निधाय
हृदि
विश्वेशं
विधाय
गुरुवन्दनम् ।
बालानां
सुखबोधाय
क्रियते
तर्कसंग्रहः ॥ १ ॥
द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः
सप्तपदार्थाः ॥ २ ॥
तत्र
द्रव्याणि
पृथिव्यप्तेजोवाय्वाकाशाकालदिगात्ममनांसि
नवैव ॥ ३ ॥
रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभग-
परत्वापरत्वगुरुत्व-
द्रवत्व-स्नेह-शब्द-बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्न-
धर्माधर्म-संस्काराः
चतुर्विंशतिर्गुणाः ॥ ४ ॥
उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि
पञ्च
कर्माणि ॥ ५ ॥
परमपरं
चेति
द्विविधं
सामान्यम् ॥ ६ ॥
नित्यद्रव्यवृत्तयो
विशेषास्त्वनन्ता
एव ॥ ७ ॥
समवायस्त्वेक
एव ॥ ८ ॥
अभावश्चतुर्विधः
प्रागभावः
प्रध्वंसाभावः
अत्यन्ताभावः
अन्योन्याभावश्चेति ॥ ९ ॥
तत्र
गन्धवती
पृथिवी ।
सा
द्विविधा
नित्याऽनित्या
च ।
नित्या
परमाणुरूपा ।
अनित्या
कार्यरूपा ।
पुनस्त्रिविधा
शरीरेन्द्रियविषयभेदात् ।
शरीरमस्मदादीनाम् ।
इन्द्रियं
गन्द्धग्राहकं
घ्राणम् ।
तच्च
नासाग्रवर्ति ।
विषयो
मृत्पाषाणादिः ॥ १० ॥
शीतस्पर्शवत्यः
आपः ।
ता
द्विविधाः
नित्या
अनित्याश्च ।
नित्यः
परमाणुरूपाः ।
अनित्याः
कार्यरूपाः ।
पुनस्त्रिविधा
शरीरेन्द्रियविषयभेदात् ।
शरीरं
वरुणलोके ।
इन्द्रियं
रसग्राहकं
रसनं
जिह्वाग्रवर्ति ।
विषयः
सरित्समुद्रादिः ॥ ११ ॥
उष्णस्पर्शवत्तेजः ।
तच्च
द्विविधं
नित्यमनित्यं
च ।
नित्यं
परमाणुरूपं ।
अनित्यं
कार्यरूपं ।
पुनस्त्रिविधं
शरीरेन्द्रियविषयभेदात् ।
शरीरमादित्यलोके
प्रसिद्धम् ।
इन्द्रियं
रूपग्राहकं
चक्षुः
कृष्णताराग्रवर्ति ।
विषयश्चतुर्विधः
भौमदिव्यौदर्याकरज
भेदात् ।
भौमं
वह्न्यादिकम् ।
अबिन्धनं
दिव्यं
विद्युदादि ।
भुक्तस्य
परिणामहेतुरौदर्यम् ।
आकरजं
सुवर्णादि ॥ १२ ॥
रूपरहीतः
स्पर्शवान्वायुः ।
स
द्विविधः
नित्योऽनित्यश्च ।
नित्यः
परमाणुरूपः ।
अनित्यः
कार्यरूपः ।
पुनस्त्रिविधः
शरीरेन्द्रियविषयभेदात् ।
शरीरं
वायुलोके ।
इन्द्रियं
स्पर्शग्राहकं
त्वक्सर्वशरीरवर्ति ।
विषयो
वृक्षादिकम्पनहेतुः ॥ १३ ॥
शरीरान्तःसंचारी
वयुः
प्राणः ।
स
च
एकोऽप्युपाधिभेदात्प्राणापानादिसंज्ञां
लभते ॥ १४ ॥
शब्दगुणकमाकाशम् ।
तच्चैकं
विभु
