श्रुत्वा
तु
परमानन्दं
भरतः
सत्यविक्रमः ।
हृष्टमाज्ञापयामास
शत्रुघ्नं
परवीरहा ॥ १ ॥
दैवतानि
च
सर्वाणि
चैत्यानि
नगरस्य
च ।
सुगन्धमाल्यैर्वादित्रैरर्चन्तु
शुचयो
नराः ॥ २ ॥
सर्वे
वादित्रकुशला
गणिकाश्चापि
सङ्घशः ।
अभिनिर्यान्तु
रामस्य
द्रष्टुं
शशिनिभं
मुखम् ॥ ३ ॥
भरतस्य
वचः
श्रुत्वा
शत्रुघ्नः
परवीरहा ।
विष्टीरनेकसाहस्राश्चोदयामास
वीर्यवान् ॥ ४ ॥
समीकुरुत
निम्नानि
विषमाणि
समानि
च ।
स्थलानि
च
निरस्यन्तां
नन्दिग्रामादितः
परम् ॥ ५ ॥
सिञ्चन्तु
पृथिवीं
कृत्स्नां
हिमशीतेन
वारिणा ।
ततोऽभ्यव
किरन्त्वन्ये
लाजैः
पुष्पैश्च
सर्वशः ॥ ६ ॥
समुच्छ्रितपताकास्तु
रथ्याः
पुरवरोत्तमे ।
शोभयन्तु
च
वेश्मानि
सूर्यस्योदयनं
प्रति ॥ ७ ॥
स्रग्दामभिर्मुक्तपुष्पैः
सुगन्धैः
पञ्चवर्णकैः ।
राजमार्गमसम्बाधं
किरन्तु
शतशो
नराः ॥ ८ ॥
राजदारास्तथाऽमात्याः
सैन्याः
सेनागणाङ्गनाः ।
ब्राह्मणाश्च
सराजन्याः
श्रेणीमुख्यास्तथा
गणाः ॥ ९ ॥
धृष्टिर्जयन्तो
विजयः
सिद्धार्थो
ह्यर्थसाधकः ।
अशोको
मन्त्रपालश्च
सुमन्त्रश्चापि
निर्ययुः ॥ १० ॥
मत्तैर्नागसहस्रैश्च
शातकुम्भविभूषितैः ।
अपरे
हेमकक्ष्याभिः
सगजाभिः
करेणुभिः ॥ ११ ॥
निर्ययुस्तुरगाक्रान्तै
रथैश्च
सुमहारथाः ।
तुरगाणां
सहस्रैश्च
मुख्यैर्मुख्यनरान्वितैः ॥ १२ ॥
पदातीनां
सहस्रैश्च
वीराः
परिवृता
ययुः ।
ततो
यानान्युपारूढाः
सर्वा
दशरथस्त्रियः ॥ १३ ॥
कौसल्यां
प्रमुखे
कृत्वा
सुमित्रां
चापि
निर्ययुः ।
कैकेय्या
सहिताः
सर्वा
नन्दिग्राममुपागमन् ॥ १४ ॥
कृत्स्नं
च
नगरं
तत्तु
नन्दिग्राममुपागमत् ।
अश्वानां
खुरशब्देन
रथनेमिस्वनेन
च ॥ १५ ॥
शङ्खदुन्दुभिनादेन
सञ्चचालेव
मेदिनी ।
द्विजातिमुख्यैर्धर्मात्मा
श्रेणीमुख्यैः
सनैगमैः ॥ १६ ॥
माल्यमोदकहस्तैश्च
मन्त्रिभिर्भरतो
वृतः ।
शङ्खभेरीनिनादैश्च
वन्दिभिश्चाभिवन्दितः ॥ १७ ॥
आर्यपादौ
गृहीत्वा
तु
शिरसा
धर्मकोविदः ।
पाण्डुरं
छत्रमादाय
शुक्लमाल्योपशोभितम् ॥ १८ ॥
शुक्ले
च
वालव्यजने
राजार्हे
हेमभूषिते ।
भ्रातुरागमनं
श्रुत्वा
तत्पूर्वं
हर्षमागतः ॥ १९ ॥
