अयोध्यां
तु
समालोक्य
चिन्तयामास
राघवः ।
चिन्तयित्वा
हनूमन्तमुवाच
प्लवगोत्तमम् ॥ १ ॥
जानीहि
कच्चित्
कुशली
जनो
नृपतिमन्दिरे ।
शृङ्गिबेरपुरं
प्राप्य
गुहं
गहनगोचरम् ॥ २ ॥
निषादाधिपतिं
ब्रूहि
कुशलं
वचनान्मम ।
श्रुत्वा
तु
मां
कुशलिनमरोगं
विगतज्वरम् ॥ ३ ॥
भविष्यति
गुहः
प्रीतः
स
ममात्मसमः
सखा ।
अयोध्यायाश्च
ते
मार्गं
प्रवृत्तिं
भरतस्य
च ॥ ४ ॥
निवेदयिष्यति
प्रीतो
निषादाधिपतिर्गुहः ।
भरतस्तु
त्वया
वाच्यः
कुशलं
वचनान्मम ॥ ५ ॥
सिद्धार्थं
शंस
मां
तस्मै
सभार्यं
सहलक्ष्मणम् ।
हरणं
चापि
वैदेह्या
रावणेन
बलीयसा ॥ ६ ॥
सुग्रीवेण
च
संसर्गं
वालिनश्च
वधं
रणे ।
मैथिल्यन्वेषणं
चैव
यथा
चाधिगता
त्वया ॥ ७ ॥
लङ्घयित्वा
महातोयमापगापतिमव्ययम् ।
उपयानं
समुद्रस्य
सागरस्य
च
दर्शनम् ॥ ८ ॥
यथा
च
कारितः
सेतू
रावणश्च
यथा
हतः ।
वरदानं
महेन्द्रेण
ब्रह्मणा
वरुणेन
च ॥ ९ ॥
महादेवप्रसादाच्च
पित्रा
मम
समागमम् ।
उपयातं
च
मां
सौम्य
भरतस्य
निवेदय ॥ १० ॥
सह
राक्षसराजेन
हरीणां
प्रवरेण
च ।
एतच्छुत्वा
यमाकारं
भजते
भरतस्तदा ॥ ११ ॥
स
च
ते
वेदितव्यः
स्यात्
सर्वं
यच्चापि
मां
प्रति ।
जित्वा
शत्रुगणान्
रामः
प्राप्य
चानुत्तमं
यशः ॥ १२ ॥
उपयाति
समृद्धार्थः
सह
मित्रैर्महाबलैः ।
ज्ञेयाश्च
सर्वे
वृत्तान्ता
भरतस्येङ्गितानि
च ॥ १३ ॥
तत्त्वेन
मुखवर्णेन
दृष्ट्या
व्याभाषणेन
च ।
सर्वकामसमृद्धं
हि
हस्त्यश्वरथसङ्कुलम् ॥ १४ ॥
पितृपैतामहं
राज्यं
कस्य
नावर्तयेन्मनः ।
सङ्गत्या
भरतः
श्रीमान्
राज्यार्थी
चेत्
स्वयं
भवेत् ॥ १५ ॥
प्रशास्तु
वसुधां
कृत्स्नामखिलां
रघुनन्दनः ।
तस्य
बुद्धिं
च
विज्ञाय
व्यवसायं
च
वानर ॥ १६ ॥
यावन्न
दूरं
याताः
स्म
क्षिप्रमागन्तुमर्हसि ।
इति
प्रतिसमादिष्टो
हनुमान्
मारुतात्मजः ॥ १७ ॥
मानुषं
धारयन्
रूपमयोध्यां
त्वरितो
ययौ ।
अथोत्पपात
वेगेन
हनुमान्
मारुतात्मजः ॥ १८ ॥
गरुत्मानिव
वेगेन
जिघृक्षन्
भुजगोत्तमम् ।
गङ्गायमुनयोर्मध्यं
सन्निपातमतीत्य
च ॥ १९ ॥
शृङ्गिबेरपुरं
प्राप्य
गुहमासाद्य
वीर्यवान् ।
स
वाचा
शुभया
हृष्टो
हनुमानिदमब्रवीत् ॥ २० ॥
सखा
तु
तव
काकुत्स्थो
रामः
सत्यपराक्रमः ।
सहसीतः
ससौमित्रिः
स
त्वां
कुशलमब्रवीत् ॥ २१ ॥
पञ्चमीमद्य
रजनीमुषित्वा
वचनान्मुनेः ।
भरद्वाजाभ्यनुज्ञातं
द्रक्ष्यस्यद्यैव
राघवम् ॥ २२ ॥
एवमुक्त्वा
महातेजाः
सम्प्रहृष्टतनूरुहः ।
उत्पपात
