बहूनि
नाम
वर्षाणि
गतस्य
सुमहद्वनम् ।
शृणोम्यहं
प्रीतिकरं
मम
नाथस्य
कीर्तनम् ॥ १ ॥
कल्याणी
बत
गाथेयं
लौकिकी
प्रतिभाति
मे ।
एति
जीवन्तमानन्दो
नरं
वर्षशतादपि ॥ २ ॥
राघवस्य
हरीणां
च
कथमासीत्
समागमः ।
कस्मिन्
देशे
किमाश्रित्य
तत्त्वमाख्याहि
पृच्छतः ॥ ३ ॥
स
पृष्टो
राजपुत्रेण
बृस्यां
समुपवेशितः ।
आचचक्षे
ततः
सर्वं
रामस्य
चरितं
वने ॥ ४ ॥
यथा
प्रव्राजितो
रामो
मातुर्दत्तो
वरस्तव ।
यथा
च
पुत्रशोकेन
राजा
दशरथो
मृतः ॥ ५ ॥
यथा
दूतैस्त्वमानीतस्तूर्णं
राजगृहात्
प्रभो ।
त्वयाऽयोध्यां
प्रविष्टेन
यथा
राज्यं
न
चेप्सितम् ॥ ६ ॥
चित्रकूटं
गिरिं
गत्वा
राज्येनामित्रकर्शन ।
निमन्त्रितस्त्वया
भ्राता
धर्ममाचरता
सताम् ॥ ७ ॥
स्थितेन
राज्ञो
वचने
यथा
राज्यं
विसर्जितम् ।
आर्यस्य
पादुके
गृह्य
यथाऽसि
पुनरागतः ॥ ८ ॥
सर्वमेतन्महाबाहो
यथावद्विदितं
तव ।
त्वयि
प्रतिप्रयाते
तु
यद्वृत्तं
तन्निबोध
मे ॥ ९ ॥
अपयाते
त्वयि
तदा
समुद्भ्रान्तमृगद्विजम् ।
परिद्यूनमिवात्यर्थं
तद्वनं
समपद्यत ॥ १० ॥
तद्धस्तिमृदितं
घोरं
सिंहव्याघ्रमृगायुतम् ।
प्रविवेशाथ
विजनं
सुमहद्दण्डकावनम् ॥ ११ ॥
तषां
पुरस्ताद्बलवान्
गच्छतां
गहने
वने ।
निनदन्
सुमहानादं
विराधः
प्रत्यदृश्यत ॥ १२ ॥
तमुत्क्षिप्य
महानादमूर्ध्वबाहुमधोमुखम् ।
निखाते
प्रक्षिपन्ति
स्म
नदन्तमिव
कुञ्जरम् ॥ १३ ॥
तत्
कृत्वा
दुष्करं
कर्म
भ्रातरौ
रामलक्ष्मणौ ।
सायाह्ने
शरभङ्गस्य
रम्यमाश्रममीयतुः ॥ १४ ॥
शरभङ्गे
दिवं
प्राप्ते
रामः
सत्यपराक्रमः ।
अभिवाद्य
मुनीन्
सर्वान्
जनस्थानमुपागमत् ॥ १५ ॥
ततः
पश्चाच्छूर्पणखा
रामपार्श्वमुपागता ।
ततो
रामेण
सन्दिष्टो
लक्ष्मणः
सहसोत्थितः ॥ १६ ॥
प्रगृह्य
खड्गं
चिच्छेद
कर्णनासं
महाबलः ।
चतुर्दश
सहस्राणि
रक्षसां
भीमकर्मणाम् ॥ १७ ॥
हतानि
वसता
तत्र
राघवेण
महात्मना ।
एकेन
सह
सङ्गम्य
रणे
रामेण
सङ्गताः ॥ १८ ॥
अह्नश्चतुर्थभागेन
निश्शोषा
राक्षसाः
कृताः ।
महाबला
महावीर्यास्तपसो
विघ्नकारिणः ॥ १९ ॥
निहता
राघवेणाजौ
दण्डकारण्यवासिनः ।
राक्षसाश्च
विनिष्पिष्टाः
खरश्च
निहतो
रणे ॥ २० ॥
ततस्तेनार्दिता
बाला
रावणं
समुपागता ।
रावणानुचरो
घोरो
मारीचो
नाम
राक्षसः ॥ २१ ॥
लोभयामास
वैदेहीं
भूत्वा
रत्नमयो
मृगः ।
अथैनमब्रवीद्रामं
वैदेही
गृह्यतामिति ॥ २२ ॥
अहो
मनोहरः
कान्त
आश्रमो
नो
भविष्यति ।
ततो
रामो
धनुष्पाणिर्धावन्तमनुधावति ॥ २३ ॥
स
तं
जघान
धावन्तं
शरेणानतपर्वणा ।
अथ
सौम्य
दशग्रीवो
मृगं
याते
तु
राघवे ॥ २४ ॥
लक्ष्मणे
चापि
निष्क्रान्ते
प्रविवेशाश्रमं
तदा ।
जग्राह
तरसा
सीतां
ग्रहः
खे
रोहिणीमिव ॥ २५ ॥
त्रातुकामं
ततो
युद्धे
हत्वा
गृध्रं
जटायुषम् ।
प्रगृह्य
सीतां
सहसा
जगामाशु
स
रावणः ॥ २६ ॥
सीतां
गृहीत्वा
गच्छन्तं
वानराः
पर्वतोपमाः ।
ददृशुर्विस्मितास्तत्र
रावणं
राक्षसाधिपम् ॥ २७ ॥
प्रविवेश
ततो
