शिरस्यञ्जलिमाधाय
कैकेय्यानन्दवर्धनः ।
बभाषे
भरतो
ज्येष्ठं
रामं
सत्यपराक्रमम् ॥ १ ॥
पूजिता
मामिका
माता
दत्तं
राज्यमिदं
मम ।
तद्ददामि
पुनस्तुभ्यं
यथा
त्वमददा
मम ॥ २ ॥
धुरमेकाकिना
न्यस्तामृषभेण
बलीयसा ।
किशोरवद्
गुरुं
भारं
न
वोढुमहमुत्सहे ॥ ३ ॥
वारिवेगेन
महता
भिन्नः
सेतुरिव
क्षरन् ।
दुर्बन्धनमिदं
मन्ये
राज्यच्छिद्रमसंवृतम् ॥ ४ ॥
गतिं
खर
इवाश्वस्य
हंसस्येव
च
वायसः ।
नान्वेतुमुत्सह
राम
तव
मार्गमरिन्दम ॥ ५ ॥
यथा
चारोपितो
वृक्षो
जातश्चान्तर्निवेशने ।
महांश्च
सुदुरारोहो
महास्कन्धप्रशाखवान् ॥ ६ ॥
शीर्येत
पुष्पितो
भूत्वा
न
फलानि
प्रदर्शयन् ।
तस्य
नानुभवेदर्थं
यस्य
हेतोः
स
रोप्यते ॥ ७ ॥
एषोपमा
महाबाहो
त्वदर्थं
वेत्तुमर्हसि ।
यद्यस्मान्
मनुजेन्द्रं
त्वं
भक्तान्
भृत्यान्न
शाधि
हि ॥ ८ ॥
जगदद्याभिषिक्तं
त्वामनुपश्यतु
सर्वतः ।
प्रतपन्तमिवादित्यं
मध्याह्ने
दीप्ततेजसम् ॥ ९ ॥
तूर्यसङ्घातनिर्घोषैः
काञ्चीनूपुरनिस्वनैः ।
मधुरैर्गीतशब्दैश्च
प्रतिबुध्यस्व
राघव ॥ १० ॥
यावदावर्तते
चक्रं
यावती
च
वसुन्धरा ।
तावत्त्वमिह
सर्वस्य
स्वामित्वमनुवर्तय ॥ ११ ॥
भरतस्य
वचः
श्रुत्वा
रामः
परपुरञ्जयः ।
तथेति
प्रतिजग्राह
निषसादासने
शुभे ॥ १२ ॥
ततः
शत्रुघ्नवचनान्निपुणाः
श्मश्रुवर्धकाः ।
सुखहस्ताः
सुशीघ्राश्च
राघवं
पर्युपासत ॥ १३ ॥
पूर्वं
तु
भरते
स्नाते
लक्ष्मणे
च
महाबले ।
सुग्रीवे
वानरेन्द्रे
च
राक्षसेन्द्रे
विभीषणे ॥ १४ ॥
विशोधितजटः
स्नातश्चित्रमाल्यानुलेपनः ।
महार्हवसनो
रामस्तस्थौ
तत्र
श्रिया
ज्वलन् ॥ १५ ॥
प्रतिकर्म
च
रामस्य
कारयामास
वीर्यवान् ।
लक्ष्मणस्य
च
लक्ष्मीवानिक्ष्वाकुकुलवर्धनः ॥ १६ ॥
प्रतिकर्म
च
सीतायाः
सर्वा
दशरथस्त्रियः ।
आत्मनैव
तदा
चक्रुर्मनस्विन्यो
मनोहरम् ॥ १७ ॥
ततो
वानरपत्नीनां
सर्वासामेव
शोभनम् ।
चकार
यत्नात्
कौसल्या
प्रहृष्टा
पुत्रलालसा ॥ १८ ॥
ततः
शत्रुघ्नवचनात्
सुमन्त्रो
नाम
सारथिः ।
योजयित्वाऽभिचक्राम
रथं
सर्वाङ्गशोभनम् ॥ १९ ॥
अर्कमण्डलसङ्काशं
दिव्यं
दृष्ट्वा
रथोत्तमम् ।
आरुरोह
महाबाहू
रामः
सत्यपराक्रमः ॥ २० ॥
सुग्रीवो
