पूर्णे
चतुर्दशे
वर्षे
पञ्चम्यां
लक्ष्मणाग्रजः ।
भरद्वाजश्रमं
प्राप्य
ववन्दे
नियतो
मुनिम् ॥ १ ॥
शृणोषि
कच्चिद्भगवन्
सुभिक्षानामयं
पुरे ।
कच्चिच्च
युक्तो
भरतो
जीवन्त्यपि
च
मातरः ॥ २ ॥
एवमुक्तस्तु
रामेण
भरद्वाजो
महामुनिः ।
प्रत्युवाच
रघुश्रेष्ठं
स्मितपूर्वं
प्रहृष्टवत् ॥ ३ ॥
पङ्कदिग्धस्तु
भरतो
जटिलस्त्वां
प्रतीक्षते ।
पादुके
ते
पुरस्कृत्य
सर्वं
च
कुशलं
गृहे ॥ ४ ॥
स्त्रीतृतीयं
च्युतं
राज्याद्धर्मकामं
च
केवलम् ।
पदातिं
त्यक्तसर्वस्वं
पितुर्वचनकारिणम् ॥ ५ ॥
सर्वभोगैः
परित्यक्तं
स्वर्गच्युतमिवामरम् ।
दृष्ट्वा
तु
करुणा
पूर्वं
ममासीत्
समितिञ्जय ॥ ६ ॥
कैकेयीवचने
युक्तं
वन्यमूलफलाशिनम् ।
साम्प्रतं
सुसमृद्धार्थं
समित्रगणबान्धवम् ॥ ७ ॥
समीक्ष्य
विजितारिं
त्वां
मम
प्रीतिरनुत्तमा ।
सर्वं
च
सुखदुःखं
ते
विदितं
मम
राघव ॥ ८ ॥
यत्त्वया
विपुलं
प्राप्तं
जनस्थानवधादिकम् ।
ब्राह्मणार्थे
नियुक्तस्य
रक्षितुः
सर्वतापसान् ॥ ९ ॥
रावणेन
हृता
भार्या
बभूवेयमनिन्दिता ।
मारीचदर्शनं
चैव
सीतोन्मथनमेव
च ॥ १० ॥
कबन्धदर्शनं
चैव
पम्पाभिगमनं
तथा ।
सुग्रीवेण
च
ते
सख्यं
यच्च
वाली
हतस्त्वया ॥ ११ ॥
मार्गणं
चैव
वैदेह्याः
कर्म
वातात्मजस्य
च ।
विदितायां
च
वैदेह्यां
नलसेतुर्यथा
कृतः ॥ १२ ॥
यथा
वा
दीपिता
लङ्का
प्रहृष्टैर्हरियूथपैः ।
सपुत्रबान्धवामात्यः
सबलः
सहवाहनः ॥ १३ ॥
समागमश्च
त्रिदशैर्यथा
दत्तश्च
ते
वरः ।
सर्वं
ममैतद्विदितं
तपसा
धर्मवत्सल ॥ १४ ॥
अहमप्यत्र
ते
दद्मि
वरं
शस्त्रभृतां
वर ।
अर्ध्यमद्य
गृहाणेदमयोध्यां
श्वो
गमिष्यसि ॥ १५ ॥
बाढमित्येव
संहृष्टो
धीमान्
वरमयाचत ।
अकाले
फलिनो
वृक्षाः
सर्वे
चापि
मधुस्रवाः ॥ १६ ॥
फलान्यमृतकल्पानि
बहूनि
विविधानि
च ।
भवन्तु
मार्गे
भगवन्नयोध्यां
प्रति
गच्छतः ॥ १७ ॥
तथेति
च
प्रतिज्ञाते
वचनात्
समनन्तरम् ।
अभवन्
पादपास्तत्र
स्वर्गपादपसन्निभाः ॥ १८ ॥
निष्फलाः
फलिनश्चासन्
विपुष्पाः
पुष्पशालिनः ।
शुष्काः
समग्रपत्रास्ते
नगाश्चैव
मधुस्रवाः ॥ १९ ॥
सर्वतो
योजनास्तिस्रो
गच्छतामभवंस्तदा ।
ततः
प्रहृष्टाः
प्लवगर्षभास्ते
बहूनि
दिव्यानि
फलानि
चैव ॥ २० ॥
कामादुपाश्नन्ति
सहस्रशस्ते
मुदाऽन्विताः
स्वर्गजितो
यथैव ॥ २१ ॥