नित्यञ्च ॥ १५ ॥
अतीतादिव्यवहारहेतुः
कालः ।
स
चैको
विभुर्नित्य्श्च ॥ १६ ॥
प्राच्यादिव्यवहारहेतुर्दिक् ।
सा
चैका
विभ्वी
नित्या
च ॥ १७ ॥
ज्ञानाधिकरणमात्मा ।
स
द्विविधः
परमात्मा
जीवात्मा
च ।
तत्रेश्वरः
सर्वज्ञः
परमात्मैक
एव ।
जीवात्मा
प्रतिशरीरं
भिन्नो
विभुर्नित्यश्च ॥ १८ ॥
सुखाद्युपलब्धिसाधनमिन्द्रियं
मनः ।
तच्च
प्रत्यात्मनियतत्वादनन्तं
परमाणुरूपं
नित्यं
च ॥ १९ ॥
चक्षुर्मात्रग्राह्यो
गुणो
रूपम् ।
तच्च
शुक्लनीलपीतरक्तहरितकपिशचिन्न
भेदात्सप्तविधम् ।
पृथिवीजलतेजोवृत्ति ।
तत्र
पृथिव्यां
सप्तविधम् ।
अभास्वरशुक्लं
जले ।
भास्वरशुक्लं
तेजसि ॥ २० ॥
रसनग्राह्यो
गुणो
रसः ।
स
च
मधुराम्ललवणकटुकषायतिक्तभेदात्
षड्विधः ।
पृथिवीजलवृत्तिः ।
तत्र
पृथिव्यां
षड्विधः ।
जले
मधुर
एव ॥ २१ ॥
घ्राणग्राह्यो
गुणो
गन्धः ।
स
द्विविधः
सुरभिरसुरभिश्च ।
पृथिवीमत्रवृत्तिः ॥ २२ ॥
त्वगिन्द्रियमात्रग्राह्यो
गुणः
स्पर्शः ।
स
च
त्रिविधः
शीतोष्णानुष्णाशीतभेदात् ।
पृथिव्यप्तेजोवायुवृत्तिः ।
तत्र
शीतो
जले ।
उष्णस्तेजसि ।
अनुष्णाशीतः
पृथिवीवाय्वोः ॥ २३ ॥
रूपादिचतुष्टयं
पृथिव्यां
पाकजमनित्यं
च ।
अन्यत्र
अपाकजं
नित्यमनित्यं
च ।
नित्यगतं
नित्यम् ।
अनित्यगतमनित्यम् ॥ २४ ॥
एकत्वादिव्यवहारहेतुः
संख्या ।
सा
नवद्रव्यवृत्तिः
एकत्वादिपरार्धपर्यन्ता ।
एकत्वं
नित्यमनित्यं
च ।
नित्यगतं
नित्यम् ।
अनित्यगतमनित्यम् ।
द्वित्वादिकं
तु
सर्वत्राऽनित्यमेव ॥ २५ ॥
मानव्यवहारासाधारणकारणं
परिमाणम् ।
नवद्रव्यवृत्तिः ।
तच्चतुर्विधम् ।
अनु
महद्दीर्घं
हृस्वं
चेति ॥ २६ ॥
पृथग्व्यवहारासाधारणकारणं
पृथक्त्वम् ।
सर्वद्रव्यवृत्तिः ॥ २७ ॥
संयुक्तव्यवहारहेतुः
संयोगः ।
सर्वद्रव्यवृत्तिः ॥ २८ ॥
संयोगनाशको
गुणो
विभागः ।
सर्वद्रव्यवृत्तिः ॥ २९ ॥
परापरव्यवहारासाधारणकारणे
परत्वापरत्वे ।
पृथिव्यादिचतुष्टय
मनोवृत्तिनी ।
ते
द्विविधे
दिक्कृते
कालकृते
च ।
दूरस्ते
दिक्कृतं
परत्वम् ।
समीपस्थे
दिक्कृतमपरत्वम् ।
ज्येष्ठे
कालकृतं
परत्वम् ।
कनिष्ठे
कालकृतमपरत्वम् ॥ ३० ॥
आद्यपतनासमवायिकारणं
गुरुत्वम् ।
पृथिवीजलवृत्ति ॥ ३१ ॥
आद्यस्यन्दनासमवायिकारणं
द्रवत्वम् ।
पृथिव्यप्तेजोवृत्ति ।
तद्द्विविधं
