तां
रात्रिमुषितं
रामं
सुखोत्थितमरिन्दमम् ।
अब्रवीत्
प्राञ्जलिर्वाक्यं
जयं
पृष्ट्वा
विभीषणः ॥ १ ॥
स्नानानि
चाङ्गरागाणि
वस्त्राण्याभरणानि
च ।
चन्दनानि
च
दिव्यानि
माल्यानि
विविधानि
च ॥ २ ॥
उपस्थितास्त्वां
विधिवत्
स्नापयिष्यन्ति
राघव ।
प्रतिगृह्णीष्व
तत्
सर्वं
मदनुग्रहकाम्यया ॥ ३ ॥
एवमुक्तस्तु
काकुत्स्थः
प्रत्युवाच
विभीषमम् ।
हरीन्
सुग्रीवमुख्यांस्त्वं
स्नानेनाभिनिमन्त्रय ॥ ४ ॥
स
तु
ताम्यति
धर्मात्मा
मम
हेतोः
सुखोचितः ।
सुकुमारो
महाबाहुः
कुमारः
सत्यसंश्रवः ॥ ५ ॥
तं
विना
केकयीपुत्रं
भरतं
धर्मचारिणम् ।
न
मे
स्नानं
बहुमतं
वस्त्राण्याभरणानि
च ॥ ६ ॥
इत
एव
पथा
क्षिप्रं
प्रतिगच्छामि
तां
पुरीम् ।
अयोध्यामागतो
ह्येष
पन्थाः
परमदुर्गमः ॥ ७ ॥
एवमुक्तस्तु
काकुत्स्थं
प्रत्युवाच
विभीषणः ।
अह्ना
त्वां
प्रापयिष्यामि
तां
पुरीं
पार्थिवात्मज ॥ ८ ॥
पुष्पकं
नाम
भद्रं
ते
विमानं
सूर्यसन्निभम् ।
मम
भ्रातुः
कुबेरस्य
रावणेनाहृतं
बलात् ॥ ९ ॥
हृतं
निर्जित्य
सङ्ग्रामे
कामगं
दिव्यमुत्तमम् ।
त्वदर्थे
पालितं
चैतत्तिष्ठत्यतुलविक्रम ॥ १० ॥
तदिदं
मेघसङ्काशं
विमानमिह
तिष्ठति ।
तेन
यास्यसि
यानेन
त्वमयोध्यां
गतज्वरः ॥ ११ ॥
अहं
ते
यद्यनुग्राह्यो
यदि
स्मरसि
मे
गुणान् ।
वस
तावदिह
प्राज्ञ
यद्यस्ति
मयि
सौहृदभ् ॥ १२ ॥
लक्ष्मणेन
सह
भ्रात्रा
वैदेह्या
चापि
भार्यया ।
अर्चितः
सर्वकामैस्त्वं
ततो
राम
गमिष्यसि ॥ १३ ॥
प्रीतियुक्तस्य
मे
राम
ससैन्यः
ससुहृद्गणः ।
प्रणयाद्वहुमानाच्च
सौहृदेन
च
राघव ॥ १४ ॥
प्रसादयामि
प्रेष्योऽहं
न
खल्वाज्ञापयामि
ते ।
एवमुक्तस्ततो
रामः
प्रत्युवाच
विभिषणम् ॥ १५ ॥
रक्षसां
वानराणां
च
सर्वेषां
चोपशृण्वताम् ।
पूजितोऽहं
त्वया
सौम्य
साचिव्येन
परन्तप ॥ १६ ॥
सर्वात्मना
च
चेष्टाभिः
सौहृदेनोत्तमेन
च ।
तं
तु
मे
भ्रातरं
द्रष्टुं
भरतं
त्वरते
मनः ॥ १७ ॥
मां
निवर्तयितुं
योऽसौ
चित्रकूटमुपागतः ।
शिरसा
याचतो
यस्य
वचनं
न
कृतं
मया ॥ १८ ॥
कौसल्यां
च
सुमित्रां
च
कैकेयीं
च
यशस्विनीम् ।
गुरूंश्च
सुहृदश्चैव
पौरांश्च
तनयैः
सह ॥ १९ ॥
उपस्थापय
मे
क्षिप्रं
विमानं
राक्षसेश्वर ।
कृतकार्यस्य
मे
वासः
कथं
स्यादिह
सम्मतः ॥ २० ॥
अनुजानीहि
मां
सौम्य
पूजितोऽस्मि
विभीषण ।
मन्युर्न
खलु
कर्तव्यस्त्वरितं
त्वाऽनुमानये ॥ २१ ॥
राघवस्य
वचः
श्रुत्वा
राक्षसेन्द्रो
विभीषणः ।
तं
विमानं
समादाय
तूर्णं
प्रतिनिवर्तत ॥ २२ ॥
ततः
काञ्चनचित्राङ्गं
वैडूर्यमयवेदिकम् ।
कूटागारैः
परिक्षिप्तं
सर्वतो
रजतप्रभम् ॥ २३ ॥
पाण्डुराभिः
पताकाभिर्ध्वजैश्च
समलङ्कृतम् ।
शोभितं
काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितम् ॥ २४ ॥
प्रकीर्णं
किङ्किणीजालैर्मुक्तामणिगवाक्षितम् ।
घण्टाजालैः
परिक्षिप्तं
सर्वतो
मधुरस्वनम् ॥ २५ ॥
यन्मेरुशिखराकारं
निर्मितं
विश्वकर्मणा ।
बहुभिर्भूषितं
हर्म्यैर्मुक्तारजतसन्निभैः ॥ २६ ॥
तलैः
स्फाटिकचित्राङ्गैर्वैडूर्यैश्च
वरासनैः ।
महार्हास्तरणो
पेतैरुपपन्नं
महाधनैः ॥ २७ ॥
उपस्थितमनाधृष्यं
तद्विमानं
मनोजवम् ।
निवेदयित्वा
रामाय
तस्थौ
तत्र
विभीषणः ॥ २८ ॥