हनुमांश्चैव
महेन्द्रसदृशद्युती ।
स्नातौ
दिव्यनिभैर्वस्त्रैर्जग्मतुः
शुभकुण्डलौ ॥ २१ ॥
वराभरणसम्पन्ना
ययुस्ताः
शुभकुण्डलाः ।
सुग्रीवपत्न्यः
सीता
च
द्रष्टुं
नगरमुत्सुकाः ॥ २२ ॥
अयोध्यायां
तु
सचिवा
राज्ञो
दशरथस्य
य ।
पुरोहितं
पुरस्कृत्य
मन्त्रयामासुरर्थवत् ॥ २३ ॥
अशोको
विजयश्चैव
सुमन्त्रश्चैव
सङ्गताः ।
मन्त्रयन्
रामवृद्ध्यर्थमृद्ध्यर्थं
नगरस्य
च ॥ २४ ॥
सर्वमेवाभिषेकार्थं
जयार्हस्य
महात्मनः ।
कर्तुमर्हथ
रामस्य
यद्यन्मङ्गलपूर्वकम् ॥ २५ ॥
इति
ते
मन्त्रिणः
सर्वे
सन्दिश्य
तु
पुरोहितम् ।
नगरान्निर्ययुस्तूर्णं
रामदर्शनबुद्धयः ॥ २६ ॥
हरियुक्तं
सहस्राक्षो
रथमिन्द्र
इवानघः ।
प्रययौ
रथमास्थाय
रामो
नगरमुत्तमम् ॥ २७ ॥
जग्राह
भरतो
रश्मीन्
शत्रुघ्नश्छत्रमाददे ।
लक्ष्मणो
व्यजनं
तस्य
मूर्ध्नि
सम्पर्यवीजयत् ॥ २८ ॥
श्वेतं
च
वालव्यजनं
जग्राह
पुरतः
स्थितः ।
अपरं
चन्द्रसङ्काशं
राक्षसेन्द्रो
विभीषणः ॥ २९ ॥
ऋषिसङ्घैस्तदाऽऽकाशे
देवैश्च
समरुद्गणैः ।
स्तूयमानस्य
रामस्य
शुश्रुवे
मधुरध्वनिः ॥ ३० ॥
ततः
शत्रुञ्जयं
नाम
कुञ्जरं
पर्वतोपमम् ।
आरुरोह
महातेजाः
सुग्रीवः
प्लवगर्षभः ॥ ३१ ॥
नवनागसहस्राणि
ययुरास्थाय
वानराः ।
मानुषं
विग्रहं
कृत्वा
सर्वाभरणभूषिताः ॥ ३२ ॥
शङ्खशब्दप्रणादैश्च
दुन्दुभीनां
च
निस्वनैः ।
प्रययौ
पुरुषव्याघ्रस्तां
पुरीं
हर्म्यमालिनीम् ॥ ३३ ॥
ददृशुस्ते
समायान्तं
राघवं
सपुरस्सरम् ।
विराजमानं
वपुषा
रथेनातिरथं
तदा ॥ ३४ ॥
ते
वर्धयित्वा
काकुत्स्थं
रामेण
प्रतिनन्दिताः ।
अनुजग्मुर्महात्मानं
भ्रातृभिः
परिवारितम् ॥ ३५ ॥
अमात्यैर्ब्राह्मणैश्चैव
तथा
प्रकृतिभिर्वृतः ।
श्रिया
विरुरुचे
रामो
नक्षत्रैरिव
चन्द्रमाः ॥ ३६ ॥
स
पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः ।
प्रव्याहरद्भिर्मुदितैर्मङ्गलानि
ययौ
वृतः ॥ ३७ ॥
अक्षतं
जातरूपं
च
गावः
कन्यास्तथा
द्विजाः ।
नरा
मोदकहस्ताश्च
रामस्य
पुरतो
ययुः ॥ ३८ ॥
वानराणां
च
तत्
कर्म
राक्षसानां
च
तद्बलम् ।
विभीषणस्य
संयोगमाचचक्षे
च
मन्त्रिणाम् ॥ ३९ ॥
श्रुत्वा
तु
विस्मियं
जग्मुरयोध्यापुरवासिनः ।
