्धानामपि
साध्यानामाश्रयश्चासि
पूर्वजः ।
त्वं
यज्ञस्त्वं
वषट्कारस्त्वमोङ्कारः
परन्तपः ॥ १९ ॥
प्रभवं
निधनं
वा
ते
न
विदुः
को
भवानिति ।
दृश्यसे
सर्वभूतेषु
ब्राह्मणेषु
च
गोषु
च ॥ २० ॥
दिक्षु
सर्वासु
गगने
पर्वतेषु
वनेषु
च ।
सहस्रचरणः
श्रीमान्
शतशीर्षः
सहस्रदृक् ॥ २१ ॥
त्वं
धारयसि
भूतानि
वसुधां
च
सपर्वताम् ।
अन्ते
पृथिव्याः
सलिले
दृश्यसे
त्वं
महोरगः ॥ २२ ॥
त्रील्लोँकान्
धारयन्
राम
देवगन्धर्वदानवान् ।
अहं
ते
हृदयं
राम
जिह्वा
देवी
सरस्वती ॥ २३ ॥
देवा
गात्रेषु
रोमाणि
निर्मिता
ब्रह्मणः
प्रभो ।
निमेषस्ते
भवेद्रात्रिरुन्मेषस्ते
भवेद्दिवा ॥ २४ ॥
संस्कारास्तेऽभवन्
वेदा
न
तदस्ति
त्वया
विना ।
जगत्
सर्वं
शरीरं
ते
स्थैर्यं
ते
वसुधातलम् ॥ २५ ॥
अग्निः
कोपः
प्रसादस्ते
सोमः
श्रीवत्सलक्षणः ।
त्वया
लोकास्त्रयः
क्रान्ताः
पुराणे
विक्रमैस्त्रिभिः ॥ २६ ॥
महेन्द्रश्च
कृतो
राजा
बलिं
बद्ध्वा
महासुरम् ।
सीता
लक्ष्मीर्भवान्
विष्णुर्देवः
कृष्णः
प्रजापतिः ॥ २७ ॥
वधार्थं
रावणस्येह
प्रविष्टो
मानुषीं
तनुम् ।
तदिदं
नः
कृतं
कार्यं
त्वया
धर्मभृतां
वर ॥ २८ ॥
निहतो
रावणो
राम
प्रहृष्टो
दिवमाक्रम ।
अमोघं
बलवीर्यं
ते
अमोघस्ते
पराक्रमः ॥ २९ ॥
अमोघं
दर्शनं
राम
न
च
मोघः
स्तवस्तव ।
अमोघास्ते
भविष्यन्ति
भक्तिमन्तश्च
ये
नराः ॥ ३० ॥
ये
त्वां
देवं
ध्रुवं
भक्ताः
पुराणं
पुरुषोत्तमम् ।
प्राप्नुवन्ति
सदा
कामानिह
लोके
परत्र
च ॥ ३१ ॥
इममार्षं
स्तवं
नित्यमितिहासं
पुरातनम् ।
ये
नराः
कीर्तयिष्यन्ति
नास्ति
तेषां
पराभवः ॥ ३२ ॥