सांसिद्धिकं
नैमित्तिकं
च ।
सांसिद्धिकं
जले ।
नैमित्तिकं
पृथिवीतेजसोः ।
पृथिव्यां
घृतादावग्नि
संयोगजं
द्रवत्वम् ।
तेजसि
सुवर्णादौ ॥ ३२ ॥
चूर्णादिपिण्डीभावहेतुर्गुणः
स्नेहः ।
जलमात्रवृत्तिः ॥ ३३ ॥
श्रोत्रग्राह्यो
गुणः
शब्दः
आकाशमात्रवृत्तिः ।
स
द्विविधः
ध्वन्यात्मकः
वर्णात्मकश्च ।
तत्र
ध्वन्यात्मकः
भेर्यादौ ।
वर्णात्मकः
संस्कृतभाषादिरूपः ॥ ३४ ॥
सर्वव्यवहारहेतुर्गुणो
बुद्धिर्ज्ञानम् ।
सा
द्विविधा
स्मृतिरनुभवश्च ।
संस्कारमात्रजन्यं
ज्ञानं
स्मृतिः ।
तद्भिन्नं
ज्ञानमनुभवः ।
स
द्विविधः
यथार्थोऽयथार्थश्च ।
तद्वति
तत्प्रकारकोऽनुभवो
यथार्थः ।
यथा
रजते
इदं
रजतमिति
ज्ञानम् ।
सैव
प्रमेत्युच्यते ।
तदभाववति
तत्प्रकारकोऽनुभवोऽयथार्थः ।
यथा
शुक्ताविदंरजतमिति
ज्ञानम् ।
सैव
अप्रमेत्युच्यते ॥ ३५ ॥
यथार्थनुभवश्चतुर्विधः
प्रत्यक्षानुमित्युपमितिशाब्दभेदात् ।
तत्करणमपि
चतुर्विधं
प्रत्यक्षानुमानोपमानशाब्दभेदात् ॥ ३६ ॥
असाधारणं
कारणं
करणम् ।
कार्यनियतपूर्ववृत्ति
कारणं ।
कार्यं
प्रागभावप्रतियोगि ॥ ३७ ॥
कारणं
त्रिविधं
समवाय्यसमवायिनिमित्तभेदात् ।
यत्समवेतं
कार्यमुत्पद्यते
तत्समवायिकारणम् ।
यथा
तंतवः
पटस्य
पटश्च
स्वगतरूपादेः ।
कार्येण
कारणेन
वा
सहैकस्मिन्नर्थे
समवेतत्वे
सति
यत्कारणं
तदसमवायिकारणम् ।
यथा
तंतुसंयोगः
पटस्य
तन्तुरूपं
पटरूपस्य ।
तदुभयभिन्नं
कारणं
निमित्तकारणम् ।
यथा
तुरीवेमादिकं
पटस्य ।
तदेतत्त्रिविधकारणमध्ये
यदसाधारणं
कारणं
तदेव
करणम् ॥ ३८ ॥
तत्र
प्रत्यक्षज्ञानकरणं
प्रत्यक्षम् ।
इन्द्रियार्थसंनिकर्षजन्यं
ज्ञानं
प्रत्यक्षम् ।
तद्द्विविधं
निर्विकल्पकं
सविकल्पकं
चेति ।
तत्र
निष्प्रकारणं
ज्ञानं
निर्विकल्पकं
यथेदं
किञ्चित् ।
सप्रकारकं
ज्ञानं
सविकल्पकं
यथा
डित्थोऽयं
ब्राह्मणोऽयं
श्यामोऽयं
पाचकोऽयमिति ॥ ३९ ॥
प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसंनिकर्षः
षड्विधः ।
संयोगः
संयुक्तसमवायः
संयुक्तसमवेतसमवायः
समवायः
समवेतसमवायः
विशेषणविशेष्यभावश्चेति ।
चक्षुषा
घटप्रत्यक्षजनने
संयोगः
संनिकर्षः ।
घटरूपप्रत्यक्षजनने
संयुक्तसमवायः
संनिकर्षः ।
चक्षुः
संयुक्ते
घटे
रूपस्य
समवायात् ।
रूपत्वसामान्यप्रत्यक्षे
संयुक्तसमवेतसमवायः