द्युतिमानेतदाख्याय
रामो
वानरसंवृतः ॥ ४० ॥
हृष्टपुष्टजनाकीर्णामयोध्यां
प्रविवेश
ह ।
ततो
ह्यभ्युच्छ्रयन्
पौराः
पताकास्ते
गृहे
गृहे ॥ ४१ ॥
ऐक्ष्वाकाध्युषितं
रम्यमाससाद
पितुर्गृहम् ।
अथाब्रवीद्राजसुतो
भरतं
धर्मिणां
वरम् ॥ ४२ ॥
अर्थोपहितया
वाचा
मधुरं
रघुनन्दनः ।
पितुर्भवनमासाद्य
प्रविश्य
च
महात्मनः ॥ ४३ ॥
कौसल्यां
च
सुमित्रां
च
कैकेयीमभिवाद्य
च ।
यच्च
मद्भवनं
श्रेष्ठं
साशोकवनिकं
महत् ॥ ४४ ॥
मुक्तावैडूर्यसङ्कीर्णं
सुग्रीवाय
निवेदय ।
तस्य
तद्वचनं
श्रुत्वा
भरतः
सत्यविक्रमः ॥ ४५ ॥
पाणौ
गृहीत्वा
सुग्रीवं
प्रविवेश
तमालयम् ।
ततस्तैलप्रदीपांश्च
पर्यङ्कास्तरणानि
च ॥ ४६ ॥
गृहीत्वा
विविशुः
क्षिप्रं
शत्रुघ्नेन
प्रचोदिताः ।
उवाच
च
महातेजाः
सुग्रीवं
राघवानुजः ॥ ४७ ॥
अभिषेकाय
रामस्य
दूतानाज्ञापय
प्रभो ।
सौवर्णान्
वानरेन्द्राणां
चतुर्णां
चतुरो
घटान् ॥ ४८ ॥
ददौ
क्षिप्रं
स
सुग्रीवः
सर्वरत्नविभूषितान् ।
यथा
प्रत्यूषसमये
चतुर्णां
सागराम्भसाम् ॥ ४९ ॥
पूर्णैर्घटैः
प्रतीक्षध्वं
तथा
कुरुत
वानराः ।
एवमुक्ता
महात्मानो
वानरा
वारणोपमाः ॥ ५० ॥
उत्पेतुर्गगनं
शीघ्रं
गरुडा
इव
शीघ्रगाः ।
जाम्बवांश्च
हनूमांश्च
वेगदर्शी
च
वानराः ॥ ५१ ॥
ऋषभश्चैव
कलशान्
जलपूर्णानथानयन् ।
नदीशतानां
पञ्चानां
जलं
कुम्भेषु
चाहरन् ॥ ५२ ॥
पूर्वात्
समुद्रात्
कलशं
जलपूर्णमथानयत् ।
सुषेणः
सत्त्वसम्पन्नः
सर्वरत्नविभूषितम् ॥ ५३ ॥
ऋषभो
दक्षिणात्तूर्णं
समुद्राज्जलमाहरत् ।
रक्तचन्दनशाखाभिः
संवृतं
काञ्चनं
घटम् ॥ ५४ ॥
गवयः
पश्चिमात्तोयमाजहार
महार्णवात् ।
रत्नकुम्भेन
महता
शीतं
मारुतविक्रमः ॥ ५५ ॥
उत्तराच्च
जलं
शीघ्रं
गरुडानिलविक्रमः ।
आजहार
स
धर्मात्मा
नलः
सर्वगुणान्वितः ॥ ५६ ॥
अभिषेकाय
रामस्य
शत्रुघ्नः
सचिवैः
सह ।
पुरोहिताय
श्रेष्ठाय
सुहृद्भ्यश्च
न्यवेदयत् ॥ ५७ ॥
ततः
स
प्रयतो
वृद्धो
वसिष्ठो
ब्राह्मणैः
सह ।
रामं
रत्नमये
पीठे
सहसीतं
न्यवेशयत् ॥ ५८ ॥
वसिष्ठो
वामदेवश्च
जाबालिरथ
काश्यपः ।
कात्यायनः
सुयज्ञश्च
गौतमो
विजयस्तथा ॥ ५९ ॥
अभ्यषिञ्चन्
नरव्याघ्रं
प्रसन्नेन
