एतच्छ्रुत्वा
शुभं
वाक्यं
पितामहसमीरितम् ।
अङ्केनादाय
वैदेहीमुत्पपात
विभावसुः ॥ १ ॥
स
विधूय
चितां
तां
तु
वैदेहीं
हव्यवाहनः ।
उत्तस्थौ
मूर्तिमानाशु
गृहीत्वा
जनकात्मजाम् ॥ २ ॥
तरुणादित्यसङ्काशां
तप्तकाञ्चनभूषणाम् ।
रक्ताम्बरधरां
बालां
नीलकुञ्चितमूर्धजाम् ॥ ३ ॥
अक्लिष्टमाल्याभरणां
तथारूपां
मनस्विनीम् ।
ददौ
रामाय
वैदेहीमङ्के
कृत्वा
विभावसुः ॥ ४ ॥
अब्रवीच्च
तदा
रामं
साक्षी
लोकस्य
पावकः ।
एषा
ते
राम
वैदेही
पापमस्यां
न
विद्यते ॥ ५ ॥
नैव
वाचा
न
मनसा
नानुध्यानान्न
चक्षुषा ।
सुवृत्ता
वृत्तशौण्डीर
न
त्वामतिचचार
ह ॥ ६ ॥
रावणेनापनीतैषा
वीर्योत्सिक्तेन
रक्षसा ।
त्वया
विरहिता
दीना
विवशा
निर्जनाद्वनात् ॥ ७ ॥
रुद्धा
चान्तःपुरे
गुप्ता
त्वच्चित्ता
त्वत्परायणा ।
रक्षिता
राक्षसीसङ्घैर्विकृतैर्घोरदर्शनैः ॥ ८ ॥
प्रलोभ्यमाना
विविधं
भर्त्स्यमाना
च
मैथिली ।
नाचिन्तयत
तद्रक्षस्त्वद्गतेनान्तरात्मना ॥ ९ ॥
विशुद्धभावां
निष्पापां
पतिगृह्णीष्व
राघव ।
न
किञ्चिदभिधातव्यमहमाज्ञापयामि
ते ॥ १० ॥
ततः
प्रीतमना
रामः
श्रुत्वैतद्वदतां
वरः ।
दध्यौ
मुहूर्तं
धर्मात्मा
बाष्पव्याकुललोचनः ॥ ११ ॥
एवमुक्तो
महातेजा
द्युतिमान्
दृढविक्रमः ।
अब्रवीत्
त्रिदशश्रेष्ठं
रामो
धर्मभृतां
वरः ॥ १२ ॥
अवश्यं
त्रिषु
लोकेषु
न
सीता
पापमर्हति ।
दीर्घकालोषिता
हीयं
रावणान्तःपुरे
शुभा ॥ १३ ॥
बालिशः
खलु
कामात्मा
रामो
दशरथात्मजः ।
इति
वक्ष्यन्ति
मां
सन्तो
जानकीमविशोध्य
हि ॥ १४ ॥
अनन्यहृदयां
भक्तां
मच्चित्तपरिवर्तिनीम् ।
अहमप्यवगच्छामि
मैथिलीं
जनकात्मजाम् ॥ १५ ॥
प्रत्ययार्थं
तु
लोकानां
त्रयाणां
सत्यसंश्रयः ।
उपेक्षे
चापि
वैदेहीं
प्रविशन्तीं
हुताशनम् ॥ १६ ॥
इमामपि
विशालाक्षीं
रक्षितां
स्वेन
तेजसा ।
रावणो
नातिवर्तेत
वेलामिव
महोदधिः ॥ १७ ॥
न
हि
शक्तः
स
दुष्टात्मा
मनसाऽपि
हि
मैथिलीम् ।
प्रधर्षयितुमप्राप्तां
दीप्तामग्निशिखामिव ॥ १८ ॥
नेयमर्हति
चैश्वर्यं
रावणान्तःपुरे
शुभा ।
अनन्या
हि
मया
सीता
भास्करेण
प्रभा
यथा ॥ १९ ॥
विशुद्धा
त्रिषु
लोकेषु
मैथिली
जनकात्मजा ।
न
हि
हातुमियं
शक्या
कीर्तिरात्मवता
यथा ॥ २० ॥
अवश्यं
तु
मया
कार्यं
सर्वेषां
वो
वचः
शुभम् ।
स्निग्धानां
लोकमान्यानामेवं
च
ब्रुवतां
हितम् ॥ २१ ॥
इतीदमुक्त्वा
विदितं
महाबलैः
प्रशस्यमानः
स्वकृतेन
कर्मणा ।
समेत्य
रामः
प्रियया
महाबलः
सुखं
सुखार्होऽनुबभूव
राघवः ॥ २२ ॥