संनिकर्षः ।
चक्षुः
संयुक्ते
घटे
रूपं
समवेतं
तत्र
रूपत्वस्य
समवायात् ।
श्रोत्रेण
शब्दसाक्षात्कारे
समवायः
संनिकर्षः
कर्णविवरवर्त्याकाशस्य
श्रोत्रत्वात्
शब्दस्याकाशगुणत्वाद्गुणगुणिनोश्च
समवायात् ।
शब्दत्वसाक्षात्कारे
समवेतसमवायः
संनिकर्षः
श्रोत्र्समवेते
शब्दे
शब्दत्वस्य
समवायात् ।
अभावप्रत्यक्षे
विशेषणविशेष्यभावः
संनिकर्षः
घटाभाववद्भूतलमित्यत्र
चक्षुः
संयुक्ते
भूतले
घटाभावस्य
विशेषणत्वात् ।
एवं
संनिकर्षषट्कजन्यं
ज्ञानं
प्रत्यक्षं
तत्करणमिन्द्रियं
तस्मातिन्द्रियं
प्रत्यक्षप्रमाणमिति
सिद्धम् ॥ ४० ॥
अनुमितिकरणमनुमानम् ।
परामर्शजन्यं
ज्ञानमनुमितिः ।
व्याप्तिविशिष्टपक्षधर्मताज्ञानं ।
यथा
वह्निव्याप्यधूमवानयं
पर्वत
इति
ज्ञानं
परामर्शः ।
तज्जन्यं
पर्वतो
वह्निमानिति
ज्ञानमनुमितिः ।
यत्र
यत्र
धूमस्तत्र
तत्राग्निरिति
साहचर्यनियमो
व्याप्तिः ।
व्याप्यस्य
पर्वतादिवृत्तित्वं
पक्षधर्मता ॥ ४१ ॥
अनुमानं
द्विविधं
स्वार्थं
परार्थं
च ।
तत्र
स्वार्थं
स्वानुमितिहेतुः
तथाहि
स्वायमेव
भूयोदर्शनेन
यत्र
यत्र
धूमस्तत्र
तत्राग्निरिति
महानसादौ
व्याप्तिं
गृहीत्वा
पर्वतसमीपं
गतः
तद्गते
चाग्नौ
सन्दिहानः
पर्वते
धूमं
पश्यन्व्याप्तिं
स्मरति
यत्र
यत्र
धूमस्तत्र
तत्राग्निरिति ।
तदनन्तरं
वह्निव्याप्यधुमवानयं
पर्वत
इति
ज्ञानमुत्पद्यते
अयमेव
लिङ्गपरामर्श
इत्युच्यते ।
तस्मात्पर्वतो
वह्निमानिति
ज्ञानमनुमितिः
उत्पद्यते ।
तदेतत्स्वार्थानुमानम् ।
यत्तु
स्वयं
धुमाग्निमनुमाय
परंप्रतिबोधयितुं
पञ्चावयव
वाक्यं
प्रयुज्यते
तत्परार्थानुमानम् ।
यथा
पर्वतो
वह्निमान्धूमत्वाद्यो
यो
धूमवान्स
वह्निमान्यथा
महानसः
तथा
चायं
तस्मात्तथेति ।
अनेन
प्रतिपादिताल्लिष्ण्गात्परोऽप्यग्निं
प्रतिपद्यते ॥ ४२ ॥
प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि
पञ्चावयवाः ।
पर्वतो
वह्निमानिति
प्रतिज्ञा ।
धूमवत्वादिति
हेतुः ।
यो
यो
धूमवान्स
वह्निमान्यथा
महानस
इत्युदाहरणम् ।
तथा
चायमित्युपनयः ।
तस्मात्तथेति
निगमनम् ॥ ४३ ॥
स्वार्थानुमितिपरार्थानुमित्योः
लिङ्गपरामर्श
एव
करणम् ।
तस्माल्लिङ्गपरामर्शोऽनुमानम् ॥ ४४ ॥
लिङ्गं
त्रिविधम् ।
अन्वयव्यतिरेकि
केवलान्वयि
केवलव्यतिरेकि