लङ्कां
रावणो
लोकरावणः ।
तां
सुवर्णपरिक्रान्ते
शुभे
महति
वेश्मनि ॥ २८ ॥
प्रवेश्य
मैथिलीं
वाक्यैः
सान्त्वयामास
रावणः ।
तृणवद्भाषितं
तस्य
तं
च
नैर्ऋतपुङ्गवम् ॥ २९ ॥
अचिन्तयन्ती
वैदेही
अशोकवनिकां
गता ।
न्यवर्तत
ततो
रामो
मृगं
हत्वा
महावने ॥ ३० ॥
निवर्तमानः
काकुत्स्थोऽदृष्ट्वा
गृध्रं
प्रविव्यथे ।
मार्गमाणस्तु
वैदेहीं
राघवः
सहलक्ष्मणः ॥ ३१ ॥
गोदावरीमन्वचरद्वनोद्देशांश्च
पुष्पितान् ।
आसेदतुर्महारण्ये
कबन्धं
नाम
राक्षसम् ॥ ३२ ॥
ततः
कबन्धवचनाद्रामः
सत्यपराक्रमः ।
ऋश्यमूकं
गिरिं
गत्वा
सुग्रीवेण
समागतः ॥ ३३ ॥
तयोः
समागमः
पूर्वं
प्रीत्या
हार्दो
व्यजायत ।
भ्रात्रा
निरस्तः
क्रुद्धेन
सुग्रीवो
वालिना
पुरा ॥ ३४ ॥
इतरेतरसंवादात्
प्रगाढः
प्रणयस्तयोः ।
रामस्य
बाहुवीर्येण
स्वराज्यं
प्रत्यपादयत् ॥ ३५ ॥
वालिनं
समरे
हत्वा
महाकायं
महाबलम् ।
सुग्रीवः
स्थापितो
राज्ये
सहितः
सर्ववानरैः ॥ ३६ ॥
रामाय
प्रतिजानीते
राजपुत्र्याश्च
मार्गणम् ।
आदिष्टा
वानरेन्द्रेण
सुग्रीवेण
महात्मना ॥ ३७ ॥
दश
कोट्यः
प्लवङ्गानां
सर्वाः
प्रस्थापिता
दिशः ।
तेषां
नो
विप्रकृष्टानां
विन्ध्ये
पर्वतसत्तमे ॥ ३८ ॥
भृशं
शोकाभितप्तानां
महान्
कालोऽत्यवर्तत ।
भ्राता
तु
गृध्रराजस्य
सम्पातिर्नाम
वीर्यवान् ॥ ३९ ॥
समाख्याति
स्म
वसतिं
सीताया
रावणालये ।
सोऽहं
शोकपरीतानां
दुःखं
तज्ज्ञातिनां
नुदन् ॥ ४० ॥
आत्मवीर्यं
समास्थाय
योजनानां
शतं
प्लुतः ।
तत्राहमेकामद्राक्षमशोकवनिकां
गताम् ॥ ४१ ॥
कौशेयवस्त्रां
मलिनां
निरानन्दां
दृढव्रताम् ।
तया
समेत्य
विधिवत्
पृष्ट्वा
सर्वमनिन्दिताम् ॥ ४२ ॥
अभिज्ञानं
च
मे
दत्तमर्चिष्मान्
स
महामणिः ।
अभिज्ञानं
मणिं
लब्ध्वा
चरितार्थोऽहमागतः ॥ ४३ ॥
मया
च
पुनरागम्य
रामस्याक्लिष्टकर्मणः ।
अभिज्ञानं
मया
दत्तमर्चिष्मान्
स
महामणिः ॥ ४४ ॥
श्रुत्वा
तु
मैथिलीं
हृष्टस्त्वाशशंसे
च
जीवितम् ।
जीवितान्तमनुप्राप्तः
पीत्वाऽमृतमिवातुरः ॥ ४५ ॥
उद्योजयिष्यन्नुद्योगं
दध्रे
कामं
वधे
मनः ।
जिघांसुरिव
लोकान्ते
सर्वाँल्लोकान्
विभावसुः ॥ ४६ ॥
ततः
समुद्रमासाद्य
नलं
सेतुमकारयत् ।
अतरत्
कपिवीराणां
वाहिनी
तेन
सेतुना ॥ ४७ ॥
प्रहस्तमवधीन्नीलः
कुम्भकर्णं
तु
राघवः ।
लक्ष्मणो
रावणसुतं
स्वयं
रामस्तु
रावणम् ॥ ४८ ॥
स
शक्रेण
समागम्य
यमेन
वरुणेन
च ।
महेश्वरस्वयम्भूभ्यां
तथा
दशरथेन
च ॥ ४९ ॥
तैश्च
दत्तवरः
श्रीमानृषिभिश्च
समागतः ।
सुरर्षिभिश्च
काकुत्स्थो
वराँल्लेभे
परन्तपः ॥ ५० ॥
स
तु
दत्तवरः
प्रीत्या
वानरैश्च
समागतः ।
पुष्पकेण
विमानेन
किष्किन्धामभ्युपागमत् ॥ ५१ ॥
तं
गङ्गां
पुनरासाद्य
वसन्तं
मुनिसन्निधौ ।
अविघ्नं
पुष्ययोगेन
श्वो
रामं
द्रष्टुमर्हसि ॥ ५२ ॥
ततस्तु
सत्यं
हनुमद्वचो
महन्निशम्य
हृष्टो
भरतः
कृताञ्जलिः ।
उवाच
वाणीं
मनसः
प्रहर्षिणीं
चिरस्य
पूर्णः
खलु
मे
मनोरथः ॥ ५३ ॥