प्रत्युद्ययौ
ततो
रामं
महात्मा
सचिवैः
सह ।
समीक्ष्य
भरतो
वाक्यमुवाच
पवनात्मजम् ॥ २० ॥
नहि
पश्यामि
काकुत्स्थं
राममार्यं
परन्तपम् ।
कच्चिन्न
खलु
दृश्यन्ते
वानराः
कामरूपिणः ॥ २१ ॥
अथैवमुक्ते
वचने
हनुमानिदमब्रवीत् ।
अर्थं
विज्ञापयन्नेव
भरतं
सत्यविक्रमम् ॥ २२ ॥
सदाफलान्
कुसुमितान्
वृक्षान्
प्राप्य
मधुस्रवान् ।
भरद्वाजप्रसादेन
मत्तभ्रमरनादितान् ॥ २३ ॥
तस्य
चैष
वरो
दत्तो
वासवेन
परन्तप ।
ससैन्यस्य
तथाऽऽतिथ्यं
कृतं
सर्वगुणान्वितम् ॥ २४ ॥
निस्वनः
श्रूयते
भीमः
प्रहृष्टानां
वनौकसाम् ।
मन्ये
वानरसेना
सा
नदीं
तरति
गोमतीम् ॥ २५ ॥
रजोवर्षं
समुद्धूतं
पश्य
वालुकिनीं
प्रति ।
मन्ये
सालवनं
रम्यं
लोलयन्ति
प्लवङ्गमाः ॥ २६ ॥
तदेतद्दृश्यते
दूराद्विमलं
चन्द्रसन्निभम् ।
विमानं
पुष्पकं
दिव्यं
मनसा
ब्रह्मनिर्मितम् ॥ २७ ॥
रावणं
बान्धवैः
सार्धं
हत्वा
लब्धं
महात्मना ।
तरुणादित्यसङ्काशं
विमानं
रामवाहनम् ॥ २८ ॥
धनदस्य
प्रसादेन
दिव्यमेतन्मनोजवम् ।
एतस्मिन्
भ्रातरौ
वीरौ
वैदेह्या
सह
राघवौ ॥ २९ ॥
सुग्रीवश्च
महातेजा
राक्षसश्च
विभीषणः ।
ततो
हर्षसमुद्भूतो
निस्वनो
दिवमस्पृशत् ॥ ३० ॥
स्त्रीबालयुववृद्धानां
रामोऽयमिति
कीर्तिते ।
रथकुञ्जरवाजिभ्यस्तेऽवतीर्य
महीं
गताः ॥ ३१ ॥
ददृशुस्तं
विमानस्थं
नराः
सोममिवाम्बरे ।
प्राञ्जलिर्भरतो
भूत्वा
प्रहृष्टो
राघवोन्मुखः ॥ ३२ ॥
स्वागतेन
यथार्थेन
ततो
राममपूजयत् ।
मनसा
ब्रह्मणा
सृष्टे
विमाने
भरताग्रजः ॥ ३३ ॥
रराज
पृथुदीर्घाक्षो
वज्रपाणिरिवापरः ।
ततो
विमानाग्रगतं
भरतो
भ्रातरं
तदा ॥ ३४ ॥
ववन्दे
प्रयतो
रामं
मेरुस्थमिव
भास्करम् ।
ततो
रामाभ्यनुज्ञातं
तद्विमानमनुत्तमम् ॥ ३५ ॥
हंसुयुक्तं
महावेगं
निष्पपात
महीतले ।
आरोपितो
विमानं
तद्भरतः
सत्यविक्रमः ॥ ३६ ॥
राममासाद्य
मुदितः
पुनरेवाभ्यवादयत् ।
तं
समुत्थाप्य
काकुत्स्थश्चिरस्याक्षिपथं
गतम् ॥ ३७ ॥
अङ्के
भरतमारोप्य
मुदितः
परिषस्वजे ।
ततो
लक्ष्मणमासाद्य
वैदेहीं
चाभ्यवादयत् ॥ ३८ ॥
अभिवाद्य
ततः
प्रीतो
भरतो
नाम
चाब्रवीत् ।
सुग्रीवं
केकयीपुत्रो
जाम्बवन्तं