सुगन्धिना ।
सलिलेन
सहस्राक्षं
वसवो
वासवं
यथा ॥ ६० ॥
ऋत्विग्भिर्ब्राह्मणैः
पूर्वं
कन्याभिर्मन्त्रिभिस्तथा ।
योधैश्चैवाभ्यषिञ्चंस्ते
सम्प्रहृष्टाः
सनैगमैः ॥ ६१ ॥
सर्वौषधिरसैर्दिव्यैर्दैवतैर्नभसि
स्थितैः ।
चतुर्भिर्लोकपालैश्च
सर्वैर्देवैश्च
सङ्गतैः ॥ ६२ ॥
श्वेतं
च
वालव्यजनं
सुग्रीवो
वानरेश्वरः ।
अपरं
चन्द्रसङ्काशं
राक्षसेन्द्रो
विभीषणः ॥ ६३ ॥
मालां
ज्वलन्तीं
वपुषा
काञ्चनीं
शतपुष्कराम् ।
राघवाय
ददौ
वायुर्वासवेन
प्रचोदितः ॥ ६४ ॥
सर्वरत्नसमायुक्तं
मणिरत्नविभूषितम् ।
मुक्ताहारं
नरेन्द्राय
ददौ
शक्रप्रचोदितः ॥ ६५ ॥
प्रजगुर्देवगन्धर्वा
ननृतुश्चाप्सरोगणाः ।
अभिषेके
तदर्हस्य
तदा
रामस्य
धीमतः ॥ ६६ ॥
भूमिः
सस्यवती
चैव
फलवन्तश्च
पादपाः ।
गन्धवन्ति
च
पुष्पाणि
बभूवू
राघवोत्सवे ॥ ६७ ॥
सहस्रशतमश्वानां
धेनूनां
च
गवां
तथा ।
ददौ
शतं
वृषान्
पूर्वं
द्विजेभ्यो
मनुजर्षभः ॥ ६८ ॥
त्रिंशत्कोटीर्हिरण्यस्य
ब्रह्मणेभ्यो
ददौ
पुनः ।
नानाभरणवस्त्राणि
महार्हणि
च
राघवः ॥ ६९ ॥
अर्करश्मिप्रतीकाशां
काञ्चनीं
मणिविग्रहाम् ।
सुग्रीवाय
स्रजं
दिव्यां
प्रायच्छन्मनुजर्षभः ॥ ७० ॥
वैडूर्यमणिचित्रे
च
वज्ररत्नविभूषिते ।
वालिपुत्राय
धृतिमानङ्गदायाङ्गदे
ददौ ॥ ७१ ॥
मणिप्रवरजुष्टं
च
मुक्ताहारमनुत्तमम् ।
सीतायै
प्रददौ
रामश्चन्द्ररश्मिसमप्रभम् ॥ ७२ ॥
अरजे
वाससी
दिव्ये
शुभान्याभरणानि
च ।
अवेक्षमाणा
वैदेही
प्रददौ
वायुसूनवे ॥ ७३ ॥
अवमुच्यात्मनः
कण्टाद्धारं
जनकनन्दिनी ।
अवैक्षत
हरीन्
सर्वान्
भर्तारं
च
मुहूर्मुहुः ॥ ७४ ॥
प्रदेहि
सुभगे
हारं
यस्य
तुष्टाऽसि
भामिनि ।
पौरुषं
विक्रमो
बुद्धिर्यस्मिन्नेतानि
सर्वशः ॥ ७५ ॥
हनुमांस्तेन
हारेण
शुशुभे
वानरर्षभः ।
चन्द्रांशुचयगौरेण
श्वेताभ्रेण
यथाऽचलः ॥ ७६ ॥
ततो
द्विविदमैन्दाभ्यां
नीलाय
च
परन्तपः ।
सर्वान्
कामगुणान्
वीक्ष्य
प्रददौ
वसुधाधिपः ॥ ७७ ॥
सर्ववानरवृद्धाश्च
ये
चान्ये
वानरेश्वराः ।
वासोभिर्भूषणैश्चैव
यथार्हं
प्रतिपूजिताः ॥ ७८ ॥
विभीषणोऽथ
सुग्रीवो
हनुमान्
जाम्बवांस्तथा ।
सर्ववानरमुख्याश्च
रामेणाक्लिष्टकर्मणा ॥ ७९ ॥