चेति ।
अन्वयेन
व्यतिरेकेण
च
व्याप्तिमदन्वयव्यतिरेकि ।
यथा
वह्नौ
साध्ये
धूवत्त्वम् ।
यत्र
धूमस्तत्राग्निर्यथा
महानस
इत्यन्वयव्याप्तिः ।
यत्र
वह्निर्नास्ति
तत्र
धूमोऽपि
नास्ति
यथा
महाहृद
इति
व्यप्तिरेकव्याप्तिः ।
अन्वयमात्रव्याप्तिकं
केवलान्वयि ।
यथा
घटोऽभिधेयः
प्रमेयत्वात्पटवत् ।
अत्र
प्रमेयत्वाभिधेयत्वयोः
व्यतिरेकव्याप्तिर्नास्ति
सर्वस्यापि
प्रमेयत्वादभिधेयत्वाच्च ।
व्यतिरेकमात्रव्याप्तिकं
केवलव्यतिरेकि
यथा
पृथिवीतरेभ्यो
भिद्यते
गन्धवत्त्वात् ।
यदितरेभ्यो
न
भिद्यते
न
तद्गन्धवद्यथा
जलम् ।
न
चेयं
तथा ।
तस्मान्न
तथेति ।
अत्र
यद्गन्धवत्तदितरभिन्नमित्यन्वयदृष्टान्तो
नास्ति
पृथिवीमात्रस्य
पक्षत्वात् ॥ ४५ ॥
सन्दिग्धसाध्यवान्पक्षः ।
यथा
धूमवत्त्वे
हेतौ
पर्वतः ।
निश्चितसाध्यवान्सपक्षः
यथा
तत्रैव
महानसम् ।
निश्चितसाध्याऽभाववान्विपक्षः
यथा
तत्रैव
महाह्रदः ॥ ४६ ॥
सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः
पञ्च
हेत्वाभासाः ।
सव्यभिचारोऽनैकान्तिकः ।
स
त्रिविधः
साधारणासाधारणानुपसंहारिभेदात् ।
तत्र
साध्याभाववद्वृत्तिः
साधारणोऽनैकान्तिकः
यथा
पर्वतो
वह्निमान्प्रमेयत्वादिति ।
प्रमेयत्वस्य
वह्न्यभाववति
ह्रदे
विद्यमानत्वात् ।
सर्वसपक्षविपक्षव्यावृत्तः
पक्षमात्रवृत्तिः
असाधारणः ।
यथा
शब्दो
नित्यः
शब्दत्वादिति ।
शब्दत्वं
हि
सर्वेभ्यो
नित्येभ्योऽनित्येभ्यश्च
व्यावृत्तं
शब्दमात्रवृत्तिः ।
अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी ।
यथा
सर्वमनित्यं
प्रमेयत्वादिति ।
अत्र
सर्वस्यापि
पक्षत्वाद्दृष्टान्तो
नास्ति ।
साध्याभावव्याप्तो
हेतुर्विरुद्धः ।
यथा
शब्दो
नित्यः
कृतकत्वादिति ।
कृतकत्वं
हि
नित्यत्वाभावेनाऽनित्यत्वेन
व्याप्तम् ।
यस्य
साध्याभावसाधकं
हेत्वन्तरं
विद्यते
स
सत्प्रतिपक्षः ।
यथा
शब्दो
नित्यः
श्रावणत्वाच्छब्दत्ववत् ।
शब्दोऽनित्यः
कार्यत्वाद्घटवत् ।
असिद्धस्त्रिविधः
आश्रयासिद्धः
स्वरूपासिद्धो
व्याप्यत्वासिद्धश्चेति ।
आश्रयासिद्धो
यथा
गगनारविन्दं
सुरभि
अरविन्दत्वात्सरोजारविन्दवत् ।
अत्र
गगनारविन्दमाश्रयः
स
च
नास्त्येव ।
स्वरूपासिद्धो
यथा
शब्दो
गुणश्चाक्षुषत्वात् ।
अत्र
चाक्षुषत्वं
शब्दं
नास्ति
