अनुज्ञातंस्तु
रामेण
तद्विमानमनुत्तमम् ।
उत्पपात
महामेघः
श्वसनेनोद्धतो
यथा ॥ १ ॥
पातयित्वा
ततश्चक्षुः
सर्वतो
रघुनन्दनः ।
अब्रवीन्मैथिलीं
सीतां
रामः
शशिनिभाननाम् ॥ २ ॥
कैलासशिखराकारे
त्रिकूटशिखरे
स्थिताम् ।
लङ्कामीक्षस्व
वैदेहि
निर्मितां
विश्वकर्मणा ॥ ३ ॥
एतदायोधनं
पश्य
मांसशोणितकर्दमम् ।
हरीणां
राक्षसानां
च
सीते
विशसनं
महत् ॥ ४ ॥
अत्र
दत्तवरः
शेते
प्रमाथी
राक्षसेश्वरः ।
तव
हेतोर्विशालाक्षि
रावणो
निहतो
मया ॥ ५ ॥
कुम्भकर्णोऽत्र
निहतः
प्रहस्तश्च
निशाचरः ।
धूम्राक्षश्चात्र
निहतो
वानरेण
हनूमता ॥ ६ ॥
विद्युन्माली
हतश्चात्र
सुषेणेन
महात्मना ।
लक्ष्मणेनेन्द्रजिच्चात्र
रावणिर्निहतो
रणे ॥ ७ ॥
अङ्गदेनात्र
निहतो
विकटो
नाम
राक्षसः ।
विरूपाक्षश्च
दुर्धर्षो
महापार्श्वमहोदरौ ॥ ८ ॥
अकम्पनश्च
निहतो
बलिनोऽन्ये
च
राक्षसाः ।
अत्र
मण्डोदरी
नाम
भार्या
तं
पर्यदेवयत् ॥ ९ ॥
सपत्नीनां
सहस्रेण
सास्रेण
परिवारिता ।
एतत्तु
दृश्यते
तीर्थं
समुद्रस्य
वरानने ॥ १० ॥
यत्र
सागरमुत्तीर्य
तां
रात्रिमुषिता
वयम् ।
एष
सेतुर्मया
बद्धः
सागरे
सलिलार्णवे ॥ ११ ॥
तव
हेतोर्विशालाक्षि
नलसेतुः
सुदुष्करः ।
पश्य
सागरमक्षोभ्यं
वैदेहि
वरुणालयम् ॥ १२ ॥
अपारमभिगर्जन्तं
शङ्खशुक्तिनिषेवितम् ।
हिरण्यनाभं
शैलेन्द्रं
काञ्चनं
पश्य
मैथिलि ॥ १३ ॥
विश्रमार्थं
हनुमतो
भित्त्वा
सागरमुत्थितम् ।
एतत्
कुक्षौ
समुद्रस्य
स्कन्धावारनिवेशनम् ॥ १४ ॥
सेतुबन्ध
इति
ख्यातं
त्रैलोक्येनाभिपूजितम् ।
एतत्
पवित्रं
परमं
महापातकनाशनम् ॥ १५ ॥
अत्र
पूर्वं
महादेवः
प्रसादमकरोत्
प्रभुः ।
अत्र
राक्षसराजोऽयमाजगाम
विभीषणः ॥ १६ ॥
एषा
सा
दृश्यते
सीते
किष्किन्धा
चित्रकानना ।
सुग्रीवस्य
पुरी
रम्या
यत्र
वाली
मया
हतः ॥ १७ ॥
अथ
दृष्ट्वा
पुरीं
सीता
किष्किन्धां
वालिपालिताम् ।
अब्रवीत्
प्रश्रितं
वाक्यं
रामं
प्रणयसाध्वसा ॥ १८ ॥
अन्येषां
वानरेन्द्राणां
स्त्रीभिः
परिवृता
ह्यहम् ।
गन्तुमिच्छे
सहायोध्यां
राजधानीं
त्वयाऽनघ ॥ १९ ॥
एवमस्त्विति
किष्किन्धां
प्राप्य
संस्थाप्य
राघवः ।
विमानं
प्रेक्ष्य
सुग्रीवं
वाक्यमेतदुवाच
ह ॥ २० ॥
ब्रूहि
वानरशार्दूल
सर्वान्
वानरपुङ्गवान् ।
स्वदारसहिताः
सर्वे
ह्ययोध्यां
यान्तु
सीतया ॥ २१ ॥
तथा
त्वमपि
सर्वाभिः
स्त्रीभिः
सह
महाबल ।
अभित्वरस्व
सुग्रीव
गच्छामः
प्लवगेश्वर ॥ २२ ॥
एवमुक्तस्तु
सुग्रीवो
रामेणामिततेजसा ।
वानराधिपतिः
श्रीमांस्तैश्च
सर्वैः
समावृतः ॥ २३ ॥
प्रविश्यान्तःपुरं
शीघ्रं
तारामुद्वीक्ष्य
भाषत ।
प्रिये
त्वं
सह
नारीभिर्वानराणां
महात्मनाम् ॥ २४ ॥
राघवेणाभ्यनुज्ञाता
मैथिलीप्रियकाम्यया ।