यथार्हं
पूजिताः
सर्वैः
कामै
रत्नैश्च
पुष्कलैः ।
प्रहृष्टमनसः
सर्वे
जग्मुरेव
यथागतम् ॥ ८० ॥
नत्वा
सर्वे
महात्मानं
ततस्ते
प्लवगर्षभाः ।
विसृष्टाः
पार्थिवेन्द्रेण
किष्किन्धामभ्युपागमन् ॥ ८१ ॥
सुग्रीवो
वानरश्रेष्ठो
दृष्ट्वा
रामाभिषेचनम् ।
लब्ध्वा
कुलधनं
राजा
लङ्कां
प्रायाद्विभीषणः ॥ ८२ ॥
स
राज्यमखिलं
शासन्निहतारिर्महायशाः ।
राघवः
परमोदारः
शशास
परया
मुदा ॥ ८३ ॥
उवाच
लक्ष्मणं
रामो
धर्मज्ञं
धर्मवत्सलः ।
आतिष्ठ
धर्मज्ञ
मया
सहेमां
गां
पूर्वराजाध्युषितां
बलेन ॥ ८४ ॥
तुल्यं
मया
त्वं
पितृभिर्धृता
या
तां
यौवराज्ये
धुरमुद्वहस्व ।
सर्वात्मना
पर्यनुनीयमानो
यदा
न
सौमित्रिरुपैति
योगम् ॥ ८५ ॥
नियुज्यमानोऽपि
च
यौवराज्ये
ततोऽभ्यषिञ्चद्भरतं
महात्मा ।
पौण्डरीकाश्वमेधाभ्यां
वाजपेयेन
चासकृत् ॥ ८६ ॥
अन्यैश्च
विविधैर्यज्ञैरयजत्
पार्थिवर्षभः ।
राज्यं
दश
सहस्राणि
प्राप्य
वर्षाणि
राघवः ॥ ८७ ॥
शताश्वमेधानाजह्रे
सदश्वान्
भूरिदक्षिणान् ।
आजानुलम्बबाहुः
स
महास्कन्धः
प्रतापवान् ॥ ८८ ॥
लक्ष्मणानुचरो
रामः
पृथिवीमन्वपालयत् ।
राघवश्चापि
धर्मात्मा
प्राप्य
राज्यमनुत्तमम् ॥ ८९ ॥
ईजे
बहुविधैर्यज्ञैः
ससुहृज्ज्ञातिबान्धवः ।
न
पर्यदेवन्
विधवा
न
च
व्यालकृतं
भयम् ॥ ९० ॥
न
व्याधिजं
भयं
वापि
रामे
राज्यं
प्रशासति ।
निर्दस्युरभवल्लोको
नानर्थः
कञ्चिदस्पृशत् ॥ ९१ ॥
न
च
स्म
वृद्धा
बालानां
प्रेतकार्याणि
कुर्वते ।
सर्वं
मुदितमेवासीत्
सर्वो
धर्मपरोऽभवत् ॥ ९२ ॥
राममेवानुपश्यन्तो
नाभ्यहिंसन्
परस्परम् ।
आसन्
वर्षसहस्राणि
तथा
पुत्रसहस्रिणः ॥ ९३ ॥
निरामया
विशोकाश्च
रामे
राज्यं
प्रशासति ।
रामो
रामो
राम
इति
प्रजानामभवन्
कथाः ॥ ९४ ॥
रामभूतं
जगदभूद्रामे
राज्यं
प्रशासति ।
नित्यपुष्पा
नित्यफलास्तरवः
स्कन्धविस्तृताः ॥ ९५ ॥
काले
वर्षी
च
पर्जन्यः
सुखस्पर्शश्च
मारुतः ।
ब्राह्मणाः
क्षत्रिया
वैश्याः
शूद्रा
लोभविवर्जिताः ॥ ९६ ॥
स्वकर्मसु
प्रवर्तन्ते
तुष्टाः
स्वैरेव
कर्मभिः ।
आसन्
प्रजा
धर्मरता
रामे
शासति
नानृताः ॥ ९७ ॥
सर्वे
लक्षण
सम्पन्नाः
सर्वे
धर्मपरायणाः ।
दश