महावेगो
वेगवानविचारयन् ॥ २३ ॥
गोमतीं
तां
च
सोऽपश्यद्भीमं
सालवनं
तथा ।
प्रजाश्च
बहुसाहस्राः
स्फीतान्
जनपदानपि ॥ २४ ॥
स
गत्वा
दूरमध्वानं
त्वरितः
कपिकुञ्जरः ।
आससाद
द्रुमान्
फुल्लान्
नन्दिग्रामसमीपगान् ॥ २५ ॥
स्त्रीभिः
सपुत्रैर्वृद्धैश्च
रममाणैरलङ्कृतान् ।
सुराधिपस्योपवने
यथा
चैत्ररथे
द्रुमान् ॥ २६ ॥
क्रोशमात्रे
त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम् ।
ददर्श
भरतं
दीनं
कृशमाश्रमवासिनम् ॥ २७ ॥
जटिलं
मलदिग्धाङ्गं
भ्रातृव्यसनकर्शितम् ।
फलमूलाशिनं
दान्तं
तापसं
धर्मचारिणम् ॥ २८ ॥
समुन्नतजटाभारं
वल्कलाजिनवाससम् ।
नियतं
भावितात्मानं
ब्रह्मर्षिसमतेजसम् ॥ २९ ॥
पादुके
ते
पुरस्कृत्य
शासन्तं
वै
वसुन्धराम् ।
चातुर्वर्ण्यस्य
लोकस्य
त्रातारं
सर्वतो
भयात् ॥ ३० ॥
उपस्थितममात्यैश्च
शुचिभिश्च
पुरोहितैः ।
बलमुख्यैश्च
युक्तैश्च
काषायाम्बरधारिभिः ॥ ३१ ॥
न
हि
ते
राजपुत्रं
तं
चीरकृष्णाजिनाम्बरम् ।
परिभोक्तुं
व्यवस्यन्ति
पौरा
वै
धर्मवत्सलम् ॥ ३२ ॥
तं
धर्ममिव
धर्मज्ञं
देहवन्तमिवापरम् ।
उवाच
प्राञ्जलिर्वाक्यं
हनुमान्
मरुतात्मजः ॥ ३३ ॥
वसन्तं
दण्डकारण्ये
यं
त्वं
चीरजटाधरम् ।
अनुशोचसि
काकुत्स्थं
स
त्वां
कुशलमब्रवीत् ॥ ३४ ॥
प्रियमाख्यामि
ते
देव
शोकं
त्यज
सुदारुणम् ।
अस्मिन्
मुहूर्ते
भ्रात्रा
त्वं
रामेण
सह
सङ्गतः ॥ ३५ ॥
निहत्य
रावणं
रामः
प्रतिलभ्य
च
मैथिलीम् ।
उपयाति
समृद्धार्थः
सह
मित्रैर्महाबलैः ॥ ३६ ॥
लक्ष्मणश्च
महातेजा
वैदेही
च
यशस्विनी ।
सीता
समग्रा
रामेण
महेन्द्रेण
यथा
शची ॥ ३७ ॥
एवमुक्तो
हनुमता
भरतो
भ्रातृवत्सलः ।
पपात
सहसा
हृष्टो
हर्षान्मोहं
जगाम
ह ॥ ३८ ॥
ततो
मुहूर्तादुत्थाय
प्रत्याश्वस्य
च
राघवः ।
हनुमन्तमुवाचेदं
भरतः
प्रियवादिनम् ॥ ३९ ॥
अशोकजैः
प्रीतिमयैः
कपिमालिङ्ग्य
सम्भ्रमात् ।
सिषेच
भरतः
श्रीमान्
विपुलैरस्त्रबिन्दुभिः ॥ ४० ॥
देवो
वा
मानुषो
वा
त्वमनुक्रोशादिहागतः ।
प्रियाख्यानस्य
ते
सौम्य
ददामि
ब्रुवतः
प्रियम् ॥ ४१ ॥
गवां
शतसहस्रं
च
ग्रामाणां
च
शतं
परम् ।
सुकुण्डलाः
शुभाचारा
भार्याः
कन्याश्च
षोडश ॥ ४२ ॥
हेमवर्णाः
सुनासोरूः
शशिसौम्याननाः
स्त्रियः ।
सर्वाभरणसम्पन्नाः
सम्पन्नाः
कुलजातिभिः ॥ ४३ ॥
निशम्य
रामागमनं
नृपात्मजः
कपिप्रवीरस्य
तदद्भुतोपमम् ।
प्रहर्षितो
रामदिदृक्षयाऽभवत्
पुनश्च
हर्षादिदमब्रवीद्वचः ॥ ४४ ॥