त्वर
त्वमभिगच्छामो
गृह्य
वानरयोषितः ॥ २५ ॥
अयोध्यां
दर्शयिष्यामः
सर्वा
दशरथस्त्रियः ।
सुग्रीवस्य
वचः
श्रुत्वा
तारा
सर्वाङ्गशोभना ॥ २६ ॥
आहूय
चाब्रवीत्
सर्वा
वानराणां
तु
योषितः ।
सुग्रीवेणाभ्यनुज्ञाता
गन्तुं
सर्वैश्च
वानरैः ॥ २७ ॥
मम
चापि
प्रियं
कार्यमयोध्यादर्शनेन
च ।
प्रवेशं
चापि
रामस्य
पौरजानपदैः
सह ॥ २८ ॥
विभूतिं
चैव
सर्वासां
स्त्रीणां
दशरथस्य
च ।
नेपथ्यं
विधिपूर्वेण
कृत्वा
चापि
प्रदक्षिणम् ॥ २९ ॥
अध्यारोहन्
विमानं
तत्
सीतादर्शनकाङ्क्षया ।
ताभिः
सहोत्थितं
शीघ्रं
विमानं
प्रेक्ष्य
राघवः ॥ ३० ॥
ऋश्यमूकसमीपे
तु
वैदेहीं
पुनरब्रवीत् ।
दृश्यतेऽसौ
महान्
सीते
सविद्युदिव
तोयदः ॥ ३१ ॥
ऋश्यमूको
गिरिश्रेष्ठः
काञ्चनैर्धातुभिर्वृतः ।
अत्राहं
वानरेन्द्रेण
सुग्रीवेण
समागतः ॥ ३२ ॥
समयश्च
कृतः
सीते
वधार्थं
वालिनो
मया ।
त्वया
विहीनो
यत्राहं
विललाप
सुदुःखितः ॥ ३३ ॥
अस्यास्तीरे
मया
दृष्टा
शबरी
धर्मचारिणी ।
अत्र
योजनबाहुश्च
कबन्धो
निहतो
मया ॥ ३४ ॥
यत्र
युद्धं
महद्वृत्तं
तव
हेतोर्विलासिनि ।
रावणस्य
नृशंसस्य
जटायोश्च
महात्मनः ॥ ३५ ॥
त्रिशिराश्च
महावीर्यो
मया
बाणैरजिह्मगैः ।
एतत्तदाश्रमपदमस्माकं
वरवर्णिनि ॥ ३६ ॥
पर्णशाला
तथा
चित्रा
दृश्यते
शुभदर्शना ।
यत्र
त्वं
राक्षसेन्द्रेण
रावणेन
हृता
बलात् ॥ ३७ ॥
एषा
गोदावरी
रम्या
प्रसन्नसलिला
शिवा ।
अगस्त्यस्याश्रमो
ह्येष
दृश्यते
पश्य
मैथिलि ॥ ३८ ॥
दीप्तश्चैवाश्रमो
ह्येष
सुतीक्ष्णस्य
महात्मनः ।
वैदेहि
दृश्यते
चात्र
शरभङ्गाश्रमो
महान् ॥ ३९ ॥
उपयातः
सहस्राक्षो
यत्र
शक्रः
पुरन्दरः ।
अस्मिन्
देशे
महाकायो
विराधो
निहतो
मया ॥ ४० ॥
अत्रिः
कुलपतिर्यत्र
सूर्यवैश्वानप्रभः ।
अत्र
सीते
त्वया
दृष्टा
तापसी
धर्मचारिणी ॥ ४१ ॥
असौ
सुतनु
शैलेन्द्रश्चित्रकूटः
प्रकाशते ।
यत्र
मां
केकयीपुत्रः
प्रसादयितुमागतः ॥ ४२ ॥
एषा
सा
यमुना
दूराद्दृश्यते
चित्रकानना ।
भरद्वाजाश्रमो
यत्र
श्रीमानेष
प्रकाशते ॥ ४३ ॥
एषा
त्रिपथगा
गङ्गा
दृश्यते
वरवर्णिनि ।
नानाद्विजगणाकीर्णा
सम्प्रयुष्पितकानना ॥ ४४ ॥
शृङ्गिवेरपुरं
चैतद्
गुहो
यत्र
समागतः ।
एषा
सा
दृश्यते
सीते
सरयूर्यूपमालिनी ॥ ४५ ॥
नानातरुशताकीर्णा
सम्प्रपुष्पितकानना ।
एषा
सा
दृश्यतेऽयोध्या
राजधानी
पितुर्मम् ॥ ४६ ॥
अयोध्यां
कुरु
वैदेहि
प्रणामं
पुनरागता ।
ततस्ते
वानराः
सर्वे
राक्षसश्च
विभीषणः ॥ ४७ ॥
उत्पत्योत्पत्य
ददृशुस्तां
पुरीं
शुभदर्शनाम् ।
ततस्तु
तां
पाम्डुरहर्म्यमालिनीं
विशालकक्ष्यां
गजवाजिसङ्कुलाम् ॥ ४८ ॥
पुरीमयोध्यां
ददृशुः
प्लवङ्गमाः
पुरीं
महेन्द्रस्य
यथाऽमरावतीम् ॥ ४९ ॥