शब्दस्य
श्रावणत्वात् ।
सोपाधिको
हेतुः
व्याप्यत्वासिद्धः ।
साध्यव्यापकत्वे
सति
साधनाव्यापकत्वमुपाधिः ।
साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं
साध्यव्यापकत्वम् ।
साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं
साधनाव्यापकत्वम् ।
पर्वतो
धूमवान्वह्निमत्वादित्यत्रार्द्रेन्धनसंयोग
उपाधिः ।
तथाहि ।
यत्र
धूमस्तत्रार्द्रेन्धनसंयोग
इति
साध्यव्यापकता ।
यत्र
वह्निस्तत्रार्द्रेन्धनसंयोगो
नास्त्ययोगोलके
आर्द्रेन्धनसंयोगाभावादिति
साधनाव्यापकता ।
एवं
साध्यव्यापकत्वे
अस्ति
साधनाव्यापकत्वार्द्रेन्धनसंयोग
उपाधिः ।
सोपाधिकत्वाद्वह्निमत्त्वं
व्याप्यत्वासिद्धम् ।
यस्य
साध्याभावः
प्रमाणान्तरेण
निश्चितः
स
बाधितः ।
यथा
वह्निरनुष्णो
द्रव्यत्वाज्जलवत् ।
अत्रानुष्णत्वं
साध्यं
तदभाव
उष्णत्वं
स्पर्शनप्रत्यक्षेण
गुह्यते
इति
बाधितत्वम् ॥ ४७ ॥
उपमितिकरणमुपमानम् ।
संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः ।
तत्करणं
सादृश्यज्ञानम् ।
अतिदेशवाक्यार्थस्मरणमवान्तर
व्यापारः ।
तथा
हि
कश्चिद्गवयशब्दार्थमजानन्कुतश्चिदारण्यकपुरुषाद्गोसदृशो
गवय
इति
श्रुत्वा
वन
गतो
वाक्यार्थं
स्मरन्गोसदृशं
पिण्डं
पश्यति ।
तदनन्तरमसौ
गवयशब्दवाच्य
इत्युपमितिरुत्पद्यते ॥ ४८ ॥
आप्तवाक्यं
शद्बः ।
आप्तस्तु
यथार्थवक्ता ।
वाक्यं
पदसमूहः ।
यथा
गामानयेति ।
शक्तं
पदम् ।
अस्मात्पदादयमर्थो
बोद्धव्य
इतीश्वरसंकेतः
शक्तिः ॥ ४९ ॥
आकाङ्क्षा
योग्यता
संनिधिश्च
वाक्यार्थज्ञानहेतुः
पदस्य
पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षा ।
अर्थाबाघो
योग्यता ।
पदानामविलम्बेनोच्चारारणं
संनिधिः ॥ ५० ॥
आकाङ्क्षादिरहितं
वाक्यमप्रमाणम् ।
यथा
गौरश्वः
पुरुषो
हस्तीति
न
प्रमाणमाकाङ्क्षाविरहात् ।
अग्निना
सिञ्चेदिति
न
प्रमाणं
योग्यताविरहात् ।
प्रहरे
प्रहरेऽसहोच्चारितानि
गामानयेत्यादिपदानि
न
प्रमाणं
साम्निध्याभावात् ॥ ५१ ॥
वाक्यं
द्विविधम् ।
वैदिकं
लौकिकं
च ।
वैदिकमीश्वरोक्तत्वात्सर्वमेव
प्रमाणम् ।
लौकिकं
त्वाप्तोक्तं
प्रमाणम् ।
अन्यदप्रमाणम् ॥ ५२ ॥
वाक्यार्थ्ज्ञानं
शब्दज्ञानम् ।
तत्करणं
शब्दः ॥ ५३ ॥
अयथार्थानुभवस्त्रिविधः
संशयविपर्ययतर्कभेदात् ।