तथाऽङ्गदम् ॥ ३९ ॥
मैन्दं
च
द्विविदं
नीलमृषभं
परिषस्वजे ।
सुषेणं
च
नलं
चैव
गवाक्षं
गन्धमादनम् ॥ ४० ॥
शरभं
पनसं
चैव
भरतः
परिषस्वजे ।
ते
कृत्वा
मानुषं
रूपं
वानराः
कामरूपिणः ॥ ४१ ॥
कुशलं
पर्यपृच्छंस्ते
प्रहृष्टा
भरतं
तदा ।
अथाब्रवीद्राजपुत्रः
सुग्रीवं
वानरर्षभम् ॥ ४२ ॥
परिष्वज्य
महातेजा
भरतो
धर्मिणां
वरः ।
त्वमस्माकं
चतुर्णां
तु
भ्राता
सुग्रीव
पञ्चमः ॥ ४३ ॥
सौहृदाज्जायते
मित्रमपकारोऽरिलक्षणम् ।
विभीषणां
च
भरतः
सान्त्ववाक्यमथाब्रवीत् ॥ ४४ ॥
दिष्ट्या
त्वया
सहायेन
कृतं
कर्म
सुदुष्करम् ।
शत्रुघ्नश्च
तदा
राममभिवाद्य
सलक्ष्मणम् ॥ ४५ ॥
सीतायाश्चारणौ
पश्चाद्विनयादभ्यवादयत् ।
रामो
मातरमासाद्य
विषण्णां
शोककर्शिताम् ॥ ४६ ॥
जग्राह
प्रणतः
पादौ
मनो
मातुः
प्रसादयन् ।
अभिवाद्य
सुमित्रां
च
कैकेयीं
च
यशस्विनीम् ॥ ४७ ॥
स
मातॄश्च
ततः
सर्वाः
पुरोहितमुपागतम् ।
स्वागतं
तै
महाबाहो
कौसल्यानन्दवर्धन ॥ ४८ ॥
इति
प्राञ्जलयः
सर्वे
नागरा
राममब्रुवन् ।
तान्यञ्जलिसहस्राणि
प्रगृहीतानि
नागरैः ॥ ४९ ॥
व्याकोशानीव
पद्मानि
ददर्श
भरताग्रजः ।
चरणाभ्यां
नरेन्द्रस्य
योजयामास
धर्मवित् ॥ ५० ॥
अब्रवीच्च
तदा
रामं
भरतः
स
कृताञ्जलिः ।
एतत्ते
रक्षितं
राजन्
राज्यं
निर्यातितं
मया ॥ ५१ ॥
अद्य
जन्म
कृतार्थं
मे
संवृत्तश्च
मनोरथः ।
अवेक्षतां
भवान्
कोशं
कोष्ठागारं
पुरं
बलम् ॥ ५२ ॥
भवतस्तेजसा
सर्वं
कृतं
दशगुणं
मया ।
तथा
ब्रुवाणं
भरतं
दृष्ट्वा
तं
भ्रातृवत्सलम् ॥ ५३ ॥
मुमुचुर्वानरा
बाष्पं
राक्षसश्च
विभीषणः ।
ततः
प्रहर्षाद्भरतमङ्कमारोप्य
राघवः ॥ ५४ ॥
ययौ
तेन
विमानेन
ससैन्यो
भरताश्रमम् ।
भरताश्रममासाद्य
ससैन्यो
राघवस्तदा ॥ ५५ ॥
अवतीर्य
विमानाग्रादवतस्थे
महीतले ।
अब्रवीच्च
तदा
रामस्तद्विमानमनुत्तमम् ॥ ५६ ॥
वह
वैश्रवणं
देवमनुजानामि
गम्यताम् ।
ततो
रामाभ्यनुज्ञातं
तद्विमानमनुत्तमम् ॥ ५७ ॥
उत्तरां
दिशमागम्य
जगाम
धनदालयम् ।
पुरोहितस्यात्मसमस्य
राघवो
बृहस्पतेः
शक्र
इवामराधिपः ॥ ५८ ॥
निपीड्य
पादौ
पृथगासने
शुभे
सहैव
तेनोपविवेश
राघवः ॥ ५९ ॥