वर्षसहस्राणि
दश
वर्षशतानि
च ॥ ९८ ॥
भ्रातृभिः
सहितः
श्रीमान्
रामो
राज्यमकारयत् ।
आदिकाव्यमिदं
त्वार्षं
पुरा
वाल्मीकीना
कृतम् ॥ ९९ ॥
यः
पठेच्छृणुयाल्लोके
नरः
पापाद्विमुच्यते ।
पुत्रकामस्तु
पुत्रान्
वै
धनकामो
धनानि
च ॥ १०० ॥
लभते
मनुजो
लोके
श्रुत्वा
रामाभिषेचनम् ।
महीं
विजयते
राजा
रिपूंश्चाप्यधितिष्ठति ॥ १०१ ॥
राघवेण
यथा
माता
सुमित्रा
लक्ष्मणेन
च ।
भरतेनेव
कैकेयी
जीवपुत्रास्तथा
स्त्रियः ॥ १०२ ॥
श्रुत्वा
रामायणमिदं
दीर्घमायुश्च
विन्दति ।
रामस्य
विजयं
चैव
सर्वमक्लिष्टकर्मणः ॥ १०३ ॥
शृणोति
य
इदं
काव्यमार्षं
वाल्मीकिना
कृतम् ।
श्रद्दधानो
जितक्रोधो
दुर्गाण्यतितरत्यसौ ॥ १०४ ॥
समागमं
प्रवासान्ते
लभते
चापि
बान्धवैः ।
प्रार्थितांश्च
वरान्
सर्वान्
प्राप्नुयादिह
राघवात् ॥ १०५ ॥
श्रवणेन
सुराः
सर्वे
प्रीयन्ते
सम्प्रशृण्वताम् ।
विनायकाश्च
शाम्यन्ति
गृहे
तिष्ठन्ति
यस्य
वै ॥ १०६ ॥
विजयेत
महीं
राजा
प्रवासी
स्वस्तिमान्
व्रजेत् ।
स्त्रियो
रजस्वलाः
श्रुत्वा
पुत्रान्
सूयुरनुत्तमान् ॥ १०७ ॥
पूजयंश्च
पठंश्चेममितिहासं
पुरातनम् ।
सर्वपापात्
प्रमुच्येत
दीर्घमायुरवाप्नुयात् ॥ १०८ ॥
प्रणम्य
शिरसा
नित्यं
श्रोतव्यं
क्षत्रियैर्द्विजात् ।
ऐश्वर्यं
पुत्रलाभश्च
भविष्यति
न
संशयः ॥ १०९ ॥
रामायणमिदं
कृत्स्नं
शृण्वतः
पठतः
सदा ।
प्रीयते
सततं
रामः
स
हि
विष्णुः
सनातनः ॥ ११० ॥
आदिदेवो
महाबाहुर्हरिर्नारायणः
प्रभुः ।
कुटुम्बवृद्धिं
धनधान्यवृद्धिं
स्त्रियश्च
मुख्याः
सुखमुत्तमं
च ॥ १११ ॥
श्रुत्वा
शुभं
काव्यमिदं
महार्थं
प्राप्नोति
सर्वां
भुवि
चार्थसिद्धिम् ।
आयुष्यमारोग्यकरं
यशस्यं
सौभ्रातृकं
बुद्धिकरं
सुखं
च ॥ ११२ ॥
श्रोतव्यमेतन्नियमेन
सद्भिराख्यानमोजस्करमृद्धिकामैः ।
एवमेतत्
पुरावृत्तमाख्यानं
भद्रमस्तु
वः ॥ ११३ ॥
प्रव्याहरत
विस्रब्धं
बलं
विष्णोः
प्रवर्धताम् ।
देवाश्च
सर्वे
तुष्यन्ति
ग्रहणाच्छ्रवणात्तथा ॥ ११४ ॥
रामायणस्य
श्रवणात्तुष्यन्ति
पितरस्तथा ।
भक्त्या
रामस्य
ये
चेमां
संहितामृषिणा
कृताम् ॥ ११५ ॥
लेखयन्तीह
च
नरास्तेषां
वासस्त्रिविष्टपे ॥ ११६ ॥