एकस्मिन्धर्मिणि
विरुद्धनानाध्र्म्वैशिष्ट्यावगाहि
ज्ञानं
संशयः ।
यथा
स्थाणुर्वा
पुरुषो
वेति ।
मिथ्याज्ञानं
विपर्ययः ।
यथा
शुक्तौ
इदं
रजतमिति ।
व्याप्यारोपेण
व्यापकारोपस्तर्कः
यथा
यदि
वह्निर्न
स्यात्तर्हि
धूमोऽपि
न
स्यादिति ॥ ५४ ॥
स्मृतिरपि
द्विविधा ।
यथार्थायथार्था
च ।
प्रमाजन्या
यथार्था ।
अप्रमाजन्याऽयथार्था ॥ ५५ ॥
सर्वेषामनुकूलतया
वेदनीयं
सुखम् ॥ ५६ ॥
सर्वेषां
प्रतिकूलतया
वेदनीयं
दुःखम् ॥ ५७ ॥
इच्छा
कामः ॥ ५८ ॥
क्रोधो
द्वेषः ॥ ५९ ॥
कृतिः
प्रयत्नः ॥ ६० ॥
विहितकर्मजन्यो
धर्मः ॥ ६१ ॥
निषिद्धकर्मजन्यस्त्वधर्मः ॥ ६२ ॥
बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः ॥ ६३ ॥
बुद्धीच्छा
प्रयत्ना
द्विविधाः ।
नित्या
अनित्याश्च ।
नित्या
ईश्वरस्यानित्या
जीवस्य ॥ ६४ ॥
संस्कारस्त्रिविधः ।
वेगो
भावना
स्थितिस्थापकश्चेति ।
वेगः
पृथिव्यादिचतुष्टयमनोवृत्तिः ।
अनुभवजन्या
स्मृतिहेतुर्भावना ।
आत्ममात्रवृत्तिः ।
अन्यथाकृतस्य
पुनस्तदवस्थापकः
स्थितिस्थापकः
कटादिपृथिवीवृत्तिः ॥ ६५ ॥
चलनात्मकं
कर्म ।
ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् ।
अधोदेशसंयोगहेतुरपक्षेपणम् ।
शरीरसंनिकृष्टसंयोगहेतुराकुञ्चनम् ।
विप्रकृष्टसंयोगहेतुः
प्रसारणम् ।
अन्यत्सर्वं
गमनम् ।
पृथिव्यादिचतुष्टयमनोमात्रव्ट्ति ॥ ६६ ॥
नित्यमेकमनेकानुगतं
सामान्यं
द्रव्यगुणकर्मवृत्ति ।
तद्द्विविधं
पराऽपरभेदात् ।
परं
सत्ता ।
अपरं
द्रव्यत्वादिः ॥ ६७ ॥
नित्यद्रव्यवृत्तयो
व्यावर्तका
विशेषाः ॥ ६८ ॥
नित्यसम्बन्धः
समवायः ।
अयुतसिद्धवृत्तिः ।
ययोर्द्वयोर्मध्ये
एकमविनश्यदपराऽश्रितमेवावतिष्ठते
तावयुतसिद्धौ
यथा
अवयवाऽवयविनौ
क्रियाक्रियावन्तौ
जातिव्यक्ती
विशेषनित्यद्रव्ये
चेति ॥ ६९ ॥
अनादिः
सान्तः
प्रागभावः ।
उत्पत्तेः
पूर्वं
कार्यस्य ।
सादिरनन्तः
प्रध्वंसः ।
उत्पत्यनन्तरं
कार्यस्य ।
त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः ।
यथा
भूतले
घटो
नास्तीति ।
तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः ।
यथा
घटः
पटो
नेति ॥ ७० ॥
सर्वेषां
पदार्थानां
यथायथमुक्तेष्वन्तर्भावात्सप्तैव
पदार्था
इति
सिद्धम् ॥ ७१ ॥
इति
गुणखण्डः ।
तर्कसंग्रहः